विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १९६-२००

विकिस्रोतः तः
← अध्यायाः १९१-१९५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १९६-२००
वेदव्यासः
अध्यायाः २०१-२०५ →

1.196
वज्र उवाच ।।
आत्मरक्षा त्वयोक्ता मे सर्वबाधाविनाशिनी ।।
कृपान्वितैः कथं कार्या पररक्षा भृगूत्तम ।। १ ।।
एतन्मे संशयं छिन्धि त्वं विज्ञानमयो निधिः ।।
वैष्णवानि रहस्यानि सर्वाणि विदितानि ते ।। २ ।।
मार्कण्डेय उवाच ।।
स्तोत्रेणानेन धर्मज्ञ कुशाग्रैर्मार्जयन्नरम् ।।
उपस्पृश्य शुचिः कुर्याद्रक्षा पार्थिवसत्तम ।।३।।
सोपवासेन सम्पूज्य देवदेवं जनार्दनम् ।।
अमोघैषा भवेद्रक्षा कृता नास्त्यत्र संशयः ।।४।।
यथाकथञ्चित्कृत्वैनां नरो मोचयते रुजः ।।
आधिव्याधिगृहीतानां रक्षैषा भेषजं परम् ।। ५ ।।
ॐ नमः परमार्थाय पुरुषाय महात्मने ।। ६ ।।
अरूपबहुरूपाय व्यापिने परमात्मने ।।
निष्कल्मषाय शुद्धाय ध्यातृपापहराय च।।७।।
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ।।
वराहनारसिंहाय वामनाय महात्मने ।। ८ ।।
वक्ष्यामि त्वां नमस्कृत्य यत्तत्सिध्यतु मे वचः ।।
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।।९।।
वक्ष्यामि त्वां नमस्कृत्य यत्तत्सिध्यतु मे वचः ।। 1.196.१० ।।
वराह नरसिंहेश वामनेश त्रिविक्रम ।। ११ ।।
हयग्रीवेश सर्वेश हृषीकेश हराऽशुभम् ।।
अपराजित चक्राद्यैश्चतुर्भिः परमायुधैः ।। १२ ।।
अखण्डितानुभावैस्त्वं सर्वदुःखहरो भव ।।
हराऽमुकस्य दुरितं दुष्कृतं दुरुपोषितम् ।। १३ ।।
मृत्युबन्धातिभयदं दुरिष्टस्य च यत्फलम् ।।
परापध्यानसहितं प्रयुक्तं चाभिचारिकम् ।। १४।।
गरस्पर्शमहारोगप्रयोगं जरयाजर ।।
ॐनमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे ।। १५ ।।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ।।
नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।। १६ ।।
महाहवरिपुस्कन्धपृष्ठचक्राय चक्रिणे ।।
दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्तिमते नमः ।। १७ ।।
महायज्ञवराहाय शेषभोगोरुशायिने ।।
तप्तहाटककेशाय ज्वलत्पावकलोचन ।। १८ ।।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ।।
काश्यपायातिह्रस्वाय ऋग्यजुःसामरूपिणे ।। १९ ।।
तुभ्यं वामनरूपाय क्रमते गां नमोनमः ।।
वराहाऽशेषदुष्टानि सर्वपापफलानि वै ।। 1.196.२० ।।
मर्दमर्द महादंष्ट मर्दमर्द च यत्फलम् ।।
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल ।। २१ ।।
भञ्जभञ्ज निनादेन दुष्टान्भक्तार्तिनाशन ।।
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।। २२ ।।
प्रशमं सर्वदुःखानि नयैतस्य जनार्दन ।।
एकाह्निकं द्व्यह्निकं च तथा त्रिदिवसज्वरम् ।। ५३ ।।
चातुर्थिकं तथात्युग्रं तथैव सततज्वरम् ।।
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।। २४ ।।
शमं नयतु गोविन्दश्छित्त्वा छित्त्वास्य वेदनाम् ।।
