विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २१६-२२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २११-२१५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २१६-२२०
वेदव्यासः
अध्यायाः २२१-२२५ →

1.216
अगस्त्य उवाच ।।
देवतानां समुद्योगं श्रुत्वा मालिसुमालिनौ ।।
चक्रतुः पृतनां घोरां त्रिदशैर्युद्धकाङ्क्षिणौ ।। १ ।।
तौ क्रुद्धौ भ्रातरौ श्रीमान्माल्यवान्वाक्यमब्रवीत् ।।
आश्रयस्त्रिदशेन्द्राणां सर्वात्मा मधुसूदनः ।। २ ।।
तेन युद्धं न कर्तव्यं स तु पूज्यो जगत्पतिः ।।
अग्रे तु प्रणिपातेन तं यजामो जगत्पतिम् ।। ३ ।।
प्रणिपातप्रसन्नो हि कामान्दास्यति केशवः ।।
विष्णुर्हि मलिने चित्तेऽत्वस्माकं नृप दुर्जयः ।। ४।।
जीवेम सुचिरं कालं स्थिता देवस्य शासने ।।
प्रसीद राजन्मा युद्धं व्रज देवेन विष्णुना।।५।।
यक्षाणां राक्षसानां च कुरु श्रेयस्तथात्मनः ।।
एतदुक्तं हितं भ्रात्रा रुरुचे न च तस्य तत् ।। ६ ।।
महता च स सैन्येन प्रययौ येन केशवः ।।
तमन्वयौ महातेजा सुमाली राक्षसाधिपः।।७।।
पितृतुल्यश्च साधूनां ज्येष्ठभ्राता गुरुर्मतः।।
आदौ वाच्यं हितं तस्य कार्यं तदनुचेष्टितम्।।८।।
एतां बुद्धिं समास्थाय निर्यातो माल्यवानपि।।
ते राक्षसा सह भ्रात्रा भीमनेत्राग्निभूषणाः ।।९ ।।
कोटीशतेन मुख्यानां राक्षसानां विनिर्गताः ।।
नानाविधोग्रवसना नानाप्रहरणायुधाः ।। 1.216.१० ।।
नानावादित्रघोषेण प्रयाता राक्षसाधिपाः ।।
नानाप्रकारैर्विविधैः प्राणिभिर्बलवत्तरैः ।। ११ ।।
वाहनैः प्रययुर्घोरा राक्षसास्त्रिदशाधिपम् ।।
गच्छतस्तु बलौघस्य तदा तस्योत्तरां दिशम ।।
बभूवाऽभिमुखं घोरं वनं त्रिदशपालितम् ।। १२ ।।
हिमाचलस्योत्तरदिग्विभागे खस्थे बले ते पुरुषौ प्रवीर ।।
जयार्थमभ्युद्यतचापदण्डौ प्रचक्रतुर्युद्धमदीनसत्त्वौ ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने राक्षससेनानिर्याणवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ।। २१६ ।।
1.217
अगस्त्य उवाच ।।
ततः प्रावर्तत रणं खस्थयोर्बलयोस्तयोः ।।
नानाप्रहरणोदग्रभुजयोर्जयमिच्छतोः ।। १ ।।
तदा बलाभ्रसंच्छन्ने गगने खड्गविद्युति ।।
तस्मिन्नेव क्षणे जातो भानुमान्नृप विद्यतिः ।।२।।
चलत्खड्गलताविद्युत्समुद्योतितविग्रहात् ।।
रक्तवृष्टिः पपातोर्व्यां बलमेघानुविग्रहात्।।३।।
ततः शोणितवर्षेण सिच्यमाने महीतले ।।
ग्राववृष्टिर्महत्यासीच्छादितं भूतलं यया ।। ४ ।।
आसीदगम्या वसुधा शोणितौघपरिप्लुता ।।
रजस्वलेव युवतिस्तदा तत्र नराधिप ।। ५ ।।
