सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २२६-२३०

विकिस्रोतः तः
← अध्यायाः २२१-२२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २२६-२३०
वेदव्यासः
अध्यायाः २३१-२३५ →

1.226
।। नाडायन उवाच ।। ।।
तस्यैव देवदेवस्य शृणु कर्मेदमुत्तमम ।।
आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः ।। १ ।।
तपसा महता युक्तस्त्ववध्यश्च दिवौकसाम् ।।
स कदाचिन्महादेवं पार्वत्या सहितं प्रभुम् ।। २ ।।
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे ।।
तस्य युद्धं तदा घोरमभवत्सह शंभुना ।। ३ ।।
रुद्रवर्णविनिर्भेदे रुधिरादन्धकस्य तु ।।
अंधकाश्च समुत्पन्ना शतशोथ सहस्रशः ।। ४ ।।
तेषां च दार्यमाणानां रुधिरादपरे पुनः ।। ५ ।।
बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत् ।।
एवं मायाविनं दृष्ट्वा देवदेवस्तदान्धकम् ।। ६ ।।
पानार्थमंधकास्रस्य ससृजे मातरस्तथा ।।
माहेश्वरीं तथा ब्राह्मीं कौबेरीं चानलीं तथा ।। ७ ।।
सौपर्णीमथ वा यव्यां शाक्रीं वै नैर्ऋतीं तथा ।।
सौरीं सौम्यं शिवां दूतीं चामुंडामथ वारुणीम् ।। ८ ।।
वाराहीं नारसिंहीं च वैष्णवीं च ललत्थिकाम् ।।
शतानन्दां भगानन्दां पिच्छिलां भगमालिनीम् ।। ९ ।।
बलामतिबलां रक्तां सुरभीं मुखमुण्डिकाम् ।।
मातृनन्दां सुनन्दां च विडालीं शाकुनीं तथा ।। 1.226.१० ।।
रेवतीं च महारक्तां तथैव पिलिपिच्छिकाम् ।।
जयां च विजयां चैव जयन्तीं चापराजिताम् ।। ११ ।।
कालीं चैव महाकालीं कालदूतीं तथैव च ।।
सुभगां दुर्भगां चैव करालीं देहनीं तथा ।। १२ ।।
अदितिञ्च दितिञ्चैव मालिनीं मृत्युमेव च ।।
कर्णमोटीं तथा याम्यां उलूकीं च घटोदरीम् ।। १३ ।।
कपालीं वज्रहस्तां च पिशाचीं राक्षसीं तथा ।।
भुरुण्डीं हाङ्करीं चण्डां शैवां च कटकीं तथा ।। १४ ।।
घंटां सुलोचनां धूम्रामेकवालीं कपालिनीम् ।।
विशालां दष्टिकां श्यामां त्रिजटीं कुकुहं तथा ।। १५ ।।
विनायकीं च वैतालीमुन्मत्तां शुभनां तथा ।।
सिद्धिञ्च लेलिहानां च केकरां गर्दभीं तथा ।। १६ ।।
तर्कटीं बहुपुत्रां च प्रेतयानां विटंपुराम्।।
क्रौञ्चीं सूकरमुखीं च विततां सरमां दनुम् ।। ।। १७ ।।
उषारंभां पिनाकां च ललितां चित्ररूपिणीम् ।।
स्वधाकारां वषट्स्वाहां धृतिं ज्येष्ठां कपर्दिनीम् ।। १८ ।।
मायाविचित्ररूपां च कामरूपां वशंगमाम् ।।
स्वकंबिलां सिञ्जिकां च महानासां महामुखीम् ।। १९ ।।
कौमारीं रोचनां भीमां सदाहासां मदोद्धताम् ।।
आरक्ताक्षीं कालकर्णीं भर्त्तुकर्णीं महास्वनीम् ।। 1.226.२० ।।
केशिनीं शिखिनीं लम्बां पिंगाक्षीं लोहितामुखीम् ।।
घण्टारवां च दंष्ट्रालां लोचनां काचजङ्घिकाम् ।।२१ ।।
गोकर्णिकां गोमुखिकां महाग्रीवां महामुखीम्।।
उल्कामुखीं धूम्रशिखां कवनां परिकंपिताम् ।। २२ ।।
मोहिनीं कुण्डिनीं त्वेडां निर्भयां बाहुशालिनीम् ।।
शूर्पकर्णीं तथैकाक्षीं विशोकां नन्दिनीं रुचम् ।। २३ ।।
ज्योस्रामुखीं वरपरां निकुम्भां रक्तकम्पनाम् ।।
अविकारां महाचित्रां चित्रसेनां मनोरमाम् ।। २४ ।।
सुदर्शनां हरत्पापां मातङ्गीं लंबमेखलाम् ।।
सुबालां बालतर्कारीं प्रेमोदां लाङ्गलावतीम्।।२५।।
चित्तां वित्तां जडां कोणां शान्तिकां भसिताशनीम् ।।
लंबस्तनीं लंबघण्टां विसतां वामचूडिनीम् ।।२६।।
स्वलतिर्दीर्घकेशी च सुलता सुन्दरी समा ।।
अधोमुखी कटुमुखी क्रोधनी वसुवाशिनी ।। २७ ।।
विराविणी वत्सरुता माषाभाजिनशालिनी ।।
कुटुम्बिका शुक्तिका च चण्डिका बलमोहिनी ।। २८ ।।
मांसान्यहासिनी लम्बा गोविधारी समागधी ।।
एताश्चान्याः स देवेन्द्र ससृजे मातरस्तदा ।। २९ ।।
अन्धकानां महाघोरं पपुस्तद्रुधिरं तदा ।।
ततोन्धकासृजा सर्वाः परां तृप्तिमुपागताः ।।1.226.३०।।
तास्तु तृप्ताः सुसम्भूता भूय एवांधकास्रजा ।।
अर्दितोयैर्महादेवः शूलमुद्गरपट्टिशैः ।। ३१ ।।
ततः स शङ्करो देवस्त्वन्धकैर्व्याकुलीकृतः ।।
जगाम शरणं देवं वासुदेवमजं विभुम् ।। ३२ ।।
ततस्तु भगवान्विष्णुः सृष्टवाञ्छुष्करेवतीम् ।।
सा पपौ सत्वरं तेषामन्धकानामसृक्क्षणात् ।। ३३ ।।
यथायथा च रुधिरं पिबत्यन्धकसम्भवम् ।।
तथा तथाऽधिकं देवी संशुष्यति जनाधिप ।। ३४ ।।
पीयमाने तदा तेषामन्धकानां तथासृजि ।।
अन्धकास्तु क्षयं नीता सर्वे ते त्रिपुरारिणा ।। ३५ ।।
मूलान्धकं तु विक्रम्य तदा सर्वत्र लोककृत् ।।
चकार वेगाञ्छूलाग्रे तदा तुष्टाव शङ्करम् ।। ३६ ।।
अन्धकः सुमहावीर्यः तस्य तुष्टोऽभवद्भवः ।।
सामीप्यं प्रददौ नित्यं गणेशत्वं तथैव च ।। ३७ ।।
ततो मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ।।
भगवन् भक्षयिष्यामः सदेवासुरमानुषम् ।। ३८ ।।
त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ।।
शङ्कर उवाच ।।
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ।। ३९ ।।
तस्माद्घोरादभिप्रायान्मनः शीघ्रं निवर्त्यताम् ।।
नाडायन उवाच ।।
इत्येवं शङ्करेणोक्तं त्वनादृत्य वचस्तु ताः ।। 1.226.४० ।।
क्षोभयामासुऽव्यग्रास्त्रैलोक्यं सचराचरम् । ।
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणैर्नवैः ।। ४१ ।।
नृसिंहमूर्तिं देवं च प्रदध्यौ भगवाञ्छिवः ।।
अनादिनिधनं देवं सर्वलोकभवोद्भवम ।। ४२ ।।
दैत्येन्द्रवक्षोरुधिरप्रोक्षितोरुमहानखम ।।
विद्युज्जिह्वं महादंष्ट्रं स्फुटकेसरसङ्कटम् ।। ४३ ।।
कल्पान्तमारुतक्षुब्धसप्तार्णव महास्वनम ।।
वज्राग्रतीक्ष्णनखरमाकर्णाद्दारिताननम्।। ४४ ।।
मरुशैलप्रतीकाशमुदयार्कसमेक्षणम ।।
हिमाद्रिशिखराकारं चारुदंष्ट्रोज्ज्वलाननम् ।। ४५ ।।
खविनिस्सृतरोमाग्निं ज्वालाकेसरमालिनम् ।।
बद्धाङ्गदं सुमुकुटं चारुकेयूरभूषणम ।। ४६ ।।
श्रोणीसूत्रेण महता काञ्चनेन विराजितम ।।
नीलोत्पलदलश्यामं वामोयुगविभूषितम ।। ४७ ।।
तेजसाक्रान्तसकलं ब्रह्माण्डान्तरमंडपम ।।
सादरभ्राम्यमाणानां हुतहव्य घनार्चिषाम् ।। ४८ ।।
आवर्त्तैः सदृशाकारैः संयुक्तं दैहलोमजैः ।।
सर्वपुप्पविचित्रां च धारयानं महास्रजम ।। ४९ ।।
स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् ।।
यादृशेनैव रूपेण यातो रुद्रेण भक्तितः ।। 1.226.५० ।।
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ।।
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ।। ५१ ।।
शङ्कर उवाच ।।
नमस्तेस्तु जगन्नाथ नरसिंहवपुर्धरः ।।
दैत्यनाथास्थिसंपूर्ण नखशुक्तिविराजित ।। ५२ ।।
तदस्रकणसंलग्नहेमपिङ्गलविग्रहं ।।
मेरोः सपद्मरागस्य शोभां धत्से जगद्गुरो ।। ५३ ।।
कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ।।
सहस्रयम संक्रोध सहस्रेन्द्रपराक्रम ।। ५४ ।।
सहस्रधनदस्फीत सहस्रवरुणात्मक।।
सहस्रकालचरित सहस्रनियतेन्द्रिय।।५५।।
सहस्रभूमिसद्धैर्य सहस्रानन्तमूर्त्तिमत् ।।
सहस्रचन्द्रप्रतिम सहस्रहरिविक्रम ।। ५६ ।।
सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत।।
सहस्रवायुवेगोग्र सहस्रज्योतिरीषण।।५७।।
सहस्रयन्त्रमथन सहस्राबाधमोचन ।।
अन्धकस्य विनाशाय सृष्टा या मातरो मया ।। ५८ ।।
अनादृत्य तु मद्वाक्यं भक्षयंत्यश्च ताः प्रजाः ।।
कृत्वा ताश्च न शक्तोऽहं संहन्तुमपराजित।।५९।।
स्वयं कृत्वा कथं तासां विनाशमपि रोचये ।।
नाडायन उवाच ।।
एवमुक्तः स रुद्रेण नारसिंह वपुर्धरः ।। 1.226.६० ।।
ससर्ज देवीं जिह्वातः तदा वागीश्वरीं हरिः ।।
हृदयाच्च तथा मायां गुह्याच्च भगमालिनीम् ।। ६१ ।।
अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मना ।।
यया तद्रुधिरं पीतमन्धकानां महात्मनाम् ।। ६२ ।।
या त्वस्मिन्कथिता लोके नामतः शुष्करेवती ।।
द्वात्रिंशन्मातरः सृष्टा गात्रेभ्यश्चक्रिणा ततः ।। ६३ ।।
तासां नामानि वक्ष्यामि तानि मे गदतः शृणु ।।
सर्वक्लिष्टा महाभागा कण्ठकर्णी तथैव च ।। ६४।।
त्रैलोक्य मोहिनी पुण्या सर्वसत्त्ववशङ्करी ।।
तथा च चक्रहृदया पञ्चमा व्योमचारिणी ।।६५।।
शंखिनी लेखिनी चैव कालसङ्कर्षिणी तथा ।।
इति देव्यष्टकं राजन्वागीश्यनुचरं स्मृतम् ।। ६६ ।।
अजिता सूक्ष्महृदया वृक्षावेशाश्मदर्शना ।।
नृसिंहभैरवा चिल्ला गरुत्पक्षहृदानया ।। ६७ ।।
भगमालिन्य ऽनुचरा इत्यष्टौ नृप मातरः ।।
आकर्षिणी च भारूटी तथैवोत्तरमालिका ।। ६८ ।।
ज्वालामुखी भीषणिका कामधेनुश्च बालिका ।।
तथा पद्मकरा राजन्रेवत्यनुचराः स्मृताः ।। ६९ ।।
अष्टौ महाबलाः सर्वा देवगात्रसमुद्भवाः ।।
त्रैलोक्यसृष्टिसंहारसमर्थाः सर्वदेवताः ।। 1.226.७० ।।
ताः सृष्टमात्रा देवेन क्रुद्धा मातृगणस्य तु ।।
प्रधाविता महाराज क्रोधविस्फूर्जितेक्षणाः ।। ७१ ।।
अविषह्यतमं तासां दृष्ट्वा तेजः सुदारुणम् ।।
भयेन शरणं प्राप्ता देवेशं पूर्वमातरः ।। ७२ ।।
शरणार्थमनुप्राप्ता नृसिंहो वाक्यमब्रवीत् ।।
नरसिंह उवाच ।।
यथा मनुष्याः पशवः पालयन्ति वराननाः ।। ७३ ।।
यजन्ति तैश्च पशुभिः तथा वै देवतागणान् ।।
भवत्यश्च तथा लोकान्पालयन्तु मयेरिताः ।।७४ ।।
मनुजैश्च तथा देवं यजध्वं त्रिपुरान्तकम्।।
ये च मां संस्मरंतीह ते च रक्ष्या सदा नराः ।।७५।।
बलिकर्म करिष्यंति युष्माकं ये सदा नराः ।।
सर्वकामप्रदास्तेषां भविष्यध्वं तथैव च।।७६।।
तत्सादनादिकं ये च करिष्यंति हरेरितम् ।।
ते च रक्ष्या सदा लोके रक्षितव्यं च शासनम्।।७७।।
रौद्रां चैव परां मूर्तिं महादेवः प्रदास्यति।।
युष्मभ्यं समया सार्धं तेन सार्धं वरस्यथ ।।७८।।
मया मातृगणः सृष्टो योयं विगतसाध्वसः ।।
एष नित्यं विशालाक्ष्यो मयैव सह रंस्यति ।।७९।।
मया सार्धं तथा पूजां वीरेभ्यश्चैव लप्स्यसि ।।
पृथक् च पूजितो लोके सर्वान्कामान्प्रदास्यति ।। 1.226.८० ।।
शुष्कां संपूजयिष्यन्ति ये तु पुत्रार्थिनो जनाः।।
तेषां पुत्रप्रदा देवी भविष्यति न संशयः।।८१।।
नाडायन उवाच।।
एतावदुक्त्वा भगवान्सह मातृगणेन च ।।
ज्वालामालाकुलवपुस्तत्रैवांतरधीयत ।।८२।।
समातृवर्गोपि हरस्य मूर्ति सदा यजंस्तिष्ठति तत्समीपे ।।
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधत्ते त्रिपुरान्तकारी ।। ८३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये अन्धकजयवर्णनोनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ।। २२६ ।।
1.227
।। शैलूष उवाच ।।
मातृदोषप्रशमनान्महेश्वरमुखोद्गतान् ।।
प्रयोगाञ्छ्रोतुमिच्छामि वदतस्ते द्विजोत्तम ।। १ ।।
नाडायन उवाच ।।
चोचकं तु वचा कुष्टं ब्रह्मभूतजटे शुभे ।।
कालमञ्जा हरिद्रे द्वे यवचूर्णविमिश्रितम्।।२।।
उद्वर्तनमिदं प्रोक्तं मातृदोषविनाशनम् ।।
अरिष्टारिष्टपत्राणि तालजीतकयोस्तथा ।। ३ ।।
शिंशिपामलकीबिल्वकपित्थानां तथैव च ।।
बहुकारत्वचं पूर्वां तथैव च पुनर्नवाम् ।। ४ ।।
भार्ङ्गीक्वाथमिदं स्नानं मातृदोषविनाशनम् ।।
अरिष्टकं तथा बिल्वं पद्माक्षं फलिनीफलम् ।। ५ ।।
वचा कुष्टं च मुस्तञ्च वालकं रजनीद्वयम् ।।
चन्दनं कुंकुमं चैव नागदानं च रोचना ।। ६ ।।
एतानि सर्वाण्याहृत्य पूर्णकुम्भे विनिक्षिपेत् ।।
स्नानमेतत्प्रयोक्तव्यं मातृदोषविनाशनम् ।। ७ ।।
कुसुमैः पञ्चवर्णैस्तु धूपैर्निर्यासजैस्तथा ।।
कुंकुमागुरुकर्पूरचन्दनैश्च मनोरमैः ।। ८ ।।
दीपैर्भक्ष्यैस्तथा क्षीरैः कुल्माषोल्लोपिकागुडैः ।।
पायसैर्मधुसंमिश्रैः पललेनोदनेन च ।। ।।९।।
बलिः सुविहितो राजन्मातृदोषविनाशनम् ।।
दूर्वाप्रवालमञ्जिष्ठानागरं नागकेशरम्।।1.227.१०।।
रोचनाकुंकुमं चैव चन्दनं च तथा वचा ।।
विलेपनमिदं श्रेष्ठं मातृदोषविनाशनम् ।। ११ ।।
गजाश्वकपिवाराहनखानि च घृतं तथा ।।
श्रेष्ठोऽयं कथितो धूपो मातृदोषविनाशनः ।। १२ ।।
सिद्धं घृतं चाप्यथ पञ्चगव्यं पुराणमश्नन्ति हि ये नरेन्द्र ।।
तेषां भयं नैव हि मातृजातं भाव्यं कदाचिद्ग्रहसंभवं वा ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मा० सं० मातृबाधाप्रतिषेधोनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ।। २२७ ।।
1.228
।। नाडायन उवाच ।।
तस्य देवादिदेवस्य प्रभावमपरं शृणु ।।
कथ्यमानं मया राजन्सर्वकल्मषनाशनम् ।। १ ।।
शङ्करः पार्वती चैव स्पर्धमानौ परस्परम् ।।
चक्रतुर्मैथुनं राजन्साग्रं वर्षशतं किल।। २ ।।
तयोरन्यतरस्यासीद्यदा नैव पराजयः ।।
ततस्तु देवता खिन्नाः परस्परमथाब्रुवन् ।। ३ ।।
अत्रोत्पत्स्यति यो गर्भस्त्रैलोक्यं सचराचरम् ।।
तेजसा मोहितं तस्य भविष्यति न संशयः ।। ४ ।।
तस्मात्त्वमत्र प्रविश देवदेव हुताशन ।।
एवमुक्तस्तदा वह्निः प्रविवेश सुरोत्तमम्।। ५ ।।
तं दृष्ट्वा संभ्रमादेव समुत्तस्थौ त्रिलोचनः ।।
तेजोभिः क्षुभितं तत्र वह्नेरास्यमथाविशत् ।।६।।
शशाप पार्वती देवी भार्यासु स्वासु देवताः ।।
नैवावाप्स्यथ पुत्रान्वै मत्कोधकलुषीकृताः ।। ७ ।।
हुताशनोपि शर्वस्य दह्यमानो हि तेजसा ।।
तत्याज गर्भं गङ्गायां सापि कालेन केनचित् ।। ८ ।।
तत्याज पर्वते श्वेते गर्भं वह्निसमप्रभम् ।।
तेन जातेन संवृत्तं सौवर्णं श्वेतपर्वतम् ।। ९ ।।
सुवर्णरेतसस्तस्य शंकरस्य तु तेजसा ।।
ददृशुः कृत्तिका बालं संत्यक्तं तत्र गङ्गया ।। 1.228.१० ।।
स्तनानि प्रददुस्तस्य कृपया राजसत्तम ।।
षडाननस्तदा भूत्वा षण्णामेव स्तनं पपौ ।। ११ ।।
तासां क्षीरेण धर्मात्मा विवृद्धश्चारुतेजसा ।।
कृत्तिकानां वरं प्रादाद्यत्तद्वक्ष्यामि ते नृप ।। १२ ।।
नाडायन उवाच ।।
यदा चन्द्रसमायोगं गमिष्यथ शुभाननाः ।।
तदा पूजां करिष्यंति भवतीनां तु ये नराः ।। १३ ।।
वह्नेश्चन्द्रमसश्चैव वरुणस्य तथा मम ।।
गन्धमाल्यैस्तथा पुप्पैर्धूपैर्दीपैस्तथैव च ।। १४ ।।
गन्धोदकेन पुण्येन लाजाभिर्मधुना सह ।।
अपूपैः परमान्नेन दध्ना गव्येन चाप्यथ। ।। १५ ।।
कुल्माषैः सफलैर्भक्ष्यैर्मोदकैः पानकैस्तथा ।।
प्राप्स्यन्त्यभिमतान्कामानिह लोके परत्र च ।। १६ ।।
नक्ताशनस्तथा भूत्वा युष्मत्पूजापरायणः ।।
क्रीडित्वा सुचिरं नाके मानुष्ये तु भविष्यति ।। १७ ।।
रूपान्वितः सत्यपरो द्यावान्धर्मे स्थितः सन्बहुभृत्ययुक्तः ।।
कुलेन शीलेन समन्वितश्च नारीविशेषात्सुभगा भवित्री ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कृत्तिकापूजाविधिर्नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ।। २२८ ।।
1.229
।। नाडायन उवाच ।।
ततस्तु प्रययौ गङ्गा कुमारो यत्र पावकिः ।।
मया त्वं जनितः पुत्र तमुवाच सुरेश्वरम् ।। १ ।।
असहन्त्या महातेजस्त्वदीयं पर्वतोत्तमे ।।
मया स्कन्द परित्यक्तं तदा गर्भगतं मम ।। २ ।।
तस्यास्तद्वचनं श्रुत्वा पावकिर्वाक्यमब्रवीत् ।।
।। स्कन्द उवाच ।।
नाहं गृहं ते यास्यामि शम्भुर्मे दैवतं पिता ।। ३ ।।
अनुग्रहं करिष्यामि तवाहं सुरनिम्नगे ।।
वैशाखमासशुक्लस्य तृतीयायां वरानने ।। ४ ।।
मानुष्यमवतीर्णासि तदा पूजामवाप्स्यसि ।।
तमिन्नहनि यः स्नानमाचरिष्यति ते शुभे ।। ५ ।।
राजसूयाश्वमेधाभ्यां फलेन स तु योक्ष्यति।।
तस्मिन्नहनि यः पूजां यत्र तत्र व्यवस्थितः ।।६।।
गन्धमाल्योपहाराद्यैर्धूपदीपान्नसंपदा ।।
कर्ता तव महाभागे त्वत्तोयस्नानजं फलम् ।। ७ ।।
ध्रुवमाप्स्यति धर्मज्ञे नात्र कार्या विचारणा ।।
तस्मिन्नहनि यत्किञ्चित्प्रदद्याच्छ्रद्धयान्वितः ।। ८ ।।
अक्षयं तत्फलं तस्य भविष्यति न संशयः ।।
अक्षया सा तिथिर्ज्ञेया कृत्तिकाभिर्युता यदि ।। ९ ।।
भविष्यति महाभाग विशेषेण फलप्रदा ।। 1.229.१० ।।
तस्मिन्दिने ये तव चारुगात्रि पूजां करिष्यंति तथेरितां प्राक् ।।
ते नाकलोके सुचिरं निरुप्य लोकान्गमिष्यन्ति जलाधिपस्य ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवचने अक्षयतृतीयामहालयं नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २२९ ।।
1.230
नाडायन उवाच ।।
ततस्तु जातकर्माद्याः क्रियास्तस्य महात्मनः ।।
विश्वामित्रस्तु कृतवान्मङ्गलानि तथैव च ।। १ ।।
एतस्मिन्नेव काले तु देवनाथाय वज्रिणे ।।
श्वेतजातमथाचख्युः कुमारं दीप्ततेजसम् ।। २ ।।
निधनाय मतिं चक्रे तदा तस्य पुरन्दरः ।।
दैवतैः पितृभिर्यज्ञैः प्रभुर्दानवराक्षसैः ।। ३ ।।
भूतनागपिशाचैश्च पितृगन्धर्वमानुषैः ।।
संमन्त्र्य निधने तस्य सृष्टवान्स महाग्रहान् ।। ४ ।।
देवदैत्यग्रहान्घोरान्पितृदानवराक्षसान् ।।
यक्षगन्धर्वनागानां नृणां च पिशिताशिनाम् ।। ५ ।।
ते ग्रहा बहुसाहस्रा नानाप्रहरणोद्यताः ।।
अभिजग्मुः श्वेतगिरिं कुमारवधकाम्यया ।। ६ ।।
ते ग्रहा बहुसाहस्रा ग्रहांश्च शतशः शिवः ।।
स्कंदो ग्रहान्वै ससृजे पूर्वग्रहनिशाचरान् ।। ७ ।।
महाबलान्महावीर्यान्कामगान्कामरूपिणः ।।
अनेकशतसाहस्रान्नानावेशान्मनोजवान् ।। ८ ।।
तेषां प्रधानान्वक्ष्यामि तन्मे निगदतः शृणु ।।
स्कंदो विशाखश्च तथा नैगमेयस्तथैव च ।।
भीमो भीमकरः क्रव्यो निरतः क्रोश एव च ।। ९ ।।
क्रव्यादोथ हविर्बुद्धिः कोटिमुद्गरिकः पृथुः ।।
कालश्चाप्युपकालश्च सिद्धार्थः पुष्पकस्तथा ।। 1.230.१० ।।
पुष्पमित्रः कोकिलकः सिद्धो लंबोदरस्तथा ।।
खल्यूः कपोतो लम्बोष्ठः तथा नायास एव च ।। ११ ।।
यदण्डो गृद्ध्रनासाश्च गृद्ध्रवृत्तुक एव च ।।
क्षुद्रकः कालकालश्च कालस्तत्पुरुषस्तथा ।।१२।।
विद्युद्भूतोऽथ संवर्तो वर्तश्चावर्त एव च ।।
शितिकण्ठः कपर्दी च कच्छपः परिकण्टकः ।। १३ ।।
परिप्रकाशो मत्तश्च मातङ्गवसनस्तथा ।।
गदराक्षः पिशाचश्च वीरनाशो वलीमुखः ।। १४ ।।
महाभूतश्च नन्दश्च सोमानन्दः प्रमोदकः ।।
आनन्दो व्यवसायश्च निश्चयोऽथ पराक्रमः ।। १५ ।।
जयश्च विजयश्चैव सञ्जयः कल्प एव च ।।।
पुष्पदन्तो दन्तवक्रो हेगुण्डिर्भीषणस्तथा ।। १६ ।।
