विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २०१-२०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १९६-२०० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २०१-२०५
वेदव्यासः
अध्यायाः २०६-२१० →

1.201
मार्कण्डेय उवाच ।।
यक्षे राक्षसे जाते ततः कालेन केनचित् ।।
एषा सुषाव गन्धर्वं शैलूषमिति विश्रुतम् ।।१ ।।
कोट्यस्तिस्रस्तु पुत्राणां तस्यासन्सुदुरात्मनः ।।
एतस्मिन्नेव काले तु विसृष्टासु प्रजासु च ।। २ ।।
ब्रह्मादिदेश राज्यानि जात्यां जात्यां यथाक्रमम् ।।
गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा ।। ३ ।।
शैलूषपुत्रा गन्धर्वा संघशः कृतनिश्चयाः ।।
शासनेनैव तिष्ठन्ति तस्य चित्ररथस्य तु ।। ४ ।।
सिन्धोरुभयकूलेषु देशमुत्साद्य ते तदा ।।
हत्वा च मनुजांस्तत्र निवसन्ति गतव्यथाः ।। ९ ।।
उत्सादयन्तो राष्ट्राणि राज्ञां विप्रियकारकाः ।।
ताञ्शशाप स गन्धर्वराजश्चित्ररथः प्रभुः ।। ६ ।।
अधर्मनिरताः सर्वे मानुषाद्वधमाप्स्यथ ।।७।।
शापेन तस्याप्रतिमेन राजन्गन्धर्वराजाति बलस्य संख्ये ।।
बभूव मृत्युर्भरतस्तु तेषां देहान्तरस्थो हरिरप्रमेयः ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषवंशवर्णनं नामैकाधिकद्विशततमोऽध्यायः ।। २०१ ।।
1.202
वज्र उवाच ।।
शैलूषपुत्रा गन्धर्वा भरतेन कथं हताः।।
किमर्थं तु महाभाग तन्ममाचक्ष्व पृच्छतः ।।१।।
मार्कण्डेय उवाच ।।
अयोध्यायामयोध्यायां रामे दशरथात्मजे ।।
कैकेयाधिपतिः श्रीमान्युधाजिन्नाम पार्थिवः ।। २।।
रामाय प्रेषयामास दूतं भरत मातुलः ।।
वृद्धं पुरोहितं गार्ग्यं येन कार्येण तच्छृणु ।।३।।
सिन्धोरुभयकूलेषु रामदेशो मनोहरः ।।
हत्वा रणे मनुष्येन्द्रान्गन्धर्वैर्विनिवेशित।।४।।
गन्धर्वास्ते च राजेन्द्र राज्ञां विप्रियकारकाः ।।
लक्ष्मणं भरतं वापि शत्रुघ्नमथवा नृप ।। ५ ।।
विसर्जयित्वा गन्धर्वांस्तान्विनाशय राघव ।।
राजानो निर्भयाः सन्तु देशश्चास्तु तथा तव ।। ६ ।।
दूतस्य वचनं श्रुत्वा चिन्तयामास राघवः ।।
मेघनादवधे कर्म लक्ष्मणेन महत्कृतम् ।। ७ ।।
शत्रुघ्नेन कृतं कर्म लवणं च विनिघ्नता।।
प्रेषयिष्यामि भरतं गन्धर्वस्य च निग्रहे ।।८।।
इत्येवं मनसि ध्यात्वा रामो भरतमब्रवीत् ।।
गच्छ गार्ग्यं पुरस्कृत्य वत्स राजगृहं स्वयम् ।।९।।
मातुलेन समायुक्तः कैकयेन्द्रगृहात्ततः ।।
जहि शैलूषतनयान्गन्धर्वान्पापनिश्चयान् ।। 1.202.१० ।।
एवमुक्तः स धर्मात्मा भरतो भ्रातृवत्सलः ।।
रामस्य पादौ शिरसा चाभिवन्द्य कृताञ्जलिः ।। ११ ।।
गृहं गत्वा चकाराथ सर्वं प्रास्थानिकं विधिम् ।।
ओषधीनां कषायेण तदोत्प्लावितविग्रहः ।। १२ ।।
गौरसर्षपकल्केन प्रसादितशिरोरुहः ।।
तीर्थसारसनादेयैः सलिलैश्च स सागरैः ।। १३ ।।
चन्दनस्रावसम्मिश्रैः कुंकुमाक्षोदसंयुतैः ।।
सर्वौषधिसमायुक्तैः सर्वगन्धसमन्वितैः ।। १४ ।।
मन्त्रपूतैर्महातेजाः सस्नौ राघववर्धनः ।।
शङ्खभेरी निनादेन पणवानां स्वनेन च ।। १५ ।।
आनकानां च शब्देन निस्वनेन च बन्दिनाम् ।।
सूतमागधशब्देन जयकारैस्तथैव च ।। १६ ।।
तुष्टवुः स्नानकाले तं स्तवैर्मङ्गलपाठकाः ।।
तथोपतस्थुर्गीतेन गन्धर्वाप्सरसां गणाः ।। १७ ।।
स्नातः स भरतो लक्ष्म्या युवराजाभिरूपया ।।
विलिप्य चारुसर्वाङ्गं चन्दनेन सुगन्धिना ।। १८ ।।
अहताम्बरसंवीतः श्वेतमाल्यविभूषणः ।।
कुण्डली साङ्गदी मौली सर्वरत्नविभूषितः ।। १९ ।।
अन्तस्थं पूजयामास देवदेवं त्रिविक्रमम् ।।
गन्धमाल्यनमस्कारधूपदीपादिकर्मणा।।1.202.२०।।
पूजयित्वा जगन्नाथमुपतस्थे हुताशनम् ।।
सुहुतं ब्राह्मणेन्द्रेण राघवाणां पुरोधसा ।। २१ ।।
गोभिर्वस्त्रैर्हिरण्यैश्च तुरङ्गकरिपुङ्गवैः ।।
मोदकैः सफलैर्दध्ना गन्धैर्माल्यैस्तथाक्षतैः ।। २२ ।।
स्वस्तिवाद्यांस्तथा विप्रान्महात्मा भूरिदक्षिणः ।।
व्याघ्रचर्मोत्तरे रम्ये सूपविष्टो वरासने ।। २३ ।।
आयुधानन्तरं चक्रे ध्वजच्छत्राभिपूजनम् ।।
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तास्तथैव च ।। २४ ।।
नद्यः काञ्चनविन्यस्ताः शङ्खः सत्कमलाञ्जनम् ।।
पूर्णकुम्भं गजमदं दूर्वाः सार्द्रं च गोमयम् ।। २५ ।।
रत्नान्यादाय बिल्वं च चापमादाय सत्वरः ।।
सशरं राघवश्रेष्ठः पदद्वात्रिंशकं ययौ ।। २६ ।।
श्रेष्ठमश्वं सुचन्द्राभं हेमभाण्डपरिच्छदम् ।।
आरुह्य निर्ययौ श्रीमाञ्जयकाराभिपूजितः ।। २७ ।।
पौरजानपदामात्यैर्वाद्यघोषेण भूरिणा ।।
ह्रादेन गजघण्टानां बृंहितेन पुनःपुनः ।। २८।।
हेषितेन तुरङ्गाणां नराणां क्ष्वेडितेन च ।।
द्विजपुण्याहघोषेण प्रयातो भूरिदक्षिणः ।। २९ ।।
भरतस्य प्रयाणे तु देवाः शक्रपुरोगमाः ।।
मुमुचुः पुष्पवर्षाणि वाच ऊचुः शुभास्तथा ।। 1.202.३० ।।
एष विग्रहवान्धर्म एष सत्यवतां वरः ।।
एष वीर्यवतां श्रेष्ठो रूपेणाप्रतिमो भुवि ।। ३१ ।।
अनेन यत्कृतं कर्म रामे वनमुपागते ।।
न तस्य कर्ता लोकेऽस्मिन्दिवि वा विद्यते क्वचित् ।। ३२ ।।
अनेन राज्यं सन्त्यक्तं गृहं दग्धमिवाग्निना ।।
अनेन दुःखशय्यासु शयितं समहात्मना ।। ३३ ।।
नित्यमासन्नभोगेन जटावल्कलधारिणा ।।
फलमूलाशिनानेन रामराज्यं हि पालितम् ।। ३४ ।।
शृण्वन्सुवाक्यानि सुरेरितानि रामानुजो रामगृहं जगाम ।।
शूरार्यविद्वत्पुरुषोपकीर्णं रत्नैर्यथा सागरमप्रमेयम् ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतप्रस्थानवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।
1.203
मार्कण्डेय उवाच ।।
गृहात्प्रयाते भरते प्रस्थानार्थिनि यादव ।।
प्रागेव लक्ष्मणं रामो नित्योद्युक्तमभाषत ।। १ ।।
अनुयानं कुमारस्य भरतस्य महात्मनः ।।
प्रेषयाश्वसहस्राणां शतानि त्रीणि राघव ।। २ ।।
दश दन्तिसहस्राणि रथानां षड्गुणानि च ।।
कोट्यः पञ्च पदातीनां समरेष्वनिवर्तिनाम् ।। ३ ।।
धनाध्यक्षास्तथा वत्समनुगच्छन्तु लक्ष्मण ।।
गोरथैश्च तथा पुष्टैर्गोभिरुष्ट्रैस्तथैव च ।। ४ ।।
व्यायतैः पुरुषैरश्वैर्गर्दभैश्च तथा वरैः ।।
वस्त्ररूप्यसुवर्णानां मणीनामपि भागशः ।। ५ ।।
विसर्गाय कुमारस्य परिपूर्णा यथासुखम् ।।
ब्राह्मणाः कथया मुख्यास्तथैव नटवर्तकाः ।। ६ ।।
गीते नृत्ते तथा लास्ये प्रवीणाश्च वराङ्गनाः ।।
प्रास्थानिकाश्च ये केचित्पानविक्रयिणश्च ये ।। ७ ।।
रूपाजीवाश्च वणिजो नानापण्योपजीविनः ।।
नानारूपमुपादाय बहुपण्यं व्रजन्तु वै।।८।।
विषवैद्याः शल्यवैद्यास्तथा कायचिकित्सकाः ।।
कर्मन्तिका स्थपतयो मार्गिणो वृक्षरोपकाः ।। ९ ।।
कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ।।
वाणिक्काराश्च ये केचित्कूर्चकाराश्च शोभनाः ।। 1.203.१० ।।
परिकर्मकृतश्चैव तथा वस्त्रोपजीविनः ।।
मायूरिकास्तैत्तिरिकाश्चेतका भेदकाश्च ये ।। ११ ।।
रञ्जका दन्तकाराश्च तथा दन्तोपजीविनः ।।
एरण्डवेत्रकाराश्च कटकाराश्च शोभनाः ।। १२ ।।
आरकूटकृतश्चैव तात्रकूटास्तथैव च ।।
भूर्जकूटाः खड्गकारा गुडसीधुप्रपाचकाः ।। १३ ।।
औरभ्रका माहिषकास्तुन्नवायाश्च लक्ष्मण ।।
ये चाभिष्टावकाः केचित्सूतमागधबन्दिनः ।। १४ ।।
चैलनिर्णेजकाश्चैव चर्मकारास्तथैव च ।।
अङ्गारकोराश्च तथा लुब्धका ये च धीवराः ।। १५ ।।
कबन्धधारिणो ये च ये च काष्ठप्रपाटकाः ।।
वस्त्रसीवनसक्ताश्च गृहकाराश्च ये नराः ।। १६ ।।
कुम्भकाराश्च ये केचिच्छ्मश्रुवर्धकिनश्च ये ।।
लेखका गणका ये च तथा तन्दुलकारकाः ।। १७ ।।
सक्तुकाराश्च ये केचिच्छाकपण्योपजीविनः ।।
तैलिका गान्धिकाश्चैव तीर्थसंशुद्धिकारकाः ।।१६।।
चित्रकर्मविदो ये च ये च लाङ्गूलिका जनाः ।।
सूताः पौरोगवाश्चैव सौविदल्लाश्च लक्ष्मण ।। १९ ।।
गोपा वनचरा ये च नदीतीरविचारणाः ।।
गोसंघैर्महिषीसंघैस्तेऽनुयान्तु यथासुखम् ।। 1.203.२० ।।
श्रेणीमहत्तरा ये च ग्रामघोषमहत्तराः ।।
तथैवाटविका ये च ये च शैलविचारिणः ।। २१ ।।
सौमित्रे सर्व एवैते सुभृताश्च सुपूजिताः ।।
अनुयान्तु कुमारं मे भरतं भ्रातृवत्सलम्।। २२ ।।
इत्येवमुक्तः स तु तान्समस्तानाज्ञापयामास नरेन्द्रवाक्यात् ।।
आमन्त्र्य रामं शिरसा च सर्वे विनिर्ययुस्ते नगरात्प्रहृष्टाः ।।२३।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आनुयात्रिकवर्णनन्नाम त्र्यधिकद्विशततमोऽध्यायः ।। २०३ ।।
