विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १९१-१९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १८६-१९० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १९१-१९५
वेदव्यासः
अध्यायाः १९६-२०० →

1.191
।। शक्र उवाच ।। ।।
केन कर्मविपाकेन स्वर्गता त्वं वरानने ।।
दीर्घकालमिहस्थासि तथा चैवाप्यनागतान् ।। १ ।।
कथं मन्वन्तरान्वेत्सि तन्ममाचक्ष्व पृच्छतः ।।
त्वत्समा दिवि नैवान्या काचिदस्ति चिरन्तनी ।।२।।
एकरूपः कथं कर्ता त्वया दृष्टः सुरेश्वरि ।।
मन्वन्तराणां जानासि भविष्याणां तथा गतिम् ।।३।।
शाम्बरायण्युवाच ।।
त्रिदिवे सप्तमः कल्पो ममायं त्रिदिवेश्वर।।
देवदेवप्रसादेन वसन्त्या वर्ततेऽनघ ।। ४ ।।
परार्धश्च तथा ब्राह्म्यो जनलोके गतो मम ।।
एकरूपास्तथा कल्पा मया दृष्टाः सुरेश्वर ।। ५ ।।
मन्वन्तराणां जानामि भविष्याणां तथा गतिम् ।।
मया मानुष्यमासाद्य मासनक्षत्रपूजनम ।। ६ ।।
प्रतिमासं कृतं विष्णोर्यावज्जीवं सुरेश्वर ।।
तेन कर्मविपाकेन त्रिदिवे वसतिश्चिरम् ।।
मयेयं समनुप्राप्ता देवदेवप्रसादजा ।। ७ ।।
अस्मादपि महाभाग ब्रह्मलोकं नयत्युत ।।८।।
मार्कण्डेय उवाच ।।
एतदुक्त्वा महाभाग शक्रं सा शाम्बरायणी ।।
जगामादर्शनं राजंस्तत्रैव सुरपूजिता ।।९ ।।
मासर्क्षपूजामधिकृत्य विष्णोर्मया तवेदं कथितं समग्रम् ।।
तस्मात्प्रयत्नेन नरेन्द्रचन्द्र मासर्क्षपूजां प्रयतेत कर्तुम् ।। 1.191.१० ।।
श्रोतव्यमेतत्प्रयतेन वज्र पापापहं धर्मविवृद्धिदं च ।।
संवादमग्र्यं त्रिदशेश्वरस्य सिद्धाङ्गनायाश्च परं पवित्रम् ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीकथानकं नामैकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।
1.192
।। वज्र उवाच।।
श्रुतवानस्मि धर्मज्ञ देववेश्मोपलेपने ।।
फलं गदति ते ब्रह्मञ्छ्रोतुमिच्छाम्यहं पुनः ।। १ ।।
लेपनादपि यत्स्वर्गफलदं च यथा भवेत् ।।
तन्मे कर्म त्वमाचक्ष्व सर्वज्ञोऽसि भृगूत्तम ।।२ ।।
मार्कण्डेय उवाच ।।
स्तुतिर्लघुतरा तस्य लेपनादपि यादव ।।
तथा बहुफला प्रोक्ता तां कुरुष्व यदीच्छसि ।। ३ ।।
ये स्तुवन्ति महादेवं शङ्खचक्रगदाधरम् ।।
तेषां न दुर्लभं किञ्चिदिह लोके परत्र च ।। ४ ।।
वासुदेवं स्तुवन्मर्त्यः सर्वपापं व्यपोहति ।।
स्वर्गं चानन्त्यमाप्नोति नात्र कार्या विचारणा।।५।।
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चाप्नुयाद्धनम् ।।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाः ।। ६ ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।।
भयान्मुच्येत भीतश्च मुच्येदापन्न आपदः ।। ७ ।।
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।।
स्तुवन्मनुजशार्दूल नात्र कार्या विचारणा ।। ८ ।।
तस्मात्सर्वप्रयत्नेन दिव्यैर्ऋषिकृतैः स्तवैः ।।
स्तूयान्नरेन्द्र सततं देवदेवं सुभाषितैः ।। ९।।
कमलपत्रशुभामललोचनं हरिमरिघ्नमचिन्त्यपराक्रमम् ।।
शरणमेत्य महाभयपीडिता भुवि भवन्ति नरा भयवर्जिताः ।। 1.192.१० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्तुतिमाहात्म्यवर्णनो नाम द्विनवत्यधिकशततमोऽध्यायः ।। १९२ ।।
1.193
।। मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
स्तुतेन देवदेवेन गजेन्द्रस्य तु यत्कृतम् ।। १ ।।
पुरा वज्र महाबाहू गन्धर्वौ यौ हाहा हूहू ।।
गीतैः परस्परं स्पर्धां चक्रतुस्तौ परन्तप ।।२ ।।
स्पर्धमानौ परं राजंश्चक्रतुस्तौ परस्परम् ।।
आवयोः प्राश्निकः साधुः कोऽस्मिँल्लोके भविष्यति ।। ३ ।।
तयोरथाहुर्गन्धर्वा देवलोऽयं भविष्यति ।।
एवमुक्तौ ततस्तौ तु नेच्छेतां देवलं मुनिम् ।। ४ ।।
नायं जानाति गीतस्य विशेषमिति मोहितौ ।।
तौ शशाप महाक्रुद्धो देवलः सुमहातपाः ।। ५ ।।
अवज्ञा जानतो यस्माद्भवद्भ्यां मम वै कृता ।।
तस्माच्छापं प्रदास्यामