विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २११-२१५

विकिस्रोतः तः
← अध्यायाः २०६-२१० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २११-२१५
वेदव्यासः
अध्यायाः २१६-२२० →

1.211
।। मार्कण्डेय उवाच ।।
दृष्ट्वा गन्धर्वराजस्य क्रोधेनाकुलितं मनः ।।
तमूचुर्नृप गन्धर्वाः स्वबाहुबलदर्पिताः ।। १ ।।
अपराजित उवाच ।।
सर्वमालभते राजन्नशोकः शूरबाहुषु ।।
तस्माच्छौर्येण निधनं रघूणां मम रोचते ।। २ ।।
निकुम्भ उवाच ।।
योऽयं मन्युः समुद्भूतः काकुत्स्थान्प्रति मे प्रभो ।।
अविनाशि जगत्कृत्स्नं विनाशं समुपैष्यति ।। ३ ।।
।। किन्नर उवाच ।।
या लक्ष्मीरनुलिप्ताङ्गी वैरिशोणितकुङ्कुमैः।।
कान्तापि सरसां प्रीतिं न सा धत्ते मनस्विनाम्।। ४ ।।
वसुनाभ उवाच ।।
कृपाणधाराविध्वस्तशत्रुसङ्घसमुद्भवा ।।
न या श्रीः किं तया कार्यं राजन्सत्त्ववतां नृणाम् ।। ५ ।।
।। अजगर उवाच ।।
अजितारिगणोपान्तसम्पदो भूषणक्रिया ।।
विपद्वरीयसी ताभिर्या न सम्पद्विभूषणा ।। ६ ।।
।। रुह उवाच ।।
शोभन्ते कर्कशाः शूराः स्तना इव समुन्नताः ।।
शूराणां च स्तनानां च परावज्ञाकरी रतिः ।। ७ ।।
।।केश उवाच ।।
तेजस्विनामभ्युदयं वन्दनीयं जगत्त्रये ।।
यथा भास्करमुद्यन्तं जनः सर्वोऽभिनन्दति ।। ८ ।।
।। परवारण उवाच ।।
सत्त्वाधिकस्य सिंहस्य लीलोन्मथितपादपाः ।।
न शक्ताः पुरतः स्थातुं शैलकूटोपमा गजाः ।। ९ ।।
।। आभावह उवाच ।।
न जातु शमनं यस्य तेजस्तेजसि तेजसाम् ।।
वृथा जातेन किं तेन मातुर्वार्द्धक्य कारिणा ।। 1.211.१० ।।
एकलव्य उवाच ।।
नाम्नि संकीर्तिते यस्य न भवन्त्यरयो भयात् ।।
विवर्णवदनच्छायाः का दया तस्य जीवने ।। ११ ।।
विशाल उवाच ।।
लक्ष्मीसङ्गमलुब्धानां शूराणां च रणोद्भवा ।।
कीर्तिर्भवति सैवाशु संयोगकरणा सखी ।। १२ ।।
।। कलिप्रिय उवाच ।।
रिपुरक्तपरा सिक्ता रिपुस्त्रीनेत्रवारिणा ।।
न यस्य सिञ्चिता कीर्तिः का स्पृहा तस्य जीवने ।। १३ ।।
।। भीमनाद उवाच ।।
तेजसैव समाक्रान्तसमस्तभुवनो रविः ।।
करोति पदविन्यासं सर्वेषामेव मूर्धसु ।। १४ ।।
।।महाधर्म उवाच ।।
शत्रुमस्तकविन्यस्तपदक्रमविलासिनी ।।
कविदत्तकरालम्बा कीर्तिर्यातु दिवं तव ।। १५ ।।
।। वासुकिरुवाच ।।
मायानिहतमातङ्गमध्यद्वीपविदारिताम् ।।
क्षितिं भित्त्वाविशत्कन्या कीर्तितो वसुधातलम् ।। १६।।
।। पनस उवाच ।।
हतारिलक्ष्मीसंयोगविकसद्वदनस्य ते ।।
प्रयातु त्वरिता कीर्तिः क्रोधनेव दिशो दश ।।१७।।
गद उवाच।।।
सतोयतोयदाकारैर्नागैर्दानप्रवर्षिभिः ।।
आक्रान्तदिङ्मुखे युद्धे विद्युत्त्वम्मे करोत्वसिः ।। १८ ।।
महानाद उवाच ।।
मदीयसिंहनादेन वित्रासितगजाकुलम् ।।
बलं निपातयारीणां शरैः सन्नतपर्वभिः ।। १९ ।।
वसुरुवाच ।।
गजाश्वरथपादातचरणोल्लिखितं रजः ।।
द्रष्टासि प्रशमं यातं परितस्त्वरिशोणितैः ।। 1.211.२० ।।
वृन्दारक उवाच ।।
गजकुम्भसमुद्रस्थमुक्ताफलविकासिषु ।।
तिष्ठत्सु राजन्खड्गेषु कः सहेत पराभवम् ।। २१ ।।
।। ज्योतिषिक उवाच ।।
कापिशभ्रूलताभङ्गकुटिलद्वयकोटिषु ।।
विद्यमानेषु चापेषु कः सहेत पराभवम् ।। २२ ।।
दृढस्युरुवाच ।।
राजंस्तीक्ष्णाः सन्ति यस्य विशिखाः पञ्च मानिनः ।।
किमन्यैस्तस्य कर्तव्यं पक्षपातिभिराहवे ।। २३ ।।
चन्द्रापीड उवाच ।।
किमायुधैः सत्त्ववतां चारुदोर्दण्ड शालिनाम् ।।
सद्यः सञ्जातमन्यूनां युद्धव्याक्षेपकारकैः ।। २४ ।।
गद्युरुवाच ।।
खड्गास्तिष्ठन्तु मे तुच्छा भुक्तभङ्गाट्टहासिनः ।।
एकदोर्दण्डशेषोऽपि कः सहेत पराभवम् ।। २५ ।।
कलविङ्क उवाच ।।
मद्बाहुमन्दरक्षुब्धवैरिसैन्यमहार्णवात् ।।
भुङ्क्ष्व लक्ष्मीं समुत्पन्नां चिराय जगतीपते ।। २६ ।।
।। गज उवाच ।।
किमायुधैः सत्त्ववतां कुपुंसां च किमायुधैः ।।
अरातिशस्त्राण्येकेषामन्येषामफलानि हि ।। २७ ।।
बलक उवाच ।।
दुर्बलोत्खात शक्रेभदशनाभिहते हरौ ।।
मयाद्य सुरराडस्तु भवांस्त्रिभुवनेश्वरः ।। २८ ।। ।।
प्रनष्टदेवतापूजं बलिहीनं सुदुर्दशम् ।।
मया कृतमथाद्यास्तु त्रैलोक्यमपि सुप्रभो ।। २९ ।।
हरिक उवाच ।।
कीनाशमहिषेणाद्य हरस्य वृषभेण तु ।।
अयोध्यां वाहयिष्यामि शेषाहेर्लाङ्गलेन च ।। 1.211.३० ।।
महोदर उवाच ।।
निरस्तमयमार्तण्डे मया लोके चराचरे ।।
यमस्य महिषं पश्य क्रमन्तं सूर्यवाजिषु ।। ३१ ।।
सूर्य उवाच ।।
निःशेषदेवतासंघे मया लोकत्रये कृते ।।
दुर्गासिंहविनिर्भिन्नं पश्याद्य मघवद्गजम् ।। ३२ ।।
प्रभस उवाच ।।
निरस्ताम्बुपिपासेन समाकृष्ट धनेश्वराः ।।
प्रणमन्तु तवाद्यैव देवसंघा हतत्विषः ।। ३३ ।।
भद्रक उवाच ।।
स्कन्दशङ्करशून्येऽस्मिन्मया त्रिभुवने कृते ।।
शिखी संभक्षयत्वद्य शर्वाभरणपन्नगान् ।। ३४ ।।
मार्कण्डेय उवाच ।।
क्रोधान्धकारकलुषीकृतचारुवक्त्रान्गन्धर्वराजतनयान्प्रसमीक्षमाणः ।।
जगाद राजानमदीन सत्त्वो नाडायनाख्यस्तु तदा पुरोधाः ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वगर्जनं नामैकादशोत्तरद्विशततमो ऽध्यायः ।। २११ ।।
1.212
।। नाडायन उवाच ।। ।।
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशीकुरु ।।
पञ्च जित्वा विजित्वा षट् सप्त हित्वा सुखी भव ।। १ ।।
एकया प्रज्ञया राजन्कार्याकार्यद्वयं नरः ।।
विनिश्चित्य तु यः कुर्यात्कार्यं तत्र स पण्डितः ।। २ ।।
मध्यस्थं यदि वा मित्रं शत्रुं वा कार्यगौरवात् ।।
ज्ञात्वा देशं च कालं च ह्युपायैरभ्युपक्रमेत् ।। ३ ।।
सामभेदप्रदानाश्च उपायाः परिकीर्तिताः ।।
उपायश्च चतुर्थो ऽत्र दण्डस्त्वगतिका गतिः ।। ४ ।।
पञ्चेन्द्रियजयो येन कृत आदौ जिगीषुणा ।।
त्रिलोकविजयं तस्य न दूरे प्रतिभाति मे ।। ५ ।।
पञ्चेन्द्रिय जयं कृत्वा गुणषट्कमुपाश्रयेत् ।।
बुद्ध्वा बलाबलं सम्यगात्मनश्चापरस्य च ।। ६ ।।
राजदोषाः परित्यक्ता येन सप्त नराधिप ।।
सिद्धिं तस्य समायान्ति यथाकालं गुणा नृप ।। ७ ।।
मृगयायानमुख्याश्च स्त्रियश्च पुरुषा गिरः ।।
अर्थसन्दूषणं चैव दण्डपारुष्यमेव च ।। ८ ।।
राजदोषैः परित्यक्ता राघवास्तत्र पार्थिव ।।
गुणाश्रयविभागज्ञा विग्रहस्तैर्न रोचते ।। ९ ।।
भरतेन वयं साम्ना बले महति तिष्ठता ।।
प्रथमं समुपाक्रान्तं तदेव तव रोचताम् ।। 1.212.१० ।।
भरतस्य वयं साम्ना यदि गच्छेम पर्वतम् ।।
हितं तत्स्यान्महाभाग सकुलस्य तवाऽनघ ।। ११ ।।
त्वया कृत्वा समुच्छेदं राज्ञां जननिवासिनाम् ।।
अकारणान्महद्वैरं कृतं भूपतिभिः सह ।। १२ ।।
जने निवासादस्माकं केवलं लघुता भवेत् ।।
मानुषैः संगमश्चैव विग्रहश्च पुनःपुनः ।। १३ ।।
न कृषिर्न च वाणिज्यं जनोऽस्माकं प्रयोजनम् ।।
ते वयं सजनां भूमिं त्यक्त्वा यामः शिलोच्चयम् ।। १४ ।।
अपेक्ष्य देशकालौ च संधिं विग्रहमेव च ।।
फलं च बुद्ध्वा यः कुर्यात्स राजन्पण्डितो नरः ।। १५ ।।
भूमिर्हिरण्यं मित्रं च त्रिविधं विग्रहास्पदम् ।।
स्वयंग्राहो यदस्माकं मेरुः कनकपर्वतः ।। ।। १६ ।।
हिरण्येन तदा कार्यं न नोऽस्ति रिपुसूदन ।।
कृषिर्नास्ति यतोऽस्माकं ततो भूर्निष्प्रयोजना ।। १७ ।।
तस्माद्भरतमन्विच्छ मित्रं साम्ना नराधिप ।।
मित्रं रघुकुलं कृत्वा निवासस्तु हिमाचले ।। १८ ।।
अदृश्यं देवसैन्यानां सुखं चिरमवाप्नुहि ।।
न मानुषोऽयमित्येवं भरतं मन्तुमर्हसि ।। १९ ।।
दुष्टानां निग्रहार्थाय चतुर्मूर्तिर्जनार्दनः ।।
जातो रघुकुले राजन्पुत्रो दशरथस्य तु ।।1.212.२०।।
अंशेन वासुदेवस्य जातो रामो महायशाः ।।
संकर्षणस्य चांशेन लक्ष्मणः परवीरहा ।। २१ ।।
प्रद्युम्नस्य तथांशेन भरतो धर्मवत्सलः ।।
अनिरुद्धस्य चांशेन शत्रुघ्नः सुमहाबलः ।। ।। २२ ।।
तत्र राघवसिंहेन रामेणाक्लिष्टकर्मणा ।।
रावणोऽभिहतः संख्ये सर्वसत्त्वभयङ्करः ।। २३ ।।
मेघनादो निरस्तश्च संग्रामे लक्ष्मणेन च ।।
शत्रुघ्नेन निरस्तश्च लवणो दुष्टराक्षसः ।। २४ ।।
मन्ये विशिष्टभावत्वं भरतस्य महात्मनः ।।
येन माली हतः पूर्वं लङ्कावासी स राक्षसः ।। २५ ।।
स एष भरतो विष्णुरस्ति ते तु रणंगमः।।२६।।
हिते स्थितो यः सततं सुराणां दैत्येन्द्रनाशाय निविष्टबुद्धिः ।।