1.204
।। मार्कण्डेय उवाच ।।
एतस्मिन्नेव काले तु रामः शुश्राव तन्महत्।।
शङ्खवाद्यरवोन्मिश्रं भरतस्यानुयात्रिकम् ।। १ ।।
राजद्वारमुपागत्य भरतोऽपि महायशाः ।।
पदभ्यां जगाम राजानमवतीर्य तुरङ्गमात्।।२।।
स ददर्श तदा रामं रत्नसिंहासनस्थितम्।।
अनुलिप्तं परार्ध्येन चन्दनेन सुगन्धिना।।३।।
सूक्ष्मं वसानं वसनं सर्वाभरणभूषितम।।
तेजसा भास्कराकारं सौन्दर्येणोडुपोपमम् ।। ४ ।।
क्षमया पृथिवीतुल्यं क्रोधे कालानलोपमम् ।।
बृहस्पतिसमं बुद्ध्या विष्णुतुल्यं पराक्रमे ।।५।।
सत्ये दानेऽप्यनौपम्यं दमे शीले च राघवम् ।।
पुरोहितैरमात्यैश्च युतं प्रकृतिभिस्तथा ।। ६ ।।
दृष्ट्वा तं भरतः श्रीमाञ्जगाम शिरसा महीम् ।।
भरतं युवराजानं रामाय विदितात्मने ।। ७ ।।
न्यवेदयत धर्मात्मा प्रतीहारः सलक्ष्मणम् ।।
उत्थाय कण्ठे जग्राह रामोऽपि भरतं तदा ।। ८ ।।
मूर्ध्नि चैनमुपाघ्राय आदिदेशास्य शासनम् ।।
भरतं तु सुखासीनं रामो वचनमब्रवीत् ।। ९ ।।
गन्धर्वपुत्रांस्तान्हत्वा कर्तव्यं नगरद्वयम् ।।
सिन्धो रुभयपार्श्वे तु पुत्रयोरुभयोः कृते ।। 1.204.१० ।।
अभिषिच्य तदा वत्स पुत्रौ नगरयोस्तयोः ।।
युधाजिति परीधाय क्षिप्रमागन्तुमर्हसि ।।११।।
त्वया विना नरव्याघ्र नाहं जीवितुमुत्सहे ।।
क्षत्रधर्मं पुरस्कृत्य तत्र त्वं प्रेषितो मया ।।१२।।
स त्वं गच्छ महाभाग मा ते कालात्ययो भवेत् ।।
स्वस्त्यस्तु तेन्तरिक्षेभ्यः पार्थिवेभ्यश्च गच्छतः ।। १३ ।।
दिव्येभ्यश्चैव भूतेभ्यः समरे च तथानघ ।। १४ ।।
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ।।
पालयन्तु सदा तुभ्यं दीप्तविग्रहधारिणः ।। १५ ।।
ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ।।
आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ।। १६ ।।
भृगवोङ्गिरसश्चैव कालस्यावयवास्तथा ।।
सरितः सागराः शैलाः समुद्राश्च सरांसि च ।। १७ ।।
दैत्यदानवगन्धर्वा पिशाचोरगराक्षसाः ।।
देवपत्न्यस्तथा सर्वा देवमातर एव च ।। १८ ।।
शस्त्राण्यस्त्राणि शास्त्राणि मङ्गलाय भवन्तु ते ।।
विजयं दीर्घमायुश्च भोगांश्चान्यान्दिशन्तु ते ।। १९ ।।
इति स्वस्त्ययनं श्रुत्वा राज्ञा स समुदीरितम् ।।
रामस्य पादौ शिरसा त्वभिवन्द्य धनुर्धरः ।। 1.204.२० ।।
निर्गत्य राजभवनाद्रामाज्ञाकल्पितं जगत ।।
हिमाद्रिकूटसंकाशं चारुदंष्ट्रोज्ज्वलाननम् ।। २१ ।।
मदेन सिञ्चमानं च नृपवेश्माजिरं नृप ।।
समाक्रान्तकटं चापि पानलुब्धशिलीमुखैः ।। २२ ।।
स्तब्धचारुमहाकर्णं मधुपकृपयैव तु ।।
दीर्घाग्रमध्वक्षकृतं कृतशृङ्गावतंसकम् ।। २३ ।।
स्वासनं व्यूढकुम्भं च तथोदग्रं महाबलम् ।।
नक्षत्रमालां शिरसा धारयानं तु काञ्चनीम् ।। २४ ।।