स्फुरमाणा विदृश्यन्ते बाहवश्चन्दनोक्षिताः ।।
खड्गप्रहारपतिताः पञ्चशीर्षा इवोरगाः ।। ६ ।।
मुखानि दन्त पूराणि तथा सरुधिराणि च ।।
( विरेजुर्दाडिमानीव पाकप्रस्फुरितानि वा ।। ७ ।।
निपतद्भिस्तथा छत्रैश्चामरैर्व्यजनैस्तथा ।।
विच्छिन्नवाहनाङ्गैश्च खमासीत्संकुलं तथा ।। ८ ।।)
किरीटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ।।
पात्यमानैः खमभवद्रश्मिपुञ्जविराजितम् ।। ९ ।।
क्षुरप्रविनिकृत्तानि रुधिराक्ते महीतले ।।
लुठन्ति नागहस्तानि भोगिभोगनिभानि च ।। 1.217.१० ।।
अदृष्ट्वा पतितानीह शिरांसि वसुधातले ।।
हत्वा वंशान्खमाजग्मुरन्वेषन्त इवासवः ।।११।।
शरीरैर्भूतलं प्राप्ता दिवं प्राप्ता शरीरिभिः ।।
अन्तरिक्षे विनिहिता लोकत्रयजिगीषवः।।
छिन्नराक्षसमूर्धानो गलद्रुधिरबिन्दवः ।।
न्यपतन्नुत्तरादेव श्येनैरुपहृताशयात् ।। १३ ।।
श्येनानां भ्रमतां तत्र राक्षसामिषलिप्सया ।।
बभूव सदृशं रूपं शीर्षाणां भ्रमतां तथा ।। ।। १४ ।।
निकृत्ताङ्गनिपातेन पतिता बहवस्तदा ।।
सुषुपुर्गां समालिङ्ग्य क्रव्यादा रुधिराविलाः ।। १५ ।।
निपतन्मत्तमातङप्रस्फुरत्कुम्भनिर्गता ।।
मुक्ताफलैर्जहासोर्वी शूरालिङ्गननिर्वृता ।। १६ ।।
हृतकुञ्जरदंताग्रविनग्नाङ्गास्तुरङ्गमाः ।।
आसेदुः सुचिरेणोर्वी नभस्येव गतासवः ।।१७ ।।
संप्राप्तरुधिरां भूमिं रक्तास्यास्तु निशाचराः ।।
ययुः शरीरैर्निहताः समरे रुधिरप्रियाः ।। १८ ।।
वर्तमाने तथा भीमे युद्धे भीरुभयंकरे ।।
लोकपालशरव्रातनिर्भिन्ना रजनीचराः ।। १९ ।।
दुद्रुवुर्भयसंविग्नास्तदा राम दिशो दश ।।
विप्रद्रुतं बलं दृष्ट्वा राक्षसानां दिवौकसैः ।। 1.217.२० ।।
सुमालिर्माल्यवद्गुप्तो माली देवानथाब्रवीत् ।।
किरञ्छरौघैर्विमलैस्तैलधौतैः शिलाशितैः ।। २१ ।।
सानुजेन रणे मुक्ता शरवृष्टिर्दुरासदा ।।
संछादयामास दिशः प्रदिशश्च दिवौकसाम् ।। २२ ।।
यथाशक्तिशरव्रातान्वारयन्तोऽपि देवताः ।।
राक्षसेन्द्रशरैर्भिन्नाः केशवं शरणं ययुः ।। २३ ।।
स निवार्य तदा सर्वं देवसैन्यं पतत्रिणा ।।
प्रत्युद्ययौ युगे योधान्धनुषा सपतत्रिणा ।। २४ ।।
एतस्मिन्नेव काले तु रक्षसां पीनवक्षसाम् ।।
विनिवृत्तं बलं सर्वममरैः समरोत्सुकम् ।। २५ ।।
तद्बलं सकलं चक्रे शरैः शार्ङ्गप्रचोदितैः ।।
छादयामास समरे गोभिः सूर्य इवानिशम् ।। २६ ।।
नानाप्रहरणोदग्रगर्जमानो जनार्दनम् ।।
संछादयां तदा चक्रुः सर्वैः प्रहरणोत्करैः ।। २७ ।।
संछाद्यमानैस्तैर्घोरैः केशवो रजनीचरैः ।।