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् ।। २५ ।।
अनुच्छ्वासमतिश्वासं परितापं च वेपथुम् ।।
गुदघ्राणादिरोगांश्च कुष्ठरोगं तथा क्षयम् ।। २६ ।।
कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ।।
भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम्।। २७।।
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ।।
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।। २८ ।।
कफोद्भवाश्च ये केचिद्ये केचित्सान्निपातिकाः ।।
आगन्तवश्च ये रोगा लूताविस्फोटकादयः ।। २९।।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ।।
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।।1.196.३० ।।
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः।।
अस्तुतानन्तगोविन्दनामोच्चारणभेषजात् ।। ३१ ।।
नश्यन्ति सकला रोगाः सत्यंसत्यं वदाम्यहम् ।।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।। ३२ ।।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम्।।
लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम् ।। ३३ ।।
शमं नयतु तत्सर्वं कीर्तितो हि जनार्दनः ।।
ग्रहान्प्रेतग्रहांश्चैव तथा चैवार्यकग्रहान् ।। ३४ ।।
मुखमण्डलिकान्क्रूरान्रेवतीं वृद्धरेवतीम् ।।
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।।३५।।
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ।।
वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।।३६।।
नरसिंहस्य दृष्ट्या ते दग्धा ये चापि यौवने ।।
सटाकरालवदनो नरसिंहो महारवः ।। ३७ ।।
ग्रहानशेषान्निःशेषान्करोतु जगतो हितः ।।
नरसिंह महासिंह जिह्वाज्वालोज्ज्वलानन ।। ३८ ।।
ग्रहानशेषान्सर्वेश खादखादाग्निलोचन ।।
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।। ३९ ।।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ।।
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभिकादयः ।। 1.196.४० ।।
तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन ।।
कञ्चिद्रूपं समास्थाय वासुदेवाशु नाशय ।। ४१ ।।
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् ।।
सर्वदुष्टोपशमनं कुरु देववराऽच्युत ।। ४२।।
सुदर्शन महाज्वाल च्छिन्धिच्छिन्धि च मारय ।।
सर्वाणि दुष्टरक्षांसि क्षपयाऽतिविभीषण ।। ४३ ।।
प्राच्यां प्रतीच्यां दिशि दक्षिणोत्तरतस्तथा ।।
रक्षां करोतु सर्वस्मान्नरसिंहः स्वगर्जितैः ।। ४४ ।।
भुव्यन्तरिक्षे च दिवि पार्श्वतः पृष्ठतोऽग्रतः ।।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ।। ४५ ।।
यस्माद्विष्णुर्जगत्सर्वं सदेवासुरमानुषम् ।।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ।। ४६ ।।
यथा विष्णुस्मृतौ सद्यः संक्षयं याति पातकम् ।।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ।। ४७ ।।
परमात्मा यथा विष्णुर्वेदान्तेष्वभिगीयते ।।
तेन सत्येन सकलं यन्मयोक्तं तथाऽस्तु तत् ।। ४८ ।।
शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् ।।
वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया ।। ४९ ।।
अपामार्जति गोविन्दो नरो नारायणस्तथा ।।
तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ।। 1.196.५०।।
शान्ताः समग्ररोगास्ते ग्रहाः सर्वे विषाणि च ।।
भूतानि च प्रशान्तानि संस्मृते मधुसूदने ।। ५१ ।।
एतत्समस्तरोगेषु सर्वभूतभयेषु च ।।
अपामार्जनकं शस्त्रं विष्णुनामाऽभिमन्त्रितम् ।। ५२ ।।
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ।।
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणाम्भसि ।। ५३ ।।
स्वास्थ्यमस्य सदैवाऽस्तु हृषीकेशस्य कीर्तनात् ।।
यत एवाऽऽगतं पापं तत्रैव प्रतिगच्छतु ।। ५४ ।।
एतद्रोगादिपीडासु जन्तूनां हितमिच्छता ।।
विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ।। ५५ ।।
अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् ।।
सर्वभूतहितार्थाय कुर्यात्तम्मात्सदैव हि ।। ५६ ।।
नाद्यन्तवन्तः कवयः पुराणास्सूक्ष्मा बृहन्तो ह्यनुशासितारः ।।
सर्वज्वरान्द्यन्तु तवानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः ।। ५७ ।।
एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चागतः ।।
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ।। ५८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सत्त्वबाधाप्रशमनं नाम षण्णवत्यधिकशततमोऽध्यायः ।।१९६।।
1.197
वज्र उवाच ।।
जगत्सष्टिप्रसंगेन चोर्वशीसम्भवस्त्वया ।।
कथितस्तु महाभाग तत्प्रसङ्गेन चापराः।।। ।।१।।
कथिताश्च कथा ब्रह्मन्धर्मयुक्ता मनोहराः ।।
विष्णोर्माहात्म्यसंयुक्ताः सर्वपापभयापहाः ।।२।।
कश्यपस्य तु या पत्नी खशानाम्नी त्वयेरिता।।
यस्याः पुत्रौ महात्मानौ कथितौ यक्षराक्षसौ ।। ३ ।।
तयोरुत्पत्तिमिच्छामि श्रोतुं वंशं तथैव च ।।
प्रस्तुता जगदुत्पत्तिं निखिलेन प्रकीर्तय ।।४।।
मार्कण्डेय उवाच ।।
राक्षसं पूर्वसन्ध्यायां जनयामास सा खशा ।।
दंष्ट्राकरालवदनं पिङ्गलोद्बद्धलोचनम् ।। ५ ।।
आकर्णदारिताऽस्यं च स्थूलनासाग्रमुल्बणम् ।।
विकचं विकटाटोपं शङ्कुकर्णं विभीषणम् ।। ६ ।।
तथैवापरसन्ध्यायां सैव यक्षं व्यजायत ।।
तादृशेनैव रूपेण यादृशेनैव राक्ष सम् ।। ७ ।।
क्षिणोमि मातरं यक्षः क्षुभितस्तामभाषत ।।
रक्षेति मातरं तां तु यक्षं वै राक्षसोऽब्रवीत् ।। ८ ।।
रक्षणाद्राक्षसः प्रोक्तः क्षणाद्यक्षः स उच्यते ।।
भार्या बभूव यक्षस्य देवरामा कृतस्थला ।। ९ ।।
यक्षो राजतनाभाख्यस्तस्यास्तस्य सुतः स्मृतः ।।
अनुर्ह्रादसुता भार्या तस्यासीन्नृप गुह्यका ।।1.197.१०।।
वीरो मणिचरश्चैव वीरभद्रस्तथैव च।।
तस्याः पुत्रावुभौ ख्यातौ देवतुल्यौ मनीषिणौ ।।११।।
ककुत्स्थतनये भार्ये तयोरास्तां नराधिप।।।
राजन्पुण्यजनीनाम प्रथमस्य बभूव सा ।।१२।।
तथा देवजनीनाम द्वितीयस्याऽपि यादव ।।
तस्याः पुण्यजना यक्षा देव देवजनास्तथा ।।