पटुस्वने तथा घण्टे दर्शनीये मनोहरे ।।
कुथं विचित्रं रम्यं च कोविदारं महाध्वजं ।। २५ ।।
वैजयन्त्यः पताकाश्च किङ्किणीजालमालिताः ।।
समारूढं नयविदा महामात्रेण धीमता ।। २६ ।।
वैडूर्यदण्डतीक्ष्णाग्र काञ्चनाङ्कुशधारिणा ।।
जघनस्थेन चान्येन वरतोमरधारिणा ।। २७ ।।
तथा वैजयिकैर्मन्त्रैर्देवज्ञेनाभिमन्त्रितम् ।।
आरुरोह महातेजा जयत्काराभिनन्दिनः ।।२८।।
पूर्णेन्दुमण्डलाकारं रुक्मदण्डं मनोहरम् ।।
छत्रमादाय तं प्रेम्णा चारुरोह स लक्ष्मणः ।। २९ ।।
चामरौ द्वौ समादाय चन्द्ररश्मिसमप्रभौ ।।
आरूढं योषितोर्युग्मं रूपेणाऽप्रतिमं भुवि ।। 1.204.३० ।।
तं समारुह्य नागेन्द्रं मदलेखाभिगामिनम् ।।
जगाम सह गार्ग्येण रथारूढेन यादव ।। ३१ ।।
तमन्वयौ महाभाग चतुरङ्गमहाबलम् ।।
पताकाध्वजसम्बाधं कल्पयन्तं वसुन्धराम् ।। ३२ ।।
श्येनाः काकवहाः कङ्काः पिशाचा यक्षराक्षसाः ।।
ययुः पुरःसरास्तस्य भरतस्य महात्मनः ।। ३३ ।।
गन्धर्वपुत्रमांसानां लुब्धा मांसोपजीविनः ।।
तूर्यघोषेण महता बन्दिनां निःस्वनेन च ।। ३४ ।।
वायुना चानुलोमेन सेव्यमानः सुगन्धिना ।। ।
मङ्गलानां च मुख्यानां दर्शनाद्धृष्टमानसः ।। ३९ ।।
निर्ययौ राजमार्गेण जनसम्बाधशालिना ।।
तेजस्विनां च तेजांसि हृदयानि च योषि ताम् ।। ३६ ।।
आददानो महातेजा नगरात्स विनिर्ययौ ।।
क्रोशमात्रं ततो गत्वा समे देशे च सोदके ।। ३७ ।।
प्रशस्तद्रुमसंकीर्णे शिबिरं प्राङ्निषेवितम् ।।
सेनाध्यक्षैः सुनिपुणैर्विवेश भरतस्तदा ।। ३८ ।।
स प्रविश्य महातेजाः शिबिरं स्वं निवेशनम् ।।
मङ्गलालम्भनं कृत्वा वरासनगतः प्रभुः ।। ३९ ।।
पौरजानपदं सर्वं प्रेषयामास यादव ।।
परिष्वज्य ततः पश्चाल्लक्ष्मणं शुभलक्षणम् ।। 1.204.४० ।।
मूर्ध्नि चैवमुपाघ्राय प्रेषयामास धर्मवित् ।।
प्रायाणकं च श्वोभूते दुन्दुभिस्ताड्यतां मम ।। ४१ ।।
दैशिकाः पुरतो यान्तु ये च वृक्षावरोहकाः ।।
आज्ञाप्य सकलं चैव शिबिरं च तथाविधम् ।। ४२ ।।
अवृक्षेषु तु देशेषु रोपयन्तु द्रुमाञ्जनाः ।।
द्रुमाः कण्टकिनश्चैव ये च मार्गप्ररोधकाः ।। ४३ ।।
छिन्दन्तु गत्वा तानद्य तीक्ष्णैः शीघ्रं परश्वधैः ।।
तोयहीनेषु देशेषु कूपान्कुर्वन्तु मे तथा ।। ४४ ।।
विषमांश्च तथा देशान्समान्कुर्वन्तु मे पथि ।।
तीराणि सरितां चैव कुर्वन्तु पुलिनानि च ।। ४५ ।।
न भवेद्येन संघट्टो जनस्य पथि यास्यतः ।।
पुरः प्रयान्तु सैन्येन विजये रतिवर्धनाः ।। ४६ ।।
नीलश्च नक्रदेवश्च वसुमान्मुनयस्तथा ।।
मध्यप्रयाणे गान्धारो जयनाभो रणोत्कटः ।। ४७ ।।
सुशीलः कामपालश्च यान्तु सैन्येन दंशिताः ।।
जघनं कटकस्याहं पालयानो यथासुखम् ।। ४८ ।।
सैन्येन सह यास्यामि विजयाय नृपस्य तु ।।
