विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २०६-२१०

विकिस्रोतः तः
← अध्यायाः २०१-२०५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २०६-२१०
वेदव्यासः
अध्यायाः २११-२१५ →

1.206
।। मार्कण्डेय उवाच ।। ।।
निवेशमकरोद्राजन् गङ्गातीरे स राघवः ।।
भरतस्य तदा चक्रुर्गङ्गायां जलमण्डपान् ।। १ ।।
तथैव बलमुख्यानां प्राधान्येन नराधिप ।।
सैनिकश्च जनस्तस्य प्राप्य तां सुरनिम्नगाम् ।। २ ।।
साफल्यं जन्मनो मेने तत्याज च तथा क्लमम् ।।
सस्नौ पपौ पयः कामं हर्षेण महता युतः ।। ३ ।।।
स्नापयाञ्चक्रिरे तत्र तुरगांस्तुरगप्रियाः ।।
कुञ्जरान्स्नापयमासुर्महामात्रास्तथैव च ।। ४ ।।
मज्जद्भिर्बहुसाहस्रैः कुञ्जरैर्जाह्नवी नदी ।।
किरातविषयैः सैव विरराज यथोपलैः ।। ५ ।।
समुत्थितमहामात्रान्दृष्ट्वाभ्युक्षणछद्मना ।।
चिक्रीडुर्दृतिभिः केचिद्विविशुर्बाहुभिस्तथा ।। ६ ।।
गङ्गामासाद्य संहृष्टा भरतस्य तु सैनिकाः ।।
भरतोऽपि तथा स्नातः कृतदैवतपूजनः ।।७।।
श्राद्धं चक्रे महातेजा ददौ दानं तथैव च ।।
दत्त्वा तत्र महादानानाज्ञापयति यादव ।।८।।
शिल्पिनो मम कुर्वन्तु कूटागारान्मनोरमान् ।।
रात्रौ दीपनिवेशार्थं शतशोऽथ सहस्रशः ।।९।।
आनीयन्तां तथा नावः सैन्यस्य तरणाय मे ।।
क्रियन्तां चर्मनावश्च प्लवाश्च शतशस्तथा ।।1.206.१०।।
उत्तरं पारमासाद्य निवेशः क्रियतां तथा ।।
परं पारं जना यान्तु उदयास्तमयान्तरे ।।११।।
एवमाज्ञाय भरतो विजहार यथासुखम् ।।
प्रसारितकरो राजन्सर्वत्रैव दिवाकरः ।। १२ ।।
ययावदर्शनं तत्र भरतस्यैव लज्जया ।।
पद्मपत्रदलाग्राभा प्रतीची चाभवत्क्षणात् ।।१३।।
आदित्येस्तमनुप्राप्ते सन्ध्यारागानुरञ्जिता ।।
ततस्तु तमसा व्याप्ते न प्राज्ञायत किञ्चन ।। १४ ।।
भरताज्ञाकृतान्पूर्वं कूटागारान्सदीपकान् ।।
ध्वजमालापरिक्षिप्तांश्चिक्षिपुर्जाह्नवीजले ।।१५।।
सैनिकैश्च तथा मुख्यैर्भरतस्य पृथक्पृथक् ।
गङ्गाम्भसि परिक्षिप्ता दीपवृक्षाः सहस्रशः ।।१६।।
सा दीपमालिनी गङ्गा तीरद्योतितविग्रही ।।
जहास फेनहासेन जिह्वेव गगनप्रिया ।। १७ ।।
जलान्तरागतै र्दीपैर्दीपवृक्षैर्मनोहरैः ।।
तथा कल्लोलसंक्रान्तैर्गङ्गा दीप्तेव लक्ष्यते ।। १८ ।।
एवं हि क्रीडतां तत्र गङ्गातीरे तथा नृणाम् ।।
रात्रावेवाञ्जसा जग्मुर्नावो बहुविधा नृप ।। १९ ।।
शशाङ्कराजहंसेन दृष्ट्वा खसरसीं जनाः ।।
आक्रम्यमाणा सुषुपुर्निशीथे निद्रयान्विताः ।। 1.206.२० ।।
शशाङ्कोदयसंसुप्तबलं पद्मवनोपमम् ।।
निबोधयामास तथा दिवाकरकरोत्करम् ।। २१ ।।
चकृषुस्ते तदा नावः कर्णधारा यथा स्वकाः ।।
बलं च सकलं पारं तारया ञ्चक्रिरे तदा ।। २२ ।।
नावस्तां किङ्किणीजालैः पताकाभिश्च राजिता ।।
निन्युर्बलं परं पारं कर्णधारस्फिगाहताः ।। २३ ।।
भाण्डैः पूर्णास्तथा काश्चित्काश्चित्पूर्णा जनेन च ।।
तुरङ्गमैस्तथा पूर्णा गोखरोष्ट्रैस्तथा पराः ।। २४ ।।
काश्चित्सकुञ्जरा नावो ययुः पारं तदा परम् ।।
तथा पद्मदलाक्षीणां स्त्रीणां नावश्च पूरिताः ।। २५ ।।
विमानाभाः प्रदृश्यन्ते गङ्गाम्भसि नरेश्वर ।।
कर्णधारवरोपेता दण्डिभिः पुरुषैर्वृताः ।। २६ ।।
लोकसन्तारणार्थाय भूयो जग्मुस्तथा पराः ।।
चर्मनौभिस्तथा केचित्प्लवैः केचित्सुयन्त्रितैः ।। २७ ।।
जग्मुरादाय भाण्डानि दृतिभिश्च तथा क्वचित् ।।
नरैर्दृतिसमारूढैः कृष्यमाणास्तुरङ्गमाः ।। २८ ।।
जग्मुः केचित्परं पारं बाहुभिर्मनुजेश्वर ।।
जग्मुरन्ये परं पारं संगृहीताश्च रश्मिभिः ।। ।। २९ ।।
नौस्थैरेव परैः शीघ्रं तुरगा नृपबाहुभिः ।।
महिषीणां च सङ्घानि गवां च यदुनन्दन ।। 1.206.३० ।।
जग्मुर्गोपालकैः सार्धं परं पारं च बाहुभिः ।।
उष्ट्रगर्दभसंघानि तार्यमाणानि बाहुभिः ।। ३१ ।।
भूयोभूयो न्यवर्तन्त तत्र रावो महानभूत् ।।
तीर्णस्य तार्यमाणस्य नरस्य यदुसत्तम ।। ३२ ।।
आसीत्कोलाहलो घोरस्तीरयोरुभयोरपि ।।
भरतोऽपि महातेजाः स्नातो हुतहुताशनः ।। ३३ ।।
मत्स्यरूपधरं विष्णुं पटे सम्पूज्य यादव ।।
स्वस्तिवाच्यांस्ततो विप्रान्गोभिर्वस्त्रैर्धनेन च ।। ३४ ।।
सम्पूज्य जाह्नवीं देवीं गन्धमाल्यानुलेपनैः ।।
सम्पूजयामास तदा भूय एव द्विजोत्तमान्।। ३५ ।।
गोभिरश्वैस्तथा निष्कैर्वस्त्रैर्गन्धैस्तथैव च ।।
आरुरोह तदा नावं पाण्डुकम्बलसंवृताम् ।।३६।।
किङ्किणीजालविततां पताकाध्वजमालिनीम् ।।
भरते तु समारूढे कर्णधारस्फिगाहता ।। ३७ ।।
जगाम सा परं पारं नौर्विमानोपमा नृप ।।
सम्प्राप्य स परं पारं सम्पूर्णकटकस्तदा ।।
उवास राजंस्तत्रैव दिवि देवेश्वरो यथा ।। ३८ ।।
देवीं महादेवजटातटस्थां शशाङ्कसंसर्गविवृद्ध शीताम् ।।
उत्तीर्य राजा भरतः स चैनां निन्ये क्षयं शक्रसमप्रभावः ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरण वर्णनो नाम षडुत्तरद्विशततमोऽध्यायः ।। २०६ ।।
1.207
।। मार्कण्डेय उवाच ।।
भरते तु समुत्तीर्णे गङ्गां गगनमेखलाम् ।।
विवेश कटकं तस्य तमन्यः कौरवो नृप ।। १ ।।
बलेन चतुरङ्गेण समुद्राभेन संयुतः ।।
ईश्वरश्च किरातानां दमनो नाम पार्थिवः ।। २ ।।
गन्धिनां बहुसाहस्रैर्बलैर्युक्तो व्यदृश्यत ।।
यथार्हं पूजयित्वा तं भरतो धर्मवत्सलः ।। ३।।
आससादार्कतनयां यमुनां पापनाशिनीम् ।।
यमस्य भगिनीं पुण्यां नीलमालां मनोहराम् ।। ४ ।।
यत्र क्वचन नद्यां हि कृत्वा श्राद्धन्नराधिप ।।
अक्षयं फलमाप्नोति नाकपृष्ठे च मोदते।।५।।
यत्र कृष्णचतुर्दश्यां स्नातः सम्पूज्य भानुजाम् ।।
मुच्यते पातकैः सर्वैर्नाकलोकं स गच्छति ।। ६ ।।
अनर्काभ्युदिते काले माघकृष्णचतुर्दशीम् ।।
यस्यां स्नातस्तु सम्पूज्य धर्मराजं तिलांभसा ।। ७ ।।
न दुर्गतिमवाप्नोति कुलं चैव समुद्धरेत् ।।
यत्र क्वचन नद्यां हि माघकृष्णचतुर्दशीम् ।। ८ ।।
नादेयाम्भसि सर्वस्मिन्स्नातः पापैर्विमुच्यते ।।
यमुना तु विशेषेण यमस्य भगिनीति सा ।। ९ ।।
स्नातश्च यामुने तोये सन्तर्प्य पितृदेवताः ।।
न दुर्गतिमवाप्नोति नाकलोकं च गच्छति ।। 1.207.१० ।।
तां समासाद्य यमुनां यथा गङ्गाजलं तथा ।।
विहृत्य भरतस्तद्वदुत्ततार महानदीम् ।। ११ ।।
समुत्तीर्णस्य यमुनां भरतस्य महात्मनः ।।
विवेश कटकं राजा मत्स्यानां सुरथस्तदा ।। १२ ।।
गोरसेनश्च साल्वानां शिबीनां च प्रभद्रकः ।।
स तैर्नृपतिभिः सार्धं कुरुक्षेत्रमुपाययौ ।। १३ ।।
यदर्थमेषा चरति लोके गाथा पुरातनी ।।
पांसवोऽपि कुरुक्षेत्रे वायुना सममीरिताः ।। १४ ।।
अपि दुष्कृतकर्माणो नयन्ति परमां गतिम् ।।
समन्तपञ्चके पुण्ये ये मृता मनुजेश्वर ।। १५ ।।
ते सर्वे नाकमासाद्य राजन्ते दिवि देववत् ।।
सन्नीतिर्यत्र राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।। १६ ।।
तीर्थसन्नयनादेव सन्नीतिरिति विश्रुतम् ।।
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ।। १७ ।।
मासान्ते सततं तत्र नित्यमायान्ति यादव ।।
तत्र श्राद्धं तु यः कुर्याद्राहुग्रस्ते दिवाकरे ।। १८ ।।
अश्वमेधशतस्याग्रं फलं विन्दति मानवः ।।
भरतस्तु समासाद्य तत्रोवास सुखी तदा ।।१९।।
पप्रच्छ ब्राह्मणांस्तत्र तीर्थसन्नीतिकारणम् ।।
पृष्टस्तु भरतेनाथ ब्राह्मणस्तु घटोदरः ।। 1.207.२० ।।
उवाच भरतं तत्र कथां पापप्रणाशिनीम् ।।
घटोदर उवाच ।।
शक्रे वृत्रवधाक्रान्ते त्रैलोक्ये दैत्यसाद्गते ।। २१ ।।
सब्रह्मकाः सुराः सर्वे विष्णुं शरणमाययुः ।।
तानुवाच हरिर्देवश्च्यवनस्यात्मसम्भवः ।। २२ ।।
भार्गवो ब्राह्मणः श्रीमान्दधीच इति विश्रुतः ।।
अस्थिभिः क्रियतां तस्य देवेन्द्रस्य वरायुधम् ।। २३ ।।
प्रविश्य देवांस्तत्राहं हन्ता वृत्रमसंशयम् ।।
एवमुक्ताः सुराः सर्वे दधीचस्याश्रमं ययुः ।। २४ ।।
ददृशुश्च महाभागं दधीचं तपसां निधिम् ।।
पूजयित्वा महाभागं तमूचुः संहताः सुरा. ।। २५ ।।
त्वदस्थिभिः करिष्यामो वज्रं दैत्यनिबर्हणम् ।।
अन्यानि च तथास्त्राणि सुरकार्यार्थसिद्धये ।। २६ ।।
तत्र त्वं देवकार्यार्थं संन्यासं द्विज रोचय ।।
एवमुक्तो दधीचस्तु प्रत्युवाच स तान्सुरान् ।। २७ ।।
तीर्थयात्रा प्रतिज्ञाता सर्वतीर्थेषु वै मया ।।
तां तु कृत्वा करिष्यामि देहन्यासं सुरोत्तमाः ।। २८ ।।
देवा ऊचुः ।।
शक्तस्त्वं सर्वतीर्थानामाह्वाने द्विजपुङ्गव ।।
इहाद्यैव समायान्तु सर्वतीर्थानि तेऽनघ ।। २९ ।।
तेजसा च त्वदीयेन तथास्माकं च भार्गव ।।
घटोदर उवाच ।।
एवमुक्तः सुरैः सर्वैस्तीर्थानि सरितस्तथा ।। 1.207.३० ।।
सरांसि च समुद्राश्च तत्राजग्मुर्नराधिप ।।