जहार शीर्षाणि तदा तेषां सन्नतपर्वभिः ।। २८ ।।
रथनीडे धनुर्न्यस्य माली राक्षसपुङ्गवः ।।
सुपर्णं ताडयामास गदया भीमवेगया ।। २९ ।।
गदाप्रहाराभिहतस्तार्क्ष्यः परपुरञ्जय ।।
पराङ्मुखं रणाच्चक्रे वेदनार्तो जनार्दनम् ।। 1.217.३० ।।
पराङ्मुखे तदा तार्क्ष्ये परिवृत्ताननो हरिः ।।
शीर्षं जहार चक्रेण राक्षसेन्द्रस्य मालिनः ।। ३१ ।।
सकुण्डलं चारुकिरीटजुष्टं निशाचरेशस्य शिरः पृथिव्याम् ।।
निपातितं वीक्ष्य मुदान्वितान्ता नार्यो बभूबुस्त्रिदशोत्तमानाम् ।।३२।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने मालिराक्षसवधवर्णनो नाम सप्तदशोत्तरद्विशततमोऽध्यायः ।। २१७ ।।
1.218
।। अगस्त्य उवाच ।।
हते मालिनि दैवेन सान्त्वितः पक्षिराडसौ ।।
जहार पक्षवातेन निवृत्तो रक्षसां बलम् ।।१।।
ते तार्क्ष्यपक्षवातेन शुष्कपर्णचयो यथा ।।
द्रुता राक्षसशार्दूलास्तदा राम दिशो दश ।। २ ।।
अविन्दमानास्ते शर्म वासुदेवभयार्दिताः ।।
पातालतलमासेदुः सर्व एव पृथक्पृथक् ।। ३ ।।
त्रिदशान्त्सान्त्वयित्वा च विष्णुस्त्रिदशपूजितः ।।
अन्तर्धानं ययौ तत्र सर्वेषामेव पश्यताम् ।। ४ ।।
लङ्कापि शून्या राजेन्द्र दत्ता वैश्रवणाय सा ।।
स्वयं विश्रवसस्तस्यः रावणेन हृता बलात् ।। ५ ।।
विभीषणाय सा दत्ता त्वया हत्वा च रावणम् ।।
राम विष्णुः समुत्पन्नस्त्वं वधायेह रक्षसाम् ।। ६ ।।
त्वयैव युद्धे निहता ये तु मातुलसङ्कटाः ।।
पौलस्त्यराक्षसा ये तु ते हताः सम्मतं त्वया ।। ७ ।।
हन्ता न विद्यते राम रक्षसां केशवं विना ।।।
दृष्टोऽस्मि भाषितश्चेति प्रययौ स यथागतम् ।। ८ ।।
।। नाडायन उवाच ।।
एवमुक्त्वा ततोऽगस्त्यो यथागतमरिन्दम ।।
तस्माद्युद्धं न मे राजन्नद्य वै तव रोचते ।। ९ ।।
उत्साहशक्त्या सम्पन्नो मन्त्रशक्त्या च राघवः ।।
प्रभुशक्त्या तथा युक्तो देवशक्त्या तथैव च ।। 1.218.१० ।।
साधुसाध्येषु कार्येषु कः कुर्याद्विग्रहं बुधः ।।
केवलं कोपमास्थाय विग्रहं नृपदोषदम् ।। ।१ ।।
कामक्रोधौ जितौ येन तेनात्मा विजितस्तथा ।।
येनात्मा विजितस्तेन विजितेयं वसुन्धरा ।। १२ ।।
राज्ञोऽविजितचित्तस्य परचक्रजयः कुतः।।
न चकस्य जयं कर्तुं शक्नोत्यविजितेन्द्रियः।।१३।।
नावज्ञा कस्यचित्कार्याऽबलो वा बहुमन्यते ।।
नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ।। १४ ।।
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।।
न कश्चिदवमन्यन्ते नराः पण्डितबुद्धयः ।। १५ ।।
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ।। १६ ।।
द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ।।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ।। १७ ।।
कः कुर्याद्दुर्बले क्रोधं स्वभावादेव निर्जिते ।।
बलवत्यपि कः क्रोधं कुर्यात्प्राणहरं नरः ।। १८ ।।
अपहारप्रवृत्तस्य कोपस्तेजस्वितोच्यते ।।
यस्मात्तस्माद्बुधैः कोपः कोपं कृत्वा विनिर्जितः ।।१९।।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।1.218.२०।।
अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ।।
उत्थानमात्मनश्चैव ततः कर्मसमारभेत् ।। २१ ।।
न राज्यं लब्धमित्येवं वर्तितव्यं च साम्प्रतम् ।।
श्रियं ह्यविनयो हन्ति जरारूपमिवोत्तमम् ।। २२ ।।
त्यक्त्वा जनपदे वासं याहि राजन्हिमाचलम् ।।
अविषह्यतमं हत्वा रावणं लोकरावणम् ।।
लङ्कां त्यक्त्वा धनाध्यक्षं पश्य कैलासमाश्रितम् ।। २३ ।।
स रावणो राघवसायकार्त्तस्त्यक्त्वा श्रियं भूमिपते विपन्नः ।।
धनाधिपोऽद्यापि विशाल कीर्तिः करोति राज्यं क्षणदाचराणाम्।।२४।।
इति श्रीविष्णु० प्रथ० मा०सं० राक्षसपातालप्रवेशवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः।।२१८।।
1.219
।। शैलूष उवाच ।। ।।
कथं वैश्रवणे दत्ता पुरा लङ्का द्विजोत्तम ।।
कथं चापहता तस्य रावणेन महात्मना ।। १ ।।
चरितं रावणस्याहं श्रोतुमिच्छामि तत्त्वतः ।।
त्रैलोक्यं विजितं येन तपसा पौरुषेण च ।। २ ।।
।। नाडायन उवाच ।। ।।
ब्रह्मणो मानसः पुत्रः पुलस्त्यो विदितस्तथा ।।
तस्यासीद्विश्रवा नाम पुत्रस्त्रैलोक्यविश्रुतः ।। ३ ।।
पौत्री बृहस्पतेः पत्नी भरद्वाजसुता शुभा ।।
बभूव तस्य राजेन्द्र नाम्ना वै देववर्णिनी ।। ४ ।।
तस्यां स जनयामास पुत्रं वैश्रवणं प्रभुम् ।।
आराधितः सुतपसा प्रादात्तस्य पितामहः ।। ५ ।।
यक्षेशत्वं धनेशत्वं लोकपालत्वमेव च ।।
पुष्पकं च तथा यानं कामगं कामरूपिणम् ।। ६ ।।
पुत्रं लब्धवरं राजन्विश्रवा अभ्यभाषत ।।
त्रिकूटे पर्वतश्रेष्ठे निर्मिता विश्वकर्मणा ।। ७ ।।
लङ्का नाम पुरी रम्या देवराजकृते पुरा ।।
हृत्वा तां देवराजस्य सुकेशतनयैः पुरा ।। ८ ।।
आयासिता महाराज तेषां ज्येष्ठं तु मालिनम् ।।
निपात्य वासुदेवेन ते तु विद्रावितास्ततः ।। ९ ।।
पातालतलमाश्रित्य ते वसन्तीह निर्भयाः ।। 1.219.१० ।।
तां त्वं लङ्कां समासाद्य वस यक्षसमन्वितः ।।
धर्मेण पालयन्राज्यं सततं राक्षसेश्वर ।। ११ ।।
धर्मे ते दीयतां बुद्धिः सर्वावस्थस्य सर्वदा ।।
धर्मादर्थश्च कामश्च धर्ममूलमिदं जगत् ।। १२ ।।
श्रुत्वा पितुर्वाक्यमदीनसत्त्वो लङ्कां समासाद्य धनाधिनाथः ।।