तेनाऽप्रमेयेण जनार्दनेन समं व्रजस्वाशु महानुभाव ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनानुशासनवर्णनो नाम द्वादशोत्तरद्विशततमोऽध्यायः ।। २१२ ।।
1.213
।। शैलूष उवाच ।।
सुमाली विष्णुना पूर्वं कथं युद्धे निपातितः ।।
एतन्मे संशयं छिन्धि श्रूयते स महाबलः ।। १ ।।
नाडायन उवाच ।।
कथेयं राजशार्दूल पुरागस्त्येन धीमता ।।
रामाय कथिता वीर तां मे निगदतः शृणु ।।२।।
पुरा विनिहते वृत्रे दैत्या विगतनायकाः ।।
अब्दुर्गं सागरं कृत्वा रात्रौ निघ्नन्ति वै प्रजाः ।। ३ ।।
सुरैः सर्वैः समागम्य तथाऽयं न परैर्वधम् ।।
समुद्रोदकपानाय अगस्त्यश्चोदितस्तदा ।। ४ ।।
देवकर्मप्रमुदितस्तदागस्त्यमुनिर्नृप ।।
पीत्वा चकार राजेन्द्र निस्तोयं सलिलाशयम्। ।। ५ ।।
देवैश्च निहता दैत्या निस्तोये सलिलाशये ।।
ततः कदाचिद्विन्ध्यस्तु जगादार्कनिशाकरौ ।। ६ ।।
मेरुं त्यक्त्वा महाभागौ मम यात प्रदक्षिणम् ।।
ऊचतुस्तौ तदा विन्ध्यमावयोस्तु वशं गिरे ।। ७ ।।
तेन पन्थाः कृतोऽस्माकं येनेदं निर्मितं जगत् ।।
एतच्छ्रुत्वा तु विध्न्यस्तु तपस्तप्त्वा पितामहात् ।। ८ ।।
इषुपातमथोच्छ्रायं प्रत्यहं समवाप्तवान् ।।
ततः कतिपयाहेन दिशमावृत्य दक्षिणाम् ।। ९ ।।
आवृत्य तस्थौ पन्थानं दिवाकरनिशाभृतोः ।।
ततोऽन्धमभवत्सर्वो भूर्लोकः पार्थिवोत्तम ।। 1.213.१० ।।
प्रेरितो देववाक्येन ततोऽगस्त्यो महातपाः ।।
गत्वोवाच तदा विन्ध्यं तीर्थयात्रां करोम्यहम् ।। ११ ।।।
मत्कृते ह्रस्वतां गच्छ येन यास्याम्यहं सुखी ।।
ज्ञात्वा ततः प्रभावं तु सोऽगस्त्यस्य महागिरिः ।। १२ ।।
जगाम ह्रस्वतां शीघ्रमगस्त्योऽपि तदा ययौ ।।
दक्षिणाशां परित्यज्य न यावदहमागतः ।। १३ ।।
सपुत्रदारस्तावत्त्वं ह्रस्व एव भवाऽचल ।।
एवमुक्त्वा स विन्ध्यन्तु सदारापत्यबान्धवम् ।। १४ ।।
जगाम दक्षिणामाशां तमुवाच पितामहः ।।
देवकार्यं महद्ब्रह्मंस्त्वया कृतमिदं शुभम् ।। १५ ।।
तस्मात्स्थानं च ते दद्मि वैश्वानरपथाद्बहिः ।।
दिव्यदेहो भवांस्तत्र विमानवरमास्थितः ।। १६ ।।
दक्षिणां भूषय दिशमस्तोदयसमन्वितः ।।
प्रसादमम्भसां शैत्यं निर्विषत्वं तवोदये ।। १७ ।।
भविष्यत्यमलप्रज्ञ मत्प्रसादात्तवैव तु ।।
शरत्सु मुदितो वसन्तेस्तमयं व्रज ।। १८ ।।
प्राकाम्ययुक्तश्च तथा समग्रां वसुधां चर ।।
प्रधानमूर्तिर्यावत्त्वं सदारापत्यबान्धवः ।। १९ ।।
नाक्रमिष्यति वै विन्ध्यं तावद्विन्ध्याचलः स्थितः ।।
प्राकाम्यमूर्तियुक्ते तु यत्र क्वचन संस्थिते ।। 1.213.२० ।।
त्वयि विन्ध्यो महाशैलो वृद्धिं न स गमिष्यति ।।
इल्वलश्चापि दुर्मेधा भ्रात्रा वै मेषरूपिणा ।। ।। २१ ।।
यदा भोजयते विप्रान्भुक्तवत्सु द्विजातिषु ।।