काम्येन महता राजन्योगेन परमेण च ।। ३१ ।।
ज्ञात्वा च तेषां सान्निध्यं तत्र स्नातो द्विजोत्तमः ।।
तर्पणं च तथा कृत्वा सुराणां पितृभिः सह ।। ३२ ।।
उवाच देवांस्तत्रस्थानिदं वचनमर्थवत् ।।
दधीच उवाच ।।
अद्य प्रभृति मासान्ते भवद्भिः सततं सुराः ।। ३३ ।।
सान्निध्यमिह कर्तव्यं तीर्थैश्चैव यथागतैः ।।
घटोदर उवाच ।।
एवमुक्तैस्तथेत्युक्तो देवैस्तीर्थैश्च स त्वथ ।। ३४ ।।
त्यक्त्वा देहं दिवं यातो दधीचः स्वेन तेजसा ।।
विश्वकर्मा च तस्यास्थ्नां भागैर्वज्रमथा करोत् ।। ३५ ।।
आयुधानि च देवानां तथैव च पृथक्पृथक् ।।
तेन वज्रेण महता वृत्रं हत्वा महासुरम् ।। ३६ ।।
जघान दैत्यमुख्यानां नवतिर्नवतिस्तथा ।।
ततः प्रभृति मासान्ते नित्यमेव रघूद्वह ।। ३७ ।।
सान्निध्यमिह तीर्थानां देवतानां च कल्पितम् ।।
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा महातेजा दत्त्वा दानानि राघवः ।। ३८ ।।
ययौ सैन्येन महता भरतोऽमरकण्टकम् ।।
तत्र विष्णुपदं प्राप्य पूजयित्वा च राघवः ।।३९।।
आससाद नदीं गौरीं पुण्यां पापभयापहाम् ।।
विश्वामित्राज्ञया रक्षः प्रविवेश पुरा नृपम् ।। 1.207.४० ।।
कशाहतेन मार्गस्थं शप्तं भूपाल शक्तिना ।।
सौदासं स प्रविष्टस्तु भक्षयामास शक्तिनम् ।। ४१ ।।
ततः पुत्रशतं राजन्वसिष्ठस्यैव सत्वरः ।।
हृते पुत्रशते दुखाद्वसिष्ठो भगवानृषिः ।। ४२ ।।
विवेश निम्नगां गौरीं प्राणत्यागचिकीर्षया ।।
विप्रस्य भूप यातस्य विद्रुता सा तदाभवत् ।। ४३ ।।
ततः प्रभृति लोकेऽस्मिञ्छतद्रुरिति शब्दिता ।। शतद्रु
सर्वपापप्रशमनी सर्वकल्याणकारिणी।।४४।।
स्नातानां च तथा राजन्दशधेनुफलप्रदा ।।
तां समासाद्य तत्रापि दत्त्वा दानं स राघवः।।४५।।
उत्तीर्य तां ययौ तत्र सा चान्त्या यत्र निम्नगा ।।
यस्यां स्नात्वा विमुच्यन्ते सर्वपापभयैर्नराः ।।४६।।
यस्यां स्नानादवाप्नोति दशगोदानजं फलम् ।।
आषाढे च तथा कृत्वा गोसहस्रफलं लभेत् ।। ४७ ।।
गौरीतोयाद्विनिर्मुक्तो वसिष्ठो भगवानृषिः ।।
पाशबन्धभरैर्यस्यां पपात सहसा नृप ।।४८।।
विपाशश्च तथा देव्या कृत्वा तीरे विसर्जितः ।। विपाशा
शक्तिपुत्रं ततो दृष्ट्वा वसिष्ठोऽपि पराशरम् ।। ४९ ।।
अस्ति सन्तानमित्युक्त्वा मरणाद्विनिवर्तत ।।
सा चान्त्या च तथा लोके विपाशेत्यभिधीयते ।। 1.207.५० ।।
विपाशां च समुत्तीर्णे भरते धर्मवत्सले ।।
विवेश कटकं तस्य कुणिदेशो महोदयः ।। ५१ ।।
त्रैगर्तो वसुधानश्च कुलूताधिपतिर्जयः ।।
दाशेरकस्तथा राजा गोवाशन इति श्रुतः ।। ५२ ।।
इरावतीं शीघ्रगमां भरतोऽपि तदा ययौ ।।
दशधेनुफलं यत्र स्नात एव समश्नुते ।। ५३ ।।
षष्टितीर्थसहस्राणि वहत्येका इरावती ।।
अष्टम्यां तु विशेषेण यत्र युज्येत रेवती ।। ५४ ।।
तत्र दत्त्वा बहुविधं दानं रघुकुलोद्वहः ।।
उत्तीर्य तां ययौ शीघ्रं देविकां पापनाशिनीम् ।। ५९ ।।
दृष्टमात्रैव या देवी सर्वकल्मषनाशिनी ।।
शरीरबहुला सा तु हरस्य दयिता उमा ।। ५६ ।।
तत्रापि दत्त्वा दानानि पूजयामास शङ्करम् ।।
भरते चाथ तत्रस्थे विविशुः पञ्च पार्थिवाः ।। ५७ ।।
पार्वतीया महाराज पदातिगणसङ्कुलाः ।।
कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः ।। ५८ ।।
मद्रराजोंऽशुमांश्चैव तथैव च महाबलः ।।
पूजितो मद्रराजेन शाकलेन नरोत्तमः ।। ५९ ।।
त्रिरात्रमुषितः श्रीमांश्चन्द्रभागां नदीं ययौ ।।
चन्द्रांशुशीतलजलां सर्वपापप्रणाशिनीम् ।। 1.207.६० ।।
बहुतीर्थसमायुक्तां स्नानात्सर्वप्रदां नृणाम् ।। ।
विशेषेण महाराज माघपुष्यत्रयोदशीम् ।। ६१ ।।
भरते तां समुत्तीर्णे विवेश कटकं ततः ।।
एतच्छ्रुतञ्जयः श्रीमानभिचारः कृतञ्जयः ।। ६२ ।। ।
काश्मीरकश्च धर्मात्मा सुबाहुरिति विश्रुतः ।।
आससाद स तैः सार्द्धं वितस्तां तु महानदीम् ।।६३।।
स्वर्गलोकप्रदां स्नाने सर्वकल्मषनाशिनीम् ।।
प्रोष्ठपादस्य मासस्य शुक्लपक्षत्रयोदशीम् ।। ६४ ।।
विशेषेण महाराज पुण्यां परमपावनीम् ।।
भरतस्तां समुत्तीर्य सुदामां चैव निम्नगाम् ।। ६५ ।।
आससाद महातेजाः कैकेयान्यदुनन्दन ।।
बलेन चतुरङ्गेण युधाजित्कैकयाधिपः ।। ६६ ।।
निर्ययौ भरतं प्राप्तं श्रुत्वा भरतमातुलः ।।
नागराश्च तथा मुख्या राजगृहनिवासिनः ।। ६७ ।।