धर्मेण लोकं स तु रञ्जयानश्चकार राज्यं क्षणदाचराणाम् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने लङ्काकथायां वैश्रवणाख्यानं वर्णनो नामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ।। २१९ ।।
1.220
।। नाडायन उवाच ।। ।।
एतस्मिन्नेव काले तु सुमाली वसुधातलम् ।।
चचारादाय तनयां कैकसीं नाम नामतः ।। १ ।।
चरन्स वसुधां स्फीतां ददर्शाथ नराधिपम् ।।
पुष्पकं यानमारूढं श्रिया परमया युतम् ।। २ ।।
तं दृष्ट्वा कैकसीं वाक्यं चोवाच रजनीचरः ।।
पुत्रि प्रदानकालस्ते न कश्चित्त्वां वृणोति माम् ।। ३ ।।
अप्रार्थितप्रदानं च धर्षणाभयशङ्कया ।।
न करोमि विशालाक्षि तवार्थं वरवर्णिनि ।। ४ ।।
कष्टं कन्यापितृत्वं हि नराणां मानकाङ्क्षिणाम् ।।
ध्रुवं कन्यापितृत्वं हि शक्रस्यापि प्रधर्षणम् ।। ५ ।।
मातुः कुलं पितृकुलं यत्र कन्या प्रदीयते ।।
कुलत्रयं संशयितं कन्या कृत्वेह तिष्ठति ।। ६ ।।
तेनाहं त्वां न दास्यामि सा त्वं गच्छ स्वयं शुभे ।।
भर्तारं वरयस्वाशु मुनिं विश्रवसं विभुम् ।। ७ ।।
यतः सोऽयं धनाध्यक्षः श्रिया परमया युतः ।।
तादृशं तनयं तस्माज्जनयिष्यसि भामिनि ।। ८ ।।
जगाम कैकसी राजंस्ततो विश्रवसं मुनिम् ।।
रौद्रे मुहूर्ते संप्राप्ते सन्ध्यायां नृपसत्तम ।। ९ ।।
साभिवन्द्य ततः पादौ तस्य विश्रवसो मुनेः ।।
बभूव पुरतस्तन्वी व्रीडमानेव लज्जया ।। 1.220.१० ।।
उवाच तां मुनिः प्रह्वां कैकसीं चारुहासिनीम् ।।
विज्ञातस्त्वदभिप्रायो मयाद्य वरवर्णिनि ।। ११ ।।
पुत्रार्थं त्वमनुप्राप्ता मत्समीपमनिन्दिते ।।
रौद्रे काले यथा प्राप्ता तादृशं जनयिष्यसि ।। १२ ।।
एवमस्त्वित्यथोक्ता सा तत्रोवास सुखं तदा ।।
ततः कालेन सा पुत्रं जनयामास भामिनी ।। १३ ।।
दशास्यं विंशतिभुजमेकदेहं महाबलम् ।।
नाम तस्य पिता चक्रे दशग्रीवेति बुद्धिमान् ।। १४ ।।
ततो द्वितीयं तनयं महाकायं सुषाव सा ।।
कुम्भकर्णेति तस्यापि नाम चक्रे तदा पिता ।। १५ ।।
तत्र शूर्पणखां कन्यां जनयामास सा तदा ।।
ततः कदाचित्सा पुत्रं कैकसी ज्येष्ठमब्रवीत् ।। १६ ।।
दर्शयन्ती धनाध्यक्षं सव्रीडेव परन्तप ।।
पश्य स्वीयाग्रजस्यास्य श्रियं भ्रातुर्दशानन ।। १७ ।।
स त्वं यत्नमथास्थाय भव वैश्रवणोपमः ।।
एवमुक्तस्तु गोकर्णं प्रययौ भ्रातृभिः सह ।। १८ ।।
शीर्णपर्णाशनस्तत्र चकार सुमहत्तपः ।।
पूर्णे वर्षसहस्रे तु शिरश्छित्वा दशाननः ।। १९ ।।
जुहावाग्नौ महाभाग एकैकं तपसा कृशः ।।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशशायिकः ।। 1.220.२० ।।