कुक्षिभेदन्तु वातापी कृत्वा निर्गच्छते पुनः ।। २२ ।।
एवं विनिघ्नतस्तस्य ब्राह्मणान्यत्त्वया कृतम् ।।
शरणं तेन तुष्टोऽस्मि विन्ध्यसंस्तम्भनेन च ।। २३ ।।
शरत्समयमासाद्य यस्माद्विप्र नवोदये ।।
पूजां त्वमाप्स्यसे लोके मत्प्रसादाद्द्विजोत्तम ।। २४ ।।
ये च त्वां पूजयिष्यन्ति गन्धमाल्यफलाक्षतैः ।।
दधिकाञ्चनरत्नैश्च परमान्नेन भूरिणा ।। २५ ।।
पूर्णकुम्भैः सकूष्माण्डैश्छत्रोपानहयष्टिभिः ।।
धेन्वा वृषेण भक्ष्यैश्च वासोभिः कनकेन च ।। २६ ।।
संवत्सरं च त्यागेन फलस्यैकस्य चाप्यथ ।।
पूजनैर्ब्राह्मणेन्द्राणां त्वत्कर्मपरिकीर्तनैः।। २७ ।।
ते प्राप्स्यन्ति सदा पुत्रान्धनमारोग्यमेव च ।।
आयुरग्र्यं तथा लोके शत्रुभिश्चापराजयम्।। २८ ।।
सौभाग्यं विपुलान्कामान्धर्मवृद्धिं तथैव च ।।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।। २९ ।।
आससाद तथा स्थानमगस्त्योऽपि महातपाः ।।
येन क्रतुशतैरिष्टं तपस्तप्तं तथा महत् ।। 1.213.३० ।।
तेन स्वतपसा सृष्टा लोपामुद्रा प्रियंवदा ।।
विदर्भराजतनया धर्मपत्नी तथात्मनः ।। ३१ ।।
दृढस्युस्तनयस्तस्य तपस्वी च महातपाः ।।
प्रमुचुर्मुमुचुश्चैव तन्मुचुश्च महातपाः ।। ३२ ।।
स्वस्त्यात्रेयस्तथा विद्वांस्तस्य शिष्यो महात्मनः ।।
अभेद्यं कवचं दत्तं तथाऽक्षय्ये महेषुधी ।। ३३ ।।
रामलक्ष्मणयोस्तेन धनुषी च महाबले ।।
घोरेणाप्यथ संयुक्तः स च वैष्णवतेजसा ।। ३४ ।।
कर्मणा कीर्तनं यस्य नरो वर्षशतैरपि ।।
कर्तुं शक्तो न सहते प्राकाम्ये चैव रावणे ।। ३५ ।।
अयोध्यां राघवं द्रष्टुं जगाम त्वरितो मुनिः ।।
तमागतमभिप्रेक्ष्य पूजयामास राघवः ।। ३६ ।।
पाद्यार्घ्याचमनीयाद्यैः सर्वै राज्यनिवेदनैः ।।
संपूजितस्तदा तेन तत्र चक्रे कथाः शुभाः ।। ३७ ।।
ततः कथान्ते कस्मिंश्चित्तमपृच्छत्तु राघवः ।।
विष्णुना मालिनिधनं तेनोक्तं तस्य तच्छ्रृणु ।। ३८ ।।
यदुक्तवान्राघवनन्दनस्य चन्द्रार्कवह्निप्रतिमप्रभावः ।।
रक्षोगणेशस्य वधं सुघोरं मुनिर्महात्मा तदिदं निबोध ।। ३६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनोक्तागस्त्यमाहात्म्यवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ।। २१३ ।।
1.214
अगस्त्य उवाच ।।
माली सुमाली राजेन्द्र माल्यवांश्च रणोत्कटः ।।
लङ्कादुर्गमथासाद्य चित्रमूषुः परस्परम् ।। १ ।।
माली सुमाली दुर्वृत्तौ पीडयन्तौ च देवताः ।।
वार्यमाणावपि सदा तेन माल्यवता नृप ।। २ ।।
तयोर्भीतैः सुरैर्ब्रह्मा ज्ञापितः सप्रयोजनम् ।।
ब्रह्मणा सहितैर्गत्वा ज्ञापितस्त्रिपुरान्तकः ।। ३ ।।
ब्रह्मेशसहिता देवा विष्णुं शरणमीयुषः ।।