पश्यन्तु दैशिकाः स्थानं प्रभूतयवसेन्धनम् ।। ।। ४९ ।।
सोदकं च समं यत्र सेनावासो भवेन्मम ।।
एवमाज्ञाप्य भरतो विजहार यथासुखम् ।। 1.204.५० ।।
सुष्वाप च निशां तत्र घर्मकाले मनोहराम् ।।५१।।
सुप्तस्य सा तत्र रघूद्वहस्य पुण्या ययौ रात्रिरदीनसत्त्वा ।।
सम्पूर्णचन्द्राभरणा प्रतीता ज्येष्ठस्य मासस्य रणोत्सुकस्य ।। ५२।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतनिर्याणवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।
1.205
।। मार्कण्डेय उवाच ।। ।।
प्रभातायां तु शर्वर्यां दुन्दुभिः समहन्यत ।।
प्रयाणिको महाराज भरतस्य महास्वनः ।। १ ।।
तस्य शब्देन महता विबुद्धः कटके जनः ।।
अवश्यकरणीयानि कृत्वा राजंस्त्वरान्विताः ।। २ ।।
त्वरिता गमनार्थाय समाहूयेतरेतरम् ।।
पटवेश्मानि रम्याणि सहन्तुमुपचक्रमुः ।। ३ ।।
महान्ति सुमनोज्ञानि वर्तितोर्णाकृतानि च ।।
चक्रुस्तानि च राजेन्द्र सुखवाह्यान्ययत्नतः ।। ४ ।।
ततस्त्वारोपयाञ्चक्रुः करभेषु खरेषु च ।।
गोरथेषु तु मुख्येषु तथा दन्तिषु सत्वराः ।। ५ ।।
भाण्डमुच्चावचं चैव शयनानि मृदूनि च ।।
आसनानि च मुख्यानि भाण्डं यच्च महानसे ।। ६ ।।
पेयं च यवसं चैव शस्त्राणि विविधानि च ।।
कवचानि तुरङ्गाणां शिल्पभाण्डानि यानि च ।। ७ ।।
धनं च विविधं राजन्सर्वोप करणानि च ।।
आरोप्यमाणे भाण्डे तु करभाणां विकृष्यताम् ।। ८ ।।
शुश्रुवे तुमुलः शब्दः खराणां च खरस्वनः ।।
गजानां युज्यमानानां तुरङ्गाणां रथैः सह ।। ९ ।।
वाद्यानां हन्यमानानां शुश्रुवे तुमुलं स्वनम् ।।
नादेन गजघण्टानां बृंहितेन च पार्थिव ।। 1.205.१० ।।
ह्रेषितेन तुरङ्गाणां बभूव तुमुलः स्वनः ।।
प्रायाणिकमुपादाय ताडयन्नेव दुन्दुभिम् ।। ११ ।।
अग्रे प्रयाणमान्येन ययौ दुन्दुभिभिः सह ।।
पण्यानि च समादाय वणिजस्त्वरिता ययुः ।। १२ ।।
ग्रहीतुकामाश्चान्यानि सोदकानि समानि च ।।
स्थानानि वरमुख्यानां ययुश्चाग्रेसरा नराः ।। १३ ।।
महानसिकमुख्यास्तु त्वरिताश्च तथा ययुः ।।
सुखयानासु रम्यासु तथैवाश्वतरीषु च ।। १४ ।।
आरोप्य योषितो जग्मुः प्रत्यूषे मुदिता जनाः ।।
आरूढाश्चापरा नार्यः सवितानाः करेणवः ।।१५।।
कञ्चुकोष्णीषिभिर्गुप्ता गुप्ता वर्षवरैस्तथा ।।
ययुः ससैन्या राजेन्द्र गीतवाद्य पुरस्सराः ।। १६ ।।
दीनान्धकृपणानाथांस्तर्पयन्त्यो धनेन ताः ।।
नरेन्द्रयोषितो राज्ञां दिव्यालङ्गारभूषिताः ।। १७ ।।
तथान्ये बद्धनिस्त्रिंशाः पुरुषाश्च कलापिनः ।।
आदीप्य तृणवेश्मानि जग्मुस्त्वरितमानसाः ।। १८ ।।
भरतोऽपि समारुह्य शिबिकां रत्नभूषिताम् ।।
विनिर्ययौ महातेजा स्तूर्यघोषपुरःसरः ।। १९ ।।
शून्यं च शिबिरस्थानं गृध्रमण्डलसंकुलम् ।।