ब्राह्मणाः क्षत्त्रिया वैश्या ये च वर्णवरा जनाः ।।
यानैरुच्चावचैः सर्वै नगरात्तु विनिर्गताः ।। ६८ ।।
वादित्रान्पुरतः कृत्वा गणिकाश्च विनिर्गताः ।।
प्रतिग्रहनिमित्तं तु राघवस्य महात्मनः ।। ६९ ।।
भरतोऽपि महातेजाः स समेत्य युधाजिता ।।
अभ्यधावत तत्प्रीत्या मातुलं कैकयाधिपम् ।।1.207.७०।।
कण्ठे गृहीत्वा भरतं मूर्ध्न्युपाघ्राय चासकृत् ।।
भरतोऽपि समादाय राजगेहमुपागमत्।।७१।। ।।
समे मनोरमे देशे प्रभूतयवसेन्धने ।।
शिबिरं भरतश्चक्रे नगरस्याविदूरतः ।। ७२ ।।
पृथक्पृथक्तदा चक्रुः स्कन्दावारनिवेशनम् ।।
मनःप्रियेषु देशेषु नानादेश्या नराधिपाः ।। ७३ ।।
कृत्वा निवेशान्मनुजेश्वराणामादिश्य भोगान्सकलान्स तेषाम् ।।
विवेश नागेन स मातुलस्य पुरं प्रहृष्टो रघुवंशचन्द्रः ।। ७४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राजगृहगमनो नाम सप्तोत्तरद्विशततमोऽध्यायः ।। २०७ ।।
1.208
मार्कण्डेय उवाच ।।
ततः स्वल्पपरीवारो भरतो धर्मवत्सलः ।।
अभ्यधाय ततः प्रीत्या मातुलः केकयाधिपः ।। १ ।।
कण्ठे गृहीत्वा भरतं मूर्ध्न्युपाघ्राय चासकृत् ।।
भरतोऽपि समादाय राजन् गृहमुपागतम्।।२ ।।
प्रविवेश पुरं हृष्टो मातुलस्य युधाजितः ।।
पताकाध्वजसंबाधं सिक्तं चन्दनवारिणा ।।३ ।।
धूपेनाऽगुरुसाराणां समन्तादाकुलीकृतम् ।।
कृतोपहारं सर्वत्र कुसुमैः पञ्चवर्णकैः ।। ४ ।।
सर्वपण्यविसंयुक्तं समालंकृतबालकम् ।।
खमुल्लिखद्भिः प्रासादैः श्वेतमेघगणैर्युतम् ।।५ ।।
विन्यस्तबलिपूजञ्च देवतायतनेषु च ।।
महावादित्रघोषेण समन्तात्कृतनिःस्वनम् ।।६।।
पौरैर्दिदृश्रुभिः सवैर्राकीर्णापणवीथिकम् ।।
राजमार्गे महाराज पिण्डीकृतमहाजनम् ।।७।।)
राजमार्गादपाकृष्टशून्यसर्वनिवेशनम् ।।
योषिद्वृन्दसमाक्रान्त राजमार्गमहागृहम् ।। ८ ।।
प्रविवेश पुरं श्रीमान्भरतो नागधूर्गतः ।।
तस्य कामाभवपुषः प्रवेशे भरतस्य तुं ।। ९ ।।
गृहकार्याणि संत्यज्य ययुर्नार्यो गवाक्षकान् ।।
काश्चिदर्धानुलिप्तांग्यः काश्चिदेकाञ्जितेक्षणाः ।। 1.208.१० ।।
केशैः संयमितैकार्धैः काश्चिदर्धनिवेशितैः ।।
एकस्मिंश्चरणे काश्चिद्गृहीत्वा काष्ठपादुकाः ।।११।।
त्वरिताशा ययुर्नार्यो द्वितीये चर्मपादुकाः ।।
तथा पराः समाक्षिप्य पूर्वाक्रान्तगवाक्षकाः ।।१२।।
व्रजन्तीषु तथान्यासु काश्चिन्नार्यो गवाक्षकात् ।।
वेगवत्यो ययुः शीघ्रं संत्यक्त्वा चर्मपादुकाः ।। १३ ।।
नार्यः स्ववदनैश्चक्रुः सुवक्त्राँस्तान्गवाक्षकान् ।।
अर्धप्रविष्टसत्कम्बुपाणिवारिजकुड्मलाः ।। १४ ।।
द्वितीयपाणिसंदर्शसमाक्रान्तैर्ययुः करैः ।।
नीवीबन्धनविश्लेषसमाकुलितचेतनाः ।। १५ ।।
ययुरेवापरास्तत्र पाणिसंश्लिष्टनीवयः ।।
कुसुमप्रकरं काश्चिदूहमानाः शिरोगतैः ।। १६ ।।
ययुरेवांशुकैदीर्घैस्त्वरमाणा गवाक्षकान् ।।
सितासितेन रामाणां रमणीयेन राघवः ।। १७ ।।
ययौ दृष्टिनिपातेन रज्यमान इवांशुमान् ।।
स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः ।।१८ ।।
हृदयान्निगृहीत्वेव गच्छमानः स राघवः ।।
स तु दृग्विषये यासां यासां तस्मात्परागतः।।१९।।
न ता बुबुधिरे काञ्चित्क्रियां चित्रगता इव ।।
भरते दूरयातेऽपि निश्चेष्टाः काश्चिदेव ताः ।। 1.208.२० ।।
आकृष्टास्ता ययुः क्षोणीं प्रेर्यमाणैः सखीजनैः ।।
प्रद्युम्नांशसमुत्पन्नः प्रद्युम्नसमदर्शनः ।। २१ ।।
आदाय तासां चेतांसि ययौ गजगृहं द्रुतम् ।।
तस्मिन्राजगृहे राजन्राघवो राजमन्दिरम् ।। २२ ।।
आससाद महातेजाः कैलासमिव चापरम् ।।
प्रविश्य स गृहं मुख्यं प्रेषयामास भूभुजम् ।। २३ ।।
पानभोजनवासांसि सैनिकानां च यादव ।।
उवास स सुखं तत्र पूजितश्च युधाजिता ।।
जगाम चास्तं सविता जपापुष्पोत्करप्रभः ।। २४ ।।
जाम्बूनदे रत्नसहस्रचित्रे स राजपुत्रः शयने विचित्रे ।।
सुष्वाप रात्रौ भवने विचित्रे निदाघरात्रिं पवने विचित्रे ।। २५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतस्य राजगृहप्रवेशवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः ।। २०८ ।।
1.209
मार्कण्डेय उवाच ।।
तस्मिन्रात्र्यवसाने तु भूमिपानां पृथक्पृथक् ।।
कटकेष्वभ्यहन्यन्त संज्ञातूर्याणि यादव ।। १ ।।।
बहूनां बलमुख्यानां नानालिङ्गानि भागशः ।।