कथिता बहुसाहस्रा महाबलपराक्रमाः ।। १३ ।।
शुभैर्विवाहैर्नृप यक्षवंशैर्यक्षास्तु जाता बहुशीलयुक्ताः ।।
धर्मस्थिताः सत्यपरा विनीता महानुभावा वरदा वरेण्याः ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यक्षोत्पत्तिर्नाम सप्तनवत्यधिकशततमोऽध्यायः ।। १९७ ।।
1.198
मार्कण्डेय उवाच ।।
अजः षण्डः पिशाचौ द्वौ भूपाल कपिशासुतौ ।।
पिशाची ब्रह्मधानाख्या तत्राजस्य सुता मता ।।१।।
पिशाची यातुधानाख्या षण्डस्य तनया मता ।।
अजश्च राजषण्डश्च निशीथे क्षुधितावुभौ ।।२।।
बहिर्भृत्यौ तु सहितौ दृष्टवन्तौ नरेश्वर ।।
राक्षसं क्षुधिताकारं पतन्तं क्षुधितं निशि ।।३।।
गृहीतः स पिशाचाभ्यां क्षुधिताभ्यां यदा बली ।।
पृष्टः स ताभ्यां यत्नेन दृष्ट्वा तस्य तदा बलम् ।। ४ ।।
जगाद भूमिपश्रेष्ठ चोभयोर्जन्मकारणम् ।।
जन्म कर्म च तौ तस्य श्रुत्वा पिशितभोजनौ ।। ५ ।।
ददतुः कन्यके तस्य राक्षसस्य नराशिनः ।।
भार्याद्वयस्य वंशौ द्वौ राक्षसस्य प्रकीर्तितौ ।। ६ ।।
ब्रह्मधानान्वये तस्य ब्रह्मधाना निशाचराः ।।
यातुधानान्वये तस्य यातुधानाः प्रकीर्तिताः ।। ७ ।।
ब्रह्मधानान्वये जातानादौ वक्ष्यामि राक्षसान् ।।
यज्ञहा निर्धनिक्षेपा ब्रह्मपूतोऽथ निघ्नवान् ।। ८ ।।
श्वानकृत्कुन्तलः सर्पो ब्रह्मधानात्मजाः स्मृताः ।।
तेषामन्वयसम्भूताः शतशोऽथ सहस्रशः ।। ९ ।।
श्लेष्मातकवनस्थानाः कथिता ब्रह्मराक्षसाः ।।
हेतिः प्रहेतिरुग्रश्च पौरुषादो वधस्तथा ।। 1.198.१० ।।
विद्युत्स्फूर्जश्च वातश्च नसो व्याघ्रस्तथैव च ।।
सुसकृच्च करालश्च यातुधानात्मजा दश ।। ११ ।।
सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति वै ।।
तेषामन्वयसम्भूता यातुधानाः प्रकीर्तिताः ।। १२ ।।
हेतिप्रहेतिवंशौ द्वौ तव वक्ष्यामि यादव ।।
हेतिपुत्रः स्मृतो लङ्कुर्यस्य सालकटङ्कटाः ।। १३ ।।
सन्ध्यासुता स्मृता भार्या सुकेशस्तत्सुतः स्मृतः ।।
माली सुमाली च तथा माल्यवांश्च महाबलः ।। १४ ।।
सुकेशतनया ह्येते देवासुरभयङ्कराः ।।
तपसा तैः समाराध्य देवदेवं जनार्दनम् ।। १५ ।।
वीर्यमप्रतिमं प्राप्तं लङ्का चैव महापुरी ।।
सुमालितनया तत्र कैकसी नाम राक्षसी ।। १६ ।।
भार्या विश्रवसः पुत्रो यस्या रावणसंज्ञकः ।।
त्रिलोकविजयी तस्य रावणस्य दुरात्मनः ।। १७ ।।
सुमाली वसुना युद्धे धरेण विनिपातितः ।।
माली च देवदेवेन केशवेन निपातितः ।। १८ ।।
माल्यवांस्तत्र वर्षात्मा जीवत्यद्यापि यादव ।।
श्रावितौ भ्रातरौ येन पुरा देवरणोत्सुकौ ।। १९ ।।
हितं धर्म्यं शुभं वाक्यं न च तातस्य चक्रतुः ।।
तेन तौ निधनं प्राप्तौ राक्षसौ समरद्वये ।। 1.198.२० ।।
संश्रावितस्तेन तथैव वाक्यं स रावणो नाम विरोधकाले ।।
उल्लंघ्य वाक्यं निधनं जगाम धर्मे स्थितस्या प्रतिमप्रभावः ।।२१।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हेतिवंशवर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः ।।।१९८।।
1.199
मार्कण्डेय उवाच ।।