बहुक्रव्यादसङ्कीर्णं क्षणेन समपद्यत ।। 1.205.२० ।।
गजोष्ट्रगर्दभाश्वानां शरीरावयवैर्युतम्।।
भग्नभाण्डसमाकीर्णं शरीरावयवैर्युतम्।।२१।।
बहुक्रव्यादसङ्कीर्णं करीषोत्करसंयुतम् ।।
खातैर्महानसस्थानैर्दग्धमृत्तिकया युतैः ।। ।।।२२।।
समण्डकर्दमोपेतैर्मक्षिकासहितैर्युतम् ।।
संत्यज्य निर्ययुः सर्वे भरतस्य तु सैनिकाः।।२३।।
प्रयाणे तस्य सैन्यस्य बलीवर्दाञ्छ्रमान्वितान् ।।
नागानुत्थापयामासुरुपविष्टान्प्रयत्नतः ।।२४।।
केचिदुष्ट्रपरित्रस्तातान्गार्दभेन निपातितान् ।।
भाण्डमारोपयाञ्चक्रुर्भूय एव नरोत्तमाः ।। २५ ।।
नद्युत्तारेषु महिषान्केचित्सूर्यांशुतापितान् ।।
निषण्णान्सह भारेण ताडयाञ्चक्रिरे जनाः ।। २६ ।।
केचिदश्वतरांस्त्रस्तान्नागबृंहितनिस्वनैः ।।
आरूढयोषितो यत्नाज्जगृहुर्नृप रश्मिषु ।। २७ ।।
केचिदश्वैर्गजत्रस्तैराक्षिप्ता भुवि मानवाः ।।
जानुविश्रमणार्थाय वाजिग्रीवकृताङघ्रयः ।। २८ ।।
तुरङ्गांश्च तदोद्भ्रान्तान्स्रस्तचर्माश्च सादिनः ।।
केचिदाक्रम्य वेगेन जगृहुस्तत्र यादव ।। २९ ।।
विशश्रमुस्तथा केचिद्वृक्षच्छायासु मानवाः ।।
केचिच्चोदकतीरेषु चक्रिरे भोजनक्रियाम् ।। 1.205.३० ।।
केचित्सन्त्रस्ततुरगसन्निकृष्टसमुत्थितैः ।।
द्रुतान्कापिञ्जलैर्यत्नाज्जगृहुस्तांस्तुरङ्गमान् ।। ३१ ।।
केचित्कटकसंत्रस्तान्मृगयूथान्प्रधावतः ।।
वेगेनाक्रम्य विशिखैर्जघ्नुर्यदुकुलोद्वह ।। ३२ ।।
केचिच्च यवसं चक्रुः केचिच्चक्रुरथेन्धनम् ।।
तथान्यैर्द्विगुणीभूतं तथा दुन्दुभिनिस्वनम् ।। ३३ ।।
प्रायाणिकं जहुः शीघ्रं श्रमं यदुकुलोद्वह ।।
केचिदापणवीथ्यग्रमहावंशसमुच्छ्रितम् ।।३४ ।।
सपताकं नरा दृष्ट्वा प्राप्ताः स्म इति मेनिरे ।।
चक्रुः केचिच्च च्छन्दांसि सहायानां पुनःपुनः ।।३५ ।।
पुरोगतानां राजेन्द्र स्थानलब्धिचिकीर्षया ।।
केचित्पटकुटीं दृष्ट्वा स्वकीयां त्वरिता ययुः ।। ३६ ।।
वर्तितोर्णाकृतं दृष्ट्वा गृहांश्चान्ये ययुर्द्रुतम् ।।
केषाञ्चित्तत्र वेश्मानि तीर्णानि नृपसत्तम ।। ३७ ।।
कृतानि क्रियमाणानि ददृशुस्तत्र मानवाः ।।
द्रुमैर्विश्राम्यमाणैश्च क्रियमाणैस्तथा कटैः ।। ३८ ।।
गृहैरारोप्यमाणैश्च पटोर्णातृणसंस्कृतैः ।।
शुशुभे तन्महाराज कटकं शुभकर्मणः ।। ३९ ।।
शस्त्रेण संशोधयतां भुवं भूमिपते नृणाम् ।।
राजसाक्रान्तवपुषामप्रकाशं वपुर्बभौ ।। 1.205.४० ।।
पार्श्वस्थतोयसम्पूर्णदृतयश्च तथा जनाः ।।
धावमानाः प्रदृश्यन्ते वर्धिता गृहशोधने ।। ४१ ।।
अभ्युक्षयन्ति चाप्यन्ये तृणवेश्मानि पार्थिव ।।
तप्तानां शीतकामानां दृतिवक्त्रोद्गतैर्जलैः ।। ४२ ।।
अभिश्रयेण धूपेन समन्तादाकुलीकृतम् ।।
बभूव तस्य कटकं नीहारेणैव संयुतम् ।। ४३ ।।
अवरोपितभाण्डानां दान्तानां यदुनन्दन ।।
पृष्ठान्यभ्युक्षयामासुर्गोमयेन जलेन च ।। ४४ ।।
खरोष्ट्रसबलीवर्द चरणार्थे विनिर्गतम् ।। ४५ ।।
ददृशे बहुसाहस्रं कटके भरतस्य तु ।।
रथेभ्यस्तुरगानन्ये विमुच्य हयकोविदाः ।। ४६ ।।
अवरोपितभाण्डानि सान्त्वयाञ्चक्रिरे शनैः ।।
समुत्थाय रजो भौमं तुरङ्गपरिवर्तनैः ।। ४७ ।।
खमारुरोह राजेन्द्र कपोतारुणपाण्डुरम् ।।
स्थापयाञ्चक्रिरे चान्ये जलस्थाने च वाजिनः ।। ४८ ।।
श्रेणी चक्रुस्तथैवान्ये कटच्छायासु पार्थिव ।।
वितानाधस्तथा केचित्स्थापयाञ्चक्रिरे हयान् ।। ४९ ।।
हयेभ्यो यवसं दत्त्वा केचिद्बुभुजिरे जनाः ।।
कटच्छायाश्च नागानां चक्रुश्चान्ये सहस्रशः ।।1.205.५० ।।
वितानानि च मुख्यानि सूर्यतापप्रशान्तये ।।
स्नाताञ्जलाशये नागाँल्लब्धतोयाञ्जनाधिप ।। ५१।।
सच्छन्नान्स्वपरीधानकुम्भान्निन्युः स्वमालयम् ।।
कटकाद्दूरतश्चक्रुरालानं नृपदन्तिनाम्।। ५२।।
आलानानि महाराज महावृक्षेषु मानवाः ।।
आदाय गोपिनस्तत्र कटकाच्च विदूरतः ।। ५३ ।।
गोसङ्घान्महिषीसङ्घांश्चक्रुर्व्यस्तान्यथासुखम् ।।
कटके च तथा निन्युर्गोरसानि नराधिप ।। ५४ ।।
कटकापण्यवीथीं च सर्वपण्यविभूषिताम् ।।
ददृशुः पुरुषास्तत्र अयोध्यामिव चापराम् ।। ५५ ।।
स्थानानि सर्ववैद्यानांसध्वजानि नराधिप।।
सागदानि च दृश्यन्ते कटके भरतस्य तु।।५६।।
सेनाध्यक्षेण वीरेण विजयेन महात्मना।।
कृतं शास्त्रानुसारेण स्कन्धावारनिवेशनम् ।। ५७ ।।
विवेश भरतः श्रीमांश्चतुरङ्गबलान्वितः ।।
अन्वीयमानो वीराभ्यां पुत्राभ्यां यदुनन्दन ।। ५८ ।।
पुष्करेण च वीरेण तक्षेण सुमहात्मना ।।
बलमुख्यैस्तथैवान्यैः सूतमागधबन्दिभिः ।। ५९ ।।
शङ्खवादित्रशब्देन पटहानां स्वनेन च ।।
भरतस्य गृहद्वारतोरणान्तिकमागताः ।। 1.205.६०।।
बभूबुर्बलमुख्यास्ते दिक्षु ये यदुनन्दन ।।
सन्त्यज्य मध्यमां वीथीं प्रवेशाय महामनाः ।। ६१ ।।
बन्दिभिः ख्याप्यमानांस्तान्नामकर्मावदानतः ।।
शिरःकम्पेन भरतः प्रैरयत्स्वान्निवेशनान् ।। ६२ ।।
बलमुख्यान्विवेशाथ स्वगृहं सर्वऋद्धिमत् ।।
द्वियोजनाध्वना श्रान्ता भरतस्य तु सैनिकाः ।। ६३ ।।
विविशुर्भवनान्स्वान्स्वान्भेजिरे शयनानि च ।।
प्रविश्य वेश्मप्रवरं भरतोऽपि यथासुखम् ।।। ।। ६४ ।।
विजहार महाराज देवराजसमद्युतिः ।।
क्रमेणानेन धर्मात्मा भूमिपाल दिनेदिने ।।
आससाद व्रजन्नेव गङ्गां त्रिपथगां नदीम् ।। ६५ ।।
सुराङ्गनापीनपयोधरस्थसच्चन्दनक्षालनलब्धलक्ष्मीम् ।।
ग्रीष्मार्कतापाद्विगलत्तुषारविवृद्धशीतोदपटोत्तरीयाम् ।। ६६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रयाणवर्णनो नाम पञ्चाधिकद्विशततमोऽध्यायः ।। २०५ ।।

[सम्पाद्यताम्]

भरत-शैलूषाख्यानोपरि टिप्पणी