जग्मुर्लवणतोयस्थं विज्ञापयितुमच्युतम् ।। ४ ।।
ददृशुश्च रघुश्रेष्ठ समुद्रं पीतमम्भसाम् ।।
ऊर्मिवर्गैः प्रनृत्यद्भिर्वल्गन्तमिव वायुना ।। ५ ।।
हसन्तमिव फेनौघैः स्खलन्तं कन्दरासु च ।।
अपारमिव गर्जन्तं नानायादोगणावृतम् ।। ६ ।।
वीचिहस्तैः प्रचलितैराह्वयानमिवाऽमराद् ।।
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः ।।७।।
ऊर्मयश्चास्य दृश्यन्ते चलन्त इव पर्वताः ।।
तिमिङ्गिलाः कच्छपाश्च तथा तिमि तिमिङ्गिलाः ।। ८ ।।
मकराश्चापि दृश्यन्ते जले मग्ना इवाद्रयः ।।
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ।।।९।।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ।।
क्वचित्सुप्तः क्वचिद्गर्जन्क्वचिद्घूर्णन्क्वचित्स्खलन्।। 1.214.१० ।।
क्षीबोपमं तं ददृशुः समुद्रं त्रिदशाधिपाः ।।
क्वचिच्चावासितैर्दैत्यैः क्वचिद्दैत्यारिणा तथा ।।। ११ ।।
क्वचिच्च भुजगैर्भीमैर्महागाम्भीर्यसंयुतम् ।।
विष्णोर्वराहवपुषा विक्षोभितजलाविलम् ।। १२ ।।
अनासादितबाधं च वर्षाणां शतपत्रिणा ।।
तेन देवातिदेवेन विष्णुना प्रभविष्णुना ।।१३।।
नित्यमन्तरसंस्थेन निर्मलीकृतविग्रहम् ।।
शक्रवज्रभयत्रस्यमानशैलशता कुलम् ।। १४ ।।
विद्रुमाम्बरमाप्लुष्टसदृशाकारविद्रुमम् ।।
पूर्णचन्द्रकलङ्कस्य क्षालनेप्सुरिवोद्धतैः ।। १५ ।।
खमाक्रमति कल्लोलैः पौर्णमासीषु यः सदा ।।
असंख्यातं तरङ्गौघैः संक्रान्तशशिमण्डलम् ।। १६।।
हसन्तं वान्तरिक्षस्य श्रियमेवेन्दुधारिणः ।।
दिग्भागदानकालेषु युक्तश्चन्दनवा रिणा ।।
सुप्यते च यथा यत्र सततं दानवारिणा ।। १७ ।।
तमन्तरिक्षप्रतिमं विशाललोलोर्मिमालाकुलदिग्विभागम् ।।
समुद्रमासाद्य दिवौकसस्त मातस्थुरुग्रं तपसोग्रसत्त्वाः ।। १८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये समुद्रवर्णनो नाम चतुर्दशो त्तरद्विशततमोऽध्यायः ।।२१४।।
1.215
अगस्त्य उवाच ।।
तपसा तोषितो देवैर्देवदेवो जनार्दनः ।।
महोदवासं संत्यज्य सुराणां दर्शनं ददौ ।।१।।
ते च तं विबुधारिघ्नं धरणीपातपांसुलैः ।।
जानुपाणिललाटान्तैः प्रणेमुर्मुदिता हरिम्।।२।।
तुष्टुवुश्च तथा वाग्भिरथोचुः स्वप्रयोजनम् ।।
वधार्थं देवदेवस्य सुकेशतनयान्प्रति ।। ३ ।।
प्रतिजज्ञे तदा तेषां देवो मालिवधं हरिः ।।
यूयं सुमालिनिधने शक्ताः स्थ सुरसत्तमाः ।। ४ ।।
माल्यवानप्यवध्योऽसौ सततं धर्मवत्सलः ।।
एवमुक्त्वा ततस्तार्क्ष्यमाह्वयामास केशवः।।५।।
तमारुरोह सर्वात्मा काञ्चनं विनतासुतम् ।।
शंखचक्रगदापद्मलाच्छितो मधुसूदनः।। ।।६।।
अतसीकुसुमश्यामः काञ्चने खगमे स्थितः ।।
श्रियमूहे सतोयस्य तोयदस्य सविद्युतः ।।७।।