आर्द्रवासश्च शिशिरे कुम्भकर्णोऽप्यतप्यत ।।
विभीषणस्ततः काले षष्ठे षष्ठे फलाशनः ।। २१ ।।
परिचर्यां तदा तेषां चक्रे शूर्पणखा स्वसा ।।
दशवर्षसहस्रान्ते तदा काले दशाननः ।। २२ ।।
दशमं मस्तकं वह्नौ जुहूषति यदा प्रभो ।।
ततस्तं देशमागम्य ब्रह्मा वचनमब्रवीत् ।। २३ ।।
।। ब्रह्मोवाच ।।
वरं वरय भद्रन्ते परितुष्टोऽस्मि पुत्रक ।।
तपसा ते सुतप्तेन सत्त्वेन विपुलेन च ।। २४ ।।
।। नाडायन उवाच ।।
देवादीनि स भूतानि कीर्तयामास राक्षसः ।।
सर्वाण्येवाविशेषेण वर्जयित्वा तु मानुषम् ।। २५ ।।
संकीर्त्य तेभ्योऽवध्यत्वं वरयामास भूमिप ।।
त्रैलोक्यविषयं चैव तच्च तस्य ददौ प्रभुः ।। २६ ।।
छन्दयित्वा वरेणाऽथ दशग्रीवं निशाचरम् ।।
न्यस्त्वा सरस्वतीं वक्त्रे कुम्भकर्णं स राक्षसम् ।। २७ ।।
वरेणच्छन्दयामास तदागत्य विभीषणम् ।।
स वव्रे नित्यकालं तु मतिं धर्मे सनातनीम् ।।२८।।
तेन तस्य तदा तुष्टस्त्वमरत्वं ददौ प्रभुः ।।
वरेणच्छन्दयित्वा तान्ब्रह्मा स्वभवनं गतः।। २९।।
वरलब्धं दशग्रीवं ज्ञात्वा रक्षोगणस्तदा ।।
पातालात्तु विनिष्क्रम्य महाराज्येऽभ्यषेचयत् ।।1.220.३०।।
स तु राज्यं तदा लब्ध्वा प्रेषयामास राक्षसान् ।।
कुबेराय तदा दूतं प्रहस्त नाम नामतः ।।३१।।
राक्षसानामधीवासो लङ्केयं निर्मिता पुरा ।।
तां त्यजस्व धनाध्यक्ष साम्नैव मम मा चिरम्।। ३२ ।।
प्रहस्तवचनं श्रुत्वा धनाध्यक्षो महामतिः ।।
दशग्रीवं वरोन्मत्तं ज्ञात्वा तत्याज तां पुरीम् ।।३३।।
कैलासं पर्वतं गत्वा तदा चक्रे पुरीं शुभाम् ।।
अलकां नाम राजेन्द्र यत्रास्ते स सुखी सदा ।।३४।।
दशग्रीवो महाराज त्रिलोकविजयं तथा ।।
चक्रे लङ्कामथासाद्य वरदानात्स्वयम्भुवः ।।३५।।
मन्दोदरीं नाम भार्यां तदा लेभे मयात्मजाम् ।।
तस्यां स जनयामास मेघनादं तथा सुतम् ।। ३६ ।।
त्रिलोकविजयी श्रीमान्देवब्राह्मणकण्टकः ।।
निहतः स तु कालेन विष्णुना नररूपिणा।। ३७ ।।
राघवेण महाराज रामेणाक्लिष्टकर्मणा ।।
लङ्कां त्यक्त्वा धनाध्यक्षः कैलासे पर्वतोत्तमे ।। ३८ ।।
अद्यापि पालयन्नास्ते राज्यं निहतकण्टकम्।।
तस्मात्त्वमपि राजेन्द्र त्यक्त्वा देशमिमं स्वयम्।।
हिमवन्तमथासाद्य वस वैश्रवणोपमः ।।३९।।
तस्मान्न कार्यं भरतेन वैरं महाबलास्त्रा रघवः प्रतीताः।।
प्रसीद जीवन्तु सपुत्रपौत्राः पुत्रास्तवेमे तुहिनाद्रिसंस्थाः ।।1.220.४०।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रावणवरप्राप्तिवर्णनो नाम विंशत्युत्तरद्विशततमोऽध्यायः ।।२२०।।