तेषां कोलाहलः शब्दो बभूव गगनङ्गमः ।। २ ।।
विविशुर्भरतस्यापि ततः प्राबोधिका जनाः।।
वेणिका गायना मुख्या वंशवाद्यविदश्च ये ।। ३ ।।
मार्दङ्गिका पाणविकाः शङ्खवादनकाश्च ये ।।
रक्तकण्ठाः सुमधुरा ये च मङ्गलपाठकाः ।। ४ ।।
सूतमागधमुख्याश्च बन्दिनश्च नराधिप ।।
तुष्टुवुर्भरतं वीरं सुखसुप्तं महामतिम् ।। ५ ।।
सुप्रभातं समुत्तिष्ठ प्रभाता रजनी शुभा ।।
दिक्प्राची रघुशार्दूल वर्ततेऽरुणरञ्जिता ।। ६ ।।
नूनमस्यां हि वेलायां मातलिस्त्रिदशाधिपम् ।।
विबोधयति राजेन्द्र सुखाय जगतां विभुम् ।। ७ ।।
त्वयि सुप्ते जगत्सुप्तं विबुद्धे च सुखान्वितम् ।।
तस्मादुत्तिष्ठ लोकानां शिवाय रघुनन्दन ।। ८ ।।
त्वं हि सर्वगुणारामो यथा रामो महीपतिः ।।
गुणैः शशाङ्करश्म्याभैस्त्वया वै रञ्जितं जगत् ।।९।।
अत्याश्चर्यं महाबाहो यशसा सुसितेन ते ।।
मुखान्यरातिवृन्दानां क्रियन्ते मलिनानि यत् ।।1.209.१०।।
कृपाणधारापानीयं दृष्ट्वाऽरातिगणस्तव ।।
तृष्णयैव भवत्याशु रञ्जितानिलयो भयात् ।। ११ ।।
अक्षोभ्यश्चातिगम्भीरो भवान्रत्नाकरस्तथा ।।।।।
अग्राह्यत्वात्समुद्रेण न समः प्रतिभाति नः ।।१२।।
सौम्यः कलावाँल्लक्ष्मीवान्नयनानन्दकारकः ।।
(दोषाकरेण क्षयिणा नौपम्यं ते नराधिप) ।।१३।।
बाहुभोज्यातिविस्तीर्णा सर्वाश्रयवती दृढा ।।
नौपम्यं याति ते सम्यक् क्षोणी विन्ध्येन कम्पिना ।। १४ ।।
यत्तेऽस्ति तदवश्यं त्वं ददासि रिपुसूदन।।
अविद्यमाना भीर्दत्ता भवतारिगणे कुतः ।।१५ ।।
निमेषमपि यो दृष्टस्त्वयापाङ्गनिरीक्षणैः ।।
समग्रदृष्ट्या य दृष्टो नित्यमेवेक्षणैः श्रियः । ।। १६ ।।
क्षुरपर्यन्तधारेण चक्रेणारिगणस्य ते ।।
शिरांस्यपहरत्याजौ देवदेवो जनार्दनः ।। १७ ।।
कपालमाली खट्वाङ्गी शशाङ्ककृतभूषणः ।।।
वामार्धदयिताकारः शङ्करः शं करोतु ते ।।१८।।
पद्मासनः पद्मजन्मा सर्वलोकपितामहः ।।
ऋद्धिं मेधां धृतिं लक्ष्मीं बलं च विदधातु ते ।। १९।।
नभश्चरोऽम्बुजो देवो दिग्वधूकरपूरकः ।।
ब्रह्माण्डमण्डपे दीपः सुप्रभातं करोतु ते ।। 1.209.२० ।।
केशयक्षेशदेवेशप्रेतेश्वरनिशाचराः ।।
सर्वदेवगणैः सार्धं सुप्रभातं दिशन्तु ते ।। २१ ।।
ऋषयः सरितः शैलाः सागराश्च दिशो दश ।।
कालस्यावयवाश्चैव सुप्रभातं दिशन्तु ते ।। २२ ।।
इति शृण्वन्गिरं पुण्यामेषां मङ्गलवादिनाम् ।।
महापुण्याहघोषेण तत्याज शयनं तदा ।।२३।।
आयव्ययं स शुश्राव लेखकैर्गणकैः सह ।।
वेगोत्सर्गं ततः कृत्वा ययौ स्नानगृहं शुभम् ।। २४ ।।
स्नानारम्भं ततश्चक्रे दन्तधावनपूर्वकम् ।।
उत्सादितः कषायेण बलवद्भिर्नरैस्तदा ।। २५ ।।
सुखं भद्रासनासीनः सूक्ष्माम्बरधरः प्रभुः ।।
सस्नौ स विविधैस्तोयैर्नदीसागरजैः शुभैः ।। २६ ।।
कुम्भैः सुवर्णमाहेयैस्ताम्रै रौप्यमयैस्तथा ।।
शताधिकैर्महाराज सर्वौषधि समन्वितैः ।। २७ ।।
क्षीरप्रवाहसंयुक्तैर्माल्यकण्ठैः सुपूजितैः ।।
आवर्जितैर्महीपाल सुस्नातालङ्कृतैर्नरैः ।। २८ ।।
चन्दनस्रावसम्पूर्णैर्द्विजमन्त्रानुमन्त्रितैः ।।
बभार वसनं चारु स्नानतोयौघसङ्कुलम् ।। २९ ।।
शशाङ्कमण्डलं पूर्णं तन्वभ्रैरिव संवृतम् ।।
वाद्यपुण्याहघोषेण तथा गीतस्वनेन च ।। 1.209.३० ।।
स्नात्वोपस्पृश्य विधिवत्पूर्वां सन्ध्यां समाहितः ।।
ददर्श वदनं चारु दर्पणे चाथ सर्पिषि ।। ३१ ।।
स सुवर्णे महाराज दैवज्ञेनाभिमन्त्रिते ।।
दिनेशं तिथिनक्षत्रं ततः शुश्राव राघवः ।। ३२ ।।
सांवत्सरमुखोद्गीर्णं कलिदुःस्वप्ननाशनम् ।।
चकाराभ्यर्चनं चाथ देवदेवस्य चक्रिणः ।। ३३ ।।
गन्धमाल्यनमस्कारधूपूदीपान्नसम्पदा ।।
स्तवैर्बलिप्रदानैश्च गीतवाद्यस्वनेन च ।। ३४ ।।
संपूज्य देवदेवेशं विवेशाग्निगृहं शुभम् ।।
तत्राग्निं समुपस्थाय हुतं पूर्वं पुरोधसा ।। ३५ ।।
दुःस्वप्ननाशनं कर्म सिद्धिवृद्धिजयप्रदम् ।।
प्रागेव तस्य कृतवान्विद्वान्नृपपुरोहितः ।। ३६ ।।
(ततस्त्वौपसमे वह्नौ भरतः प्रीतमानसः ।।)
श्रीसूक्तं पौरुषं सूक्तं जुहाव प्रयतस्तदा ।। ३७ ।।
आज्येन मन्त्रपूतेन विधिना सुसमाहितः ।।
दत्त्वा पूर्णाहुतिं चाग्नौ कृतजप्यो महामतिः ।। ३८ ।।
उदकेनार्चनं चक्रे देवानां पितृभिः सह ।।
ततः स निर्ययौ तस्माद्भरतो वह्निवेश्मनः ।। ३९ ।।
निष्क्रम्य पूजयामास ब्राह्मणान्वसुना तदा ।।