प्रहेतितनयो राजन्पुलोमा नाम विश्रुतः ।।
क्रोधदृष्ट्या तु यः शीघ्रं च्यवनेन विनाशितः ।।१।।
वज्र उवाच ।।
च्यवनेन किमर्थं वै पुलोमा राक्षसो हतः ।।
कथं च भृगुशार्दूल तन्ममाचक्ष्व पृच्छतः ।। २ ।।
मार्कण्डेय उवाच ।।
पुलोम्नो दानवेन्द्रस्य द्वे कन्ये भुवि विश्रुते।।
पुलोमा भृगवे दत्ता शची दत्ता च वासवे ।।३ ।।
कन्याभावे रुदन्तीं तु कदाचिद्यदुनन्दन ।।
पुलोमामुक्तवान्राजन्पुलोमा दानवेश्वरः ।। ४ ।।
हे रक्षः कन्यकामेतां गृह्णीष्व रुदतीं बलात् ।।
एतस्मिन्नेव काले तु पुलोम्नो भवनाजिरे ।। ५ ।।
छिद्रान्वेषी दुराचारः पुलोमा स व्यतिष्ठत ।।
अनुसृत्य च जग्राह तां कन्यां चारुलोचनाम् ।। ६ ।।
निर्भर्त्स्य तं दुराचारं पुलोमा दानवोत्तमः ।।
कालेन प्रददौ कन्यां भृगवे तां सुमध्यमाम् ।। ।७ ।।
अन्तर्वत्नीं तु रहितां भृगुणा तामनिन्दिताम् ।।
अग्निहोत्रगतां दृष्ट्वा पुलोमाग्निमथाब्रवीत् ।। ८ ।।
पौलोमी यदि मत्पूर्वा सेयं पावक शंस मे ।।
तामग्निरब्रवीत्तस्य सेयं पत्नी भृगोः शुभा ।। ९ ।।
एवमग्नेर्भृगोः श्रुत्वा तां जहार स राक्षसः ।।
तस्यां तु दृश्यमानायां गर्भः कुक्षेस्तदा च्युतः ।। 1.199.१० ।।
च्यवनाच्च्यवनो नाम बभूव स महातपाः ।।
दृष्टमात्रस्तु तेनाऽसौ पुलोमा भस्मसाद्गतः ।। ११ ।।
पुलोमाश्रुनिपातेन नदी जाता वधूवरा ।।
वह्निश्च सर्वभक्ष्यत्वं भृगुशापादुपागतः ।। १२ ।।
हुताशनस्तु संकुद्धश्शापं प्राप्य द्विजोत्तमात् ।।
लोककार्यरतिर्ब्रह्मा स्वयं वचनमब्रवीत् ।। १३ ।।
वह्ने तवार्चिभिः स्पृष्टं शुचि सर्वं भविष्यति ।।
शुचिभूतं ततः पश्चाद्भक्षयिष्यत्यसंशयम् ।। १४ ।।
एतत्तवोक्तं च्यवनस्य जन्म नाशस्तथा राक्षसपुङ्गवस्य ।।
वह्नेः शुचित्वं च तथार्चिषां वै वंशं पुलोम्नोऽथ निबोध राजन् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे च्यवनोत्पत्तिवर्णनो नाम नवनवत्यधिकशततमोऽध्यायः ।। १९९ ।।
1.200
।। मार्कण्डेय उवाच ।। ।।
पुलोम्नस्तनयः श्रीमान्मधुर्नाम निशाचरः ।।
विनिष्कृष्य स्वकाच्छूलाच्छूलं प्रादाद्वृषध्वजः ।। १ ।।
तपसा तोषितो यस्य सपुत्रस्य महात्मनः ।।
त्रैलोक्यविजयासक्ते तेन राजेन्द्र रावणे ।।२ ।।
दीक्षिते मेघनादे च तथा याते निकुम्भिलाम् ।।
अन्तर्जलगते वीरे तथैव च विभीषणे ।। ३ ।।
निद्रावशगते राजन्कुम्भकर्णे सुरद्विषि ।।
मालिनस्तनया तेन रावणस्य स्वसा हृता ।। ४ ।।
कुम्भीलसी महाभागा रूपद्रविणसंयुता ।।
यस्यामस्य सुतो जज्ञे लवणो नाम राक्षसः ।। ५ ।।
येन शूलप्रभावेण मान्धाता विनिपातितः ।।
न तस्य पुत्रो भार्या वा बभूवातिदुरात्मनः ।। ६ ।।
प्राणिनां पुरुषाद्यानां सहस्रैर्दशभिर्नृप ।।
आहारमाह्निकं तस्य भवत्यौदरिकस्य तु ।। ७ ।।
रामाज्ञया तस्य बभूव राजन्रामानुजो मृत्युरदीनसत्त्वः।।
शत्रुघ्ननामा भुवनस्य वीरो महान्तरस्थो हरिरप्रमेयः ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रहेतिवंशानुकीर्तनं नाम द्विशततमोऽध्यायः ।। २०० ।।