वसुभूतिर्वसुस्त्रातो जीवकस्तापसस्तथा ।।
वीरबाहुः सुबाहुश्च सुन्दरो गण्ड एव च ।। १७ ।।
तुण्डा विचेला गोदंतः कलशः कलशोचरः ।।
शीर्यग्राहो ललाटस्थो ग्रीवाग्राभरतो ग्रहः ।। १८ ।।
परिलेपकजात्यन्धौ करालः कुञ्जनामनौ ।।
अन्येद्युकः सततगस्त्रैतीयकचतुर्थकौ ।। १९ ।।
व्यरोचको नेत्ररोगः कासश्वासानुगस्तथा ।।
धूतपापः पापहितः पापाचारस्तथैव च ।। 1.230.२० ।।
काण्डो धनञ्जयश्चैव शठो नैष्कृतिकस्तथा ।।
वसुधाता वसुमना गौरः शोथो गलग्रहः ।। २१ ।।
भ्रमश्च चित्तमोहश्च तथा कार्यविघातकः ।।
सर्वकार्यकरश्चैव जृंभकश्चार्यकस्तथा ।। २२ ।।
एते चान्ये च बलिनः कामरूपा विहङ्गमाः ।।
त्रैलोक्यसृष्टिसंहारसमर्था विविधायुधाः ।। २३ ।।
नानारूपधरा वीरा नानाविविधवाससः ।।
प्रादुद्रवन्महान्घोरान्पूर्वदेवैर्विसर्जितान् ।।२४।।
अविषह्यतमात्मानो ग्रहाः स्कन्दग्रहास्तथा ।।
स्कन्दं देववरं सर्वे तदा शरणमागताः ।।२५।।
तांस्तु वै शरणं प्राप्तान्स्कंदो वचनमब्रवीत् ।।
स्कंद उवाच।।
शरणं वै प्रपन्नानां वरं दास्यामहं ग्रहाः ।।२६।।
वरयध्वं यथाकामं पूज्या मे शरणार्थिनः ।।
ग्रहा ऊचुः ।।
भगवन्भक्षयिष्यामस्त्वत्प्रसादेन मानुषान् ।।२७।।
एतद्वरमभीष्टं नः सर्वेषां दीप्तविग्रह ।।
स्कंद उवाच ।।
दुराचारांस्तथा लोके गन्धमाल्यानुलेपने।।२८।।
तेषां शरीरे रत्यर्थं वसध्वं नात्र संशयः।।
ये भक्तास्त्र्यम्बके देवे तथा देवे जनार्दने।।२९।।
आस्तिकाञ्छ्रद्धधानांश्च वर्जयध्वं प्रयत्नतः ।।
वरार्थमपि सङ्गृह्य न्यस्ता कर्मादिभिः क्रमः ।। 1.230.३० ।।
त्यक्षध्वं पुरुषाञ्शीघ्रं मम विज्ञाय शासनम् ।।
।। नाडायन उवाच ।।
एवमुक्ता ग्रहाः सर्वे स्वाम्ये चक्रुस्तदा शिशुम् ।। ३१ ।।
कुमारं शर्वतनयं महाबलपराक्रमम् ।।
स्कन्देनैव यथोक्तं तु स्कन्दं स्कन्दग्रहास्तदा ।। ३२ ।।
समेता सर्वे वचनमिदमुचुर्नराधिप ।।
अस्माकमपि देवेश प्रसादं कर्तुमर्हसि ।। ३३ ।।
एवमुक्तोऽथ धर्मात्मा ग्रहा न्स्कन्दस्त्वभाषत ।।
यावत्षोडशवर्षाणि मानवानां भवन्त्युत ।। ३४ ।।
तावद्भवन्तो बाधन्तु मनुष्याणां तथा प्रजाः ।।
तत्रापि बलिकर्माद्यैः क्षेमं तेषां करिष्यथ ।।
ततः पूर्वं ग्रहाणां तु पूज्या लोके भविष्यथ ।। ३५ ।।
एतावदुक्त्वा भगवान्कुमारो ददौ ग्रहाणामपरं शरीरम् ।।
देहान्स्वकान्नायक उग्रसत्त्वो लोकस्य रक्षार्थमतीव हृष्टः ।। ३६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिंश दुत्तरद्विशततमोऽध्यायः ।। २३० ।।