गोभिरश्वैः सुवर्णेन दधिपुष्पफलान्वितैः।।1.209.४०।।
मोदकैश्च तथा रत्नैर्वस्त्रैश्च रघुनन्दनः ।।
पूजितानां द्विजेन्द्राणां भरतेन महात्मना ।। ४१ ।।
पुण्याहघोषस्त्रिदिवं जगाम मधुरस्वरः ।।
स पूजयित्वा विप्रेन्द्रान्प्रविश्य च तथा गृहम् ।। ४२ ।।
नित्यकर्म च कृत्वेदं चन्दनेन सुगन्धिना ।।
सूक्ष्मशुक्लपरीधानो वरधूपेन धूपितः।। ४३ ।।
आभूष्य सर्वगात्राणां भूषणानि रघूद्वहः ।।
शुक्लं सुगन्धि माल्यं च स्रजश्च विविधास्तथा ।। ४४ ।।
मङ्गलालम्भनं कृत्वा निश्चक्राम सभागृहम् ।।
क्लृप्तं शय्यासनं तत्र वररत्नविभूषितम् ।। ४५ ।।
महार्घतोरणोपेतं सोत्तरच्छदमृद्धिमत् ।।
वितानञ्च तथा दत्तं तस्योपरि महर्द्धिमत् ।। ४६ ।।
आसीनमासने तस्न्निभरतं सत्यसंगरम् ।।
प्रांशवो बद्धनिस्त्रिंशाः कवचोत्तमभूषिताः ।। ४७ ।।
रक्ताम्बरधरा वीरा ररक्षुः पृष्ठसंस्थिताः ।।
तथैवोभयपार्श्वस्थाः पूर्णचन्द्रनिभाननाः ।। ४८ ।।
वारमुख्याः सुवेशास्तमुपासांचक्रिरे तदा ।।
बालव्यजनधारिण्यस्तालवृन्तकराः पराः ।। ४९।।
ताम्बूलभाण्डधारिण्यो नीलनीरजलोचनाः ।।
कुण्डली बद्धनिस्त्रिंशो दण्डपाणिः सुवेशवान् ।। 1.209.५० ।।
उवाच भरतं क्षत्ता भूमिविन्यस्तजानुकः।।
दिदृक्षवस्ते संप्राप्ता ब्राह्मणाः संशयच्छिदः ।। ५१ ।।
श्रेणीमहत्तरा ये च बलमुख्यास्तथैव च ।।
प्रवेशयैनानित्युक्तो द्वास्थान्क्षत्ता ततोऽब्रवीत ।। ५२ ।।
ब्राह्मणान्बलमुख्यांश्च प्रवेशयत सत्वरम् ।।
आशीर्भिरभिनन्द्यैनं संप्रविष्टा द्विजोत्तमाः ।। ५३ ।।
बृसीषु दन्तपीठेषु विविशुश्च यथासुखम् ।।
ततस्तु बलमुख्यानां नमतां भरतं तदा ।। ५४ ।।
क्षत्ता जग्राह नामानि कण्ठारक्तस्वरान्वितः ।।
ततस्तेषूपविष्टेषु द्वारेषु विवृतेषु च ।। ५५ ।।
प्रविवेश जनः सर्वो न न्यवार्येत कश्चन ।।
एतस्मिन्नेव काले तु शुश्रुवे तुमुलो ध्वनिः ।। ५६ ।।।
भरतं द्रष्टुकामानां भूमिपानां महात्मनाम् ।।
ह्रादेन गजघण्टानां बृंहितेन तथैव च ।। ५७ ।।
ह्रेषितेन तुरङ्गाणां रथनेमिस्वनेन च ।।
नामभिः कीर्त्यमानैश्च बन्दिभिः पृथिवीक्षिताम् ।। ५८ ।।
शङ्खवादित्रघोषेण पटहानां स्वनेन च ।।
( आजग्मुर्भरतं द्रष्टुं नरेन्द्राः प्रियदर्शनाः ।। ५९ ।।
तोरणादवतीर्यैव वाहनेभ्यो महीक्षितः) ।।
सर्वे स्वल्पपरीवारा विविशुस्ते सभां शुभाम् ।। 1.209.६० ।।
शिरःकम्पेन भरतं नमस्कृत्य निवेदिताः ।।
प्रतीहारेण दक्षेण तेन चकुर्वरासनम् ।। ६१ ।।
सिंहासनस्थान्नृपतीन्भरतस्त्वनुरूपयन् ।।
गिरा पप्रच्छ कुशलं पूजयामास चाप्यथ ।। ६२ ।।
तुष्टुवुर्वन्दिनस्तत्र नानादेश्यान्नराधिपान् ।।
निवेदयन्तः स्तुत्यन्ते भरताय महात्मने ।।६३।।
स्तुवतां भरतं तत्र बन्दिनां स महास्वनः ।।
प्रासादभोगसंरुद्धो विपुलः समपद्यत ।। ६४ ।।
क्ष्मापालमौलिमाणिक्यमरीचिविकटोज्ज्वलम् ।।
बालातपांशुच्छुरितं बभूव च सभागृहम् ।। ६५ ।।
ततः स भरतः श्रीमान्विससर्ज नराधिपान् ।।
स्वहस्तदत्तताम्बूलान्प्रतीहारनिवेदितान् ।। ।। ६६ ।।
ततः समुत्थाय ययौ द्वितीयगृहमुत्तमम् ।।
तत्र चक्रे तदा मन्त्रं मातुलेन युधाजिता ।। ६७ ।।
पुरोधसा च गार्ग्येण स्वेन कालविदा तथा ।।
युधाजिदुवाच ।।
काले त्वमीप्सिते प्राप्तो गन्धर्वाणां वधेच्छया ।। ६८ ।।
तत्र यावन्न जानन्ति गन्धर्वास्ते त्वदागमम् ।।
अवस्कन्देन तानद्य तावद्रात्रौ जहि प्रभो ।। ६९ ।।
अवस्कन्देन निधनं सुखं तेषां भविष्यति ।।
कालविदुवाच ।।
सुप्ते प्रमत्ते विश्वस्ते तथा राजञ्च्छ्रमा न्विते ।। 1.209.७० ।।
अवतीर्णे बले चैव सरितं वहतीं तथा ।।
रात्रौ जागरणश्रान्ते छद्मयुद्धं विधीयते ।। ७१ ।।
रात्रौ विहारशीलास्ते गन्धर्वाः सततं प्रभो ।।
न तेऽवस्कन्दमर्हन्ति रात्रौ कैकेयिनन्दन ।। ७२ ।।
विजयश्च दिवा युद्धे भरतस्य प्रदृश्यते ।।
गार्ग्य उवाच ।।
आदौ दूतेन वक्तव्यं गन्धर्वाणां प्रयोजनम् ।। ७३ ।।
यथा देशमिमं त्यक्त्वा व्रजध्वं तुहिनाचलम् ।।
गन्धर्वाणां निवासस्तु हिमवत्यचलोत्तमे ।। ७४ ।।
पूर्वमेव कृतस्तेन येनेदं निर्मितं जगत् ।।
स्थानमेतन्मनुष्याणां त्यक्तुमर्हथ मा चिरम् ।। ७५ ।।
ते च दूतवचः श्रुत्वा स्थानं दद्युर्नराधिप ।।