किरीटकौस्तुभधरं वरभूषणभूषितम् ।।
विहङ्ग वरमारूढमनुजग्मुर्दिवौकसः ।। ८ ।।
सुधावदातसत्पक्षैर्वितताम्बरधाविभिः ।।
हंसैस्तमन्वयाद्ब्रह्मा जटामण्डलदुर्दृशः ।। ९ ।।
चन्द्ररश्मिप्रतीकाशनिबिडाङ्गककुद्मिकः ।।
हरस्तृतीयनेत्रार्चिर्विदारितनभो ययौ ।। 1.215.१० ।।
महेन्द्रनेत्रसंकाशकलापाटोपरोधिना ।।
स्कन्दस्तमन्वयौ तस्मा न्मयूरेण षडाननः ।। ११ ।।
विनायकान्कर्तुमना राक्षसेन्द्रान्विनायकः ।।
वायुमण्डलमारूढः प्रययावनुमाधवम् ।। १२ ।।
वह्रिज्वालावली पुञ्जसमकेसरमालिना ।।
सिंहेनानुययौ देवी भद्रकाली जनार्दनम् ।। १३ ।।
वरस्त्रीकुचसंकाशकुम्भैरावणपृष्टगः ।।
किरीटी वज्रपाणिस्तमन्वयौ त्रिदशाधिपः ।। १४ ।।
वह्निस्तमन्वयौ देवं शुकयानेन पार्थिव ।।
सेन्द्रगोपगणाकीर्णशाद्वलस्थलशोभिना ।। १५ ।।
गिरिकूटसमाकारं शृङ्ग भूषितमस्तकम् ।।
वैवस्वतोऽपि महिषमारुह्यानुययौ हरिम् ।। १६ ।।
शङ्कुकर्णो महाग्रीवो वरेभस्कन्धसंस्थितः ।।
पश्चादनुययौ देवं विरूपाक्षो महाबलः ।। १७ ।।
महायानेन रम्येण मनोमारुतरंहसा ।।
वरुणोऽनुययौ पश्चात्स्निग्धवैदूर्यसन्निभः ।। १८ ।।
मनःशीघ्रगतिर्देवो वायु मण्डलमध्यगः ।।
वायुश्चानुययौ पश्चाद्वायुपूर्णशुभांशुकः ।। १९ ।।
धनदो नरयानेन सर्वरत्नोज्वलात्मना ।।
गोविन्दमनुवव्राज श्रिया परमया युतः ।। 1.215.२० ।।
सप्ताश्वमेकचक्रं च रथमारुह्य भानुमान् ।।
तथैवानुययौ देवं प्रभामण्डलदुर्दृशः ।। २१ ।।
चन्द्रश्चण्डप्रभावारो दशभिस्तुरगो त्तमैः ।।
मनोजवेन च तथा रथेनानुययौ हरिम् ।। २२ ।।
तुरङ्गवरमारुह्य भास्करप्रतिमाकृतिः ।।
तमन्वयौ तदा राजन्प्रचण्डो रविनन्दनः ।। ।। २३ ।।
चतुर्भिः कुञ्जरैर्युक्तं रथमास्थाय सत्वरा ।।
तमन्वयौ धरादेवी देवं त्रिदशपूजितम् ।। २४ ।।
सङ्कल्परथमारुह्य व्यवसाय पुरःसरः ।।
मनोरथेनानुययौ कामदेवोऽपि केशवम्।। २५ ।।
पुष्पेषोरपि यस्याज्ञां बिभर्ति सकलं जगत् ।।
अनालस्यं समारूढा तथा देवी सरस्वती ।। ।। २६ ।।
अन्यया पुण्डरीकाक्षं शरणागतवत्सलम ।।
भौमज्ञजीवशुक्राश्च राहुः केतूः शनैश्चरः ।। २७ ।।
वाजियुक्तै रथैः शीघ्ररमन्वयुः पुरुषो त्तमम्।।
देवाश्चैकोनपञ्चाशन्मरुतश्चारुमण्डलाः।।२८।।
अनुजग्मुः सुराः कृष्णं वायुमण्डलमध्यगाः ।।
अनुजग्मुस्तमादित्या रथैः काञ्चन सुप्रभैः ।। २९ ।।
वसवोऽङ्गिरसः साध्या विश्वेदेवास्तथाश्विनौ ।।
भृगवश्चाश्वसंयुक्तै रथैस्तं देवमन्वयुः ।। 1.215.३० ।।
रुद्राश्चानुययुर्देवं बलोदग्रैः ककुद्मिभिः ।।
तथैवान्ये बलोदग्रा देवा देवानुयायिनः ।। ३१ ।।
गर्दभैः शिशुमारैश्च महोष्ट्रैर्महिषोरगैः ।।
सिंहव्याघ्रतरक्ष्वृक्षगजवानर मर्कटैः ।। ३२ ।।
चमरैः सृमरैश्चैव गोधामार्जारशल्लकैः ।।
विविधैः पक्षियानैश्च तेऽनुजग्मुर्जनार्दनम् ।। ३३ ।।
सिद्धमार्गेण सिद्धाश्च प्रययुर्मुनयस्तथा ।।
स्तुवन्तः पुण्डरीकाक्षं देवसंघभयापहम् ।। ३४ ।।
गीतवाद्यैः सुमधुरैः सेवमाना जनार्दनम् ।।
प्रहृष्टाः प्रययुस्तत्र गन्धर्वाप्सरसां गणाः ।। ३५ ।।
तपः सत्यं क्षमा दानं व्रतानि विविधानि च ।।
यज्ञाङ्गानि च सर्वाणि कालस्यावयवास्तथा ।। ३६ ।।
संवत्सरास्तथा मासाः पक्षौ च करणैः सह ।।
युगायनमुहूर्ताश्च शास्त्राणि विविधानि च ।। ३७ ।।
मूर्तिमन्ति तथास्त्राणि शस्त्राणि च जगत्पतेः ।।
समुद्रपथतद्द्वीपशाखिनां विग्रहाणि च ।। ३८ ।।
वर्षाणां च शरीराणि पितॄणां च तथा गणाः ।।
नक्षत्राणि दिशश्चैव विदिशश्च महीपते ।। ३९ ।।
देवा वनस्पतिश्चैव याश्च लोकस्य मातरः ।।
देवदैत्यगणा ये च तथा पितृगणाश्च ये ।। 1.215.४० ।।
गन्धर्वयक्षनागानां गणा ये च नरेश्वर ।।
घोरा व्याधिगणाश्चैव कालपाशैः सुदारुणैः ।। ४१ ।।
मृत्युर्दण्डस्तथा क्रोधो जरा च मनुजेश्वर ।।
अन्वयुः पुण्डरीकाक्षं रक्षोगणवधैषिणम् ।। ४२ ।।।
जयश्रीरग्रतस्तस्य प्रयाति रघुनन्दन ।।
सरितश्च तथा यानैः सर्वलोकस्य मातरः ।।४३।।
मकरेण ययौ गङ्गा कालिन्दी कच्छपेन तु।।
सारसेनापि सरयूः शिशुमारेण गोमती ।। ४४ ।।
गोदावरी च खड्गेन मयूरेण सरस्वती ।।
ककुद्मिना शतद्रुश्च विपाशा तुरगेण च ।। ४५ ।।
चन्द्रभागा च सिंहेन दन्तिनेरावती तथा ।।
सिन्धुर्व्याघ्रेण मत्स्येन वितस्ता च तथा ययौ ।। ४६ ।।
देविका चैव हंसेन पुरुषेण च गण्डकी ।।
महिषेण पयोष्णी च कावेरी वृषभेण तु ।। ४७ ।।
हिरण्वती सुपर्णेन चक्रेणेक्षुमती नदी ।।
भुजगेन च पार्णाशा वराहेण च कौशिकी।। ४८ ।।
वेदस्मृतिर्मयूरेण सारङ्गेण च नर्मदा ।।
जीवजीवकमारूढा सीतापि प्रययौ नदी ।। ४९ ।।
ह्रादिनी च सरोरूढा सृमरेण च पावनी ।।
शशकेनापि लौहित्या नदी सिन्धुर्गजेन च ।। 1.215.५० ।।
उरभ्रेण तथा चक्षुः सीता चाजेन राघव ।।
गौतमी कुक्कुटेनापि चाषेण च दृषद्वती ।। ५१ ।।
स्वैः स्वैर्यानैस्तथैवान्याः प्रययुर्निम्नगा हरिम ।।
देवानुयात्राघोषेण वादित्राणां रवेण च ।।५२।।
स्तूयमानो द्विजाग्र्यैश्च प्रययौ कमलेक्षणः ।।
तद्बलो यमपर्यन्तं देवगन्धर्वसंकुलम् ।। ५३ ।।
आतपत्रैः पताकाभिः स्वचिह्नैश्च विराजितम् ।।
किङ्किणीशतसंघोषं प्रययावनुकेशवम् ।। ५४ ।।।
रश्म्युत्करैर्देवविभूषणानां प्रदीप्यमानं कलनकादिचित्रम्।।
बलं ययौ तत्त्रिदशोत्तमानां नारायणेनाऽप्रतिमेन गुप्तम्।।५५।।
इति श्रीविष्णुधर्मोत्तर पुराणे प्रथमखण्डे मार्कण्डेयवज्रसंवादे देवप्रयाणवर्णनो नाम पञ्चदशोत्तरशततमोऽध्यायः।।२१५।।