असंशयमुपारुह्य चैतन्मम मतं भवेत् ।। ७६ ।।
भरत उवाच ।।
राघवाः सत्यसन्धास्तु कूटयुद्धं न शिक्षिताः ।।
तस्मात्तेषां वधः कार्यः सुयुद्धेन मया नृप ।। ७७ ।।
गार्ग्यवाक्यं तथा बुद्ध्या रोचतेऽतिशयेन मे।।
प्रयातु तेषां दौत्येन गार्ग्य एव महायशाः ।। ७८ ।।
युधाजिदुवाच ।।
गच्छ गार्ग्य महाभाग गन्धर्वाधिपतिं प्रति ।।
तं च श्रावय वाक्यानि त्वयोक्तानीह यानि मे ।। ७९ ।।
अक्रियायां तथा तेषां श्रावयाऽग्र्याणि मा चिरम् ।।
अस्यैव नाम्ना धर्मज्ञ भरतस्य महात्मनः ।। 1.209.८० ।।
मार्कण्डेय उवाच ।।
एवमस्त्वित्यथोक्तोऽसौ ययौ गार्ग्यो महायशाः ।।
रथेन काञ्चनाङ्गेन गन्धर्वनगरं प्रति ।। ८१ ।।
गते पुरोहिते गार्ग्ये भरतोऽपि महाशयाः ।।
हस्तिपृष्ठे रथे चाश्वे शस्त्रे शास्त्रे तथैव च ।। ८२ ।।
व्यायामं च तथा चक्रे नियुद्धे च यदूत्तम ।।
उत्सारितस्तथा पदभ्यां धावद्भिः कुशलैर्जनैः ।।८३।।
स्नातैः संपूजितो विष्णुर्विधिवत्सात्त्वतोत्तमैः ।।
नमस्कृत्य तथैवाग्निं हुतं सुष्ठु पुरोधसा ।। ८४ ।।
तथा भुक्तवतां श्रुत्वा पूजितानां द्विजन्मनाम् ।।
पुण्याहघोषं वित्तेन भूमिपाल विसर्ज्य तान् ।। ८५ ।।
परार्ध्यचन्दनाक्ताङ्गस्तनुचारुसिताम्बरः ।।
सर्वालङ्करणोपेतः स्रग्वी धूपेन धूपितः ।। ८६ ।।
आसीनस्त्वासने दिव्ये बुभुजे स्वजनैर्युतः ।।
मातुलस्य महार्घाणि शुचीनि गुणवन्ति च ।। ८७ ।।
अपरीक्षितपूर्वाणि पुरुषैराप्तकारिभिः ।।
नरपक्षिमृगाणान्तु लिङ्गैर्वह्नौ तथैव च ।। ८८ ।।
भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं तथैव च ।।
पात्रेषु रुक्मरौप्येषु तथा मणिमयेषु च ।। ६९ ।।
भुक्त्वान्नं गीतशब्देन चाप्तैः कतिपयैः सह ।।
तथोपस्पृश्य धर्मात्मा दन्तधावनपूर्वकम् ।। 1.209.९० ।।
चक्रस्य शयनं भेजे वामपार्श्वेन शत्रुहा ।।
इतिहासं स शुश्राव तत्रस्थः पुरुषोत्तमः ।। ९१ ।।
ततः स शयनं त्यक्त्वा शास्त्राभ्यासं महायशाः ।।
चकार रघुशार्दूलः सतां मार्गमनुव्रजन् ।। ९२ ।।
एतस्मिन्नेव काले तु सह गार्ग्यो युधाजिता ।।
विवेश भरतं द्रष्टुं रथरेणुपरिप्लुतः ।। ९३ ।।
सुखासीनश्च भरतं वाक्यमेतत्ततोऽब्रवीत् ।।
गार्ग्य उवाच ।।
ततो वाक्यानि सर्वाणि शैलूषः श्रावितो मया ।। ९४ ।।
न तानि तस्य रोचन्ते संग्रामस्तस्य रोचते ।।
भरतेन समागम्य श्वोभूते द्विजपुङ्गव ।। ९५ ।।
भरतं नाशयिष्यामि नीहारं चन्द्रमा यथा ।।
इत्युक्त्वा स तु मां राजा प्रेषयामास सत्वरः ।। ९६ ।।
आह्वानदुन्दुभिस्तत्र निष्क्रान्ते मयि चाहतः ।।
एतज्ज्ञात्वा स युद्धाय प्रातः सज्जो भवेत्तव ।। ९७ ।।
मार्कण्डेय उवाच ।।
इति गार्ग्यवचः श्रुत्वा भरतो गार्ग्यमब्रवीत्।।
गच्छ शीघ्रं गृहं ब्रह्मञ्छ्रान्तो रथबलाध्वतः ।।९८।।
अहमाज्ञापयिष्यामि सर्वं सांग्रामिकं विधिम् ।।
एतावदुक्त्वा विजयं सेनाध्यक्षमथाऽब्रवीत्।।९९।।
ममोष्ट्रवाहिभिः शीघ्रं शिबिरेषु मही्क्षिताम् ।।
योधानाज्ञापयत्वद्य श्वोभूताय रणाय वै ।। 1.209.१०० ।।
युद्धावधानिकं सर्वं कर्तव्यं च तथा त्वया ।।
एवमाज्ञाप्य नागानां तुरगाणां तथैव च ।। १०१ ।।
प्रत्यावेक्षां ततः कृत्वा सन्ध्यामन्वास्य पश्चिमाम् ।।
रहोगतः स शुश्राव नराणां मूढभाषितम् ।।१०२ ।।
आरुरोह तदा श्रुत्वा प्रासादं हिमपाण्डुरम् ।।
कैलासशिखराकारं निर्वातं रजनीमुखे ।। ।। १०३ ।।
ततस्तु सैनिकः कश्चिच्छिबिरे भरतस्य तु ।।
तलं तलेनाभ्यहनत्पवनार्थं यदृच्छया ।। १०४ ।।
ततस्तु सैनिकैः सर्वैस्तलतालैर्महास्वनम् ।।
चक्रिरे पुरुषव्याघ्र तस्मिन्काले दिवं गतम् ।। १०५ ।।
प्रववौ च तदानीतो वायुर्मनुजपुङ्गव ।।
एतस्मिन्नेव काले तु मद्रराजस्तदांशुमान् ।। १०६ ।।
प्रासादवरमारूढो ज्ञातवान्भरतं तदा ।।
दीपालोकेन लक्ष्म्या च प्रासादस्य विवृद्धया ।। १०७ ।।।
स जगाम तदा राजा प्रहसन्सैनिकं जनम् ।।
भरतस्य प्रदास्यामि युक्त्यैव बलदर्शनम् ।। १०८ ।।
तृणमुष्टिमुपादीप्य सर्वोऽपि कटके जनः ।।
पाणावादाय मुदितः क्ष्वेडाशब्दं करोतु वै ।। १०९ ।।
पार्थिवेनैवमुक्ते तु कटके तस्य धीमतः ।।
सोल्काहस्तो जनः सर्वः क्षणेन समपद्यत ।। ।। 1.209.११० ।।
शिबिरं मद्रराज्ञस्तु द्वितीयमिव चाम्बरम् ।।
बभूव तारकाचित्रमुल्काहस्तैस्तदा नरैः ।। १११ ।।
तद्बलौघमपर्यन्तं सोल्काहस्तैर्जनैर्वृतम् ।।
दृष्ट्वा जगाम धर्मात्मा परां प्रीतिं रघूद्वहः ।। ११२ ।।
क्ष्वेडाः किलकिलाश्चैव श्रुत्वा हर्षमुपागतः ।।
तस्मिन्प्रशान्ते ज्वलने मन्दीभूते च निस्वने ।। ११३ ।।
अभ्यहन्यन्त भूपानां शिबिरेषु पृथक्पृथक् ।।
संज्ञातूर्याणि रम्याणि नानालिङ्गानि चाप्यथ ।। ११४ ।।
सुबहूनि महाराज तेन कोलाहलं महत् ।।
बभूव प्रीतिजननं भरतस्य महात्मनः ।। ११५ ।।
मन्त्रयित्वा ततः श्रीमान्क्षणमात्रं युधाजिता।।
तेनैव सह भुक्त्वा च सुष्वाप शयनोत्तमे ।।
मधुरेण सुगीतेन वीणावेणुरवेण च ।। ११६ ।।
हिमावदाते वरमाल्यचित्रे वितानकाधोविहिते मनोज्ञे ।।
सुष्वाप रात्रिं स महानुभावो भोगीन्द्रभोगे मधुजिद्यथैव ।। ११७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धप्रसङ्गवर्णनोनाम नवोत्तरद्विशततमोऽध्यायः ।। २०९ ।।
1.210
।। मार्कण्डेय उवाच ।।
आह्वानदुन्दुभिं श्रुत्वा शैलूषतनयास्ततः ।।
आसेदुः पार्थिवं सर्वे शैलूषं तं समागताः ।। १ ।।
नमुचिः कामपालश्च गवेषणसुदर्शनौ ।।
वीरबाहुः सुबाहुश्च वायुवेगसुवर्चसौ ।।२।।
निकुम्भः कुम्भनामा च बलाको बलकस्तथा ।।
हरिकेशो महोजाश्च सूर्यरश्मिप्रभङ्करः ।। ३ ।।
वृन्दारको ज्यौतिषिको दृढस्युरपराजितः ।।
कुमुदः कुमुदापीडो वसुनाथः सुलोचनः ।। ४ ।।
चन्द्रापीडो गदी मौली किन्नरोऽजगरो रुहः ।।
केसरी वरवाणश्च भानुरागावहो रयिः ।।५।।
एकलव्यो विशालश्च कलविङ्कः कलाप्रियः ।।
भीमनादो महानादो वासुकिः पनसो गदः ।। ६ ।।
चन्द्रवर्मा महावर्मा वसुषेणोऽग्रजारकः ।।
एते चान्ये च गन्धर्वाः शैलूषस्य सुताः प्रभोः ।। ७ ।।
दिव्यमाल्याम्बरधरा दिव्यचन्दनभूषिताः ।।
आसनेषु महार्हेषु सभायां विविशुस्तदा ।। ८ ।।
शैलूषस्य सुतैर्गुप्ता सभा सा रत्नचित्रिता ।।
रराज तारका चित्रा निशेव नृप शारदी ।। ९ ।।
तेषां समुपविष्टानां शैलूषस्तानथाब्रवीत् ।।
गार्ग्यस्य वचनं सर्वमनुमानं तथा स्वकम् ।। 1.210.१० ।।
तेऽभियोगं तदा श्रुत्वा मानुषान्मनुजेश्वर ।।
चक्रुर्नानाविधाश्चेष्टा मन्युना क्रोधचेतसः ।। ११ ।।
गन्धर्वराजपुत्रास्ते क्रोधादश्रुप्रवर्षिणः ।।
रेजुर्युगान्तमेघाभा अचिराभासदृग्दृशा ।। १२ ।।
बभार नमुचिर्वक्त्रं क्रोधरागानुरञ्जितम् ।।
दिक्सौम्येव दिशादाहं महासंग्रामसूचकम् ।। १३।।
कामपालललाटस्था त्रिशिखा भ्रुकुटी बभौ ।।
त्रिभिः प्रपातैर्गङ्गेव निपतन्ती हिमाचलम् ।। १४ ।।
कृष्णे स शुक्लपर्यन्ते क्रोधरागानुरञ्जिते।।
कुमुदापीडनेत्रे तु सन्ध्या ताम्रे बभूवतुः ।। १५ ।।
क्रोधाक्रान्तेन वपुषा कुमुदः कुमुदप्रभः ।।
रक्तोत्पलनिभाकारः क्षणेन समपद्यत ।। १६ ।।
चन्द्रापीडमुखं चारु क्रोधधूम्रानुकारितम् ।।
बभार रूपं तन्वभ्रसंभृतस्य निशाभृतः ।। १७ ।।
क्रोधनिश्वासधूमेन भानोर्वक्त्रमथावृतम् ।।
बभूव भानोः सदृशमुपरागे यदूत्तम ।। १८ ।।
करनिष्पेषसंजातधूमधूम्रमुखाङ्गकः ।।
अन्वर्थनामतामाप तस्मिन्काले सुदर्शनः ।। १९ ।।
गवेषणप्रवेगेन वह्निगर्भोज्ज्वलात्मना ।।
ताराभिवर्षणेनैव सूचितो भूपतिक्षयः ।। 1.210.२० ।।
वीरबाहुभुजाघातरत्ननिष्पेषरेणुना ।।
विजृम्भितमथास्थाने क्रोधेनेव वपुष्मता ।। २१ ।।
सुबाहुबाहुनिष्पेषो बभूवाशनिनिस्वनः ।।
निर्घात इव गम्भीरो राज्ञां निधनसूचकः ।। २२ ।।
वायुवेगमहावेगचरणोल्लिखिता क्षितिः ।।
विदद्रे पृथिवीपाल विनाशभयशंसिनी ।। २३ ।।
आयासजातसंस्वेदपुलकोद्गमभूषितम् ।।
सुवर्चा धारयामास ललाटतटपट्टकम् ।। २४ ।।
प्रस्विन्नगात्रसंक्रान्तकाञ्चनस्तम्भपिङ्गलः ।।
बभूव कुम्भनाभस्तु क्रोधो विग्रहवानिव ।। २५ ।।
सुविनिःसृतरोमाग्निज्वालाकेसरमालिना ।।
नृसिंहवपुषश्चक्रे रविणानुकृतिर्हरेः ।। २६ ।।
प्रस्वित्रगात्रसंक्रान्तसर्वगन्धर्वमण्डलः ।।
विश्वरूपधरं मौलः प्रजहास जनार्दनम् ।। २७ ।।
गन्धर्वराजपुत्रास्ते मन्युना हृतचेतसः ।।
तदा बभूवुर्भूपाल सर्व एव विशेषतः ।। २८ ।।
इत्थं सुतानां प्रसमीक्ष्य कोपं संस्मृत्य वाक्यानि पुरोहितस्य ।।
जगाम मन्युं सुतरां स राजा सन्दष्टदन्तच्छदभीमवक्त्रः ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसभाक्षोभवर्णनो नाम दशोत्तरद्विशततमोऽध्यायः ।। २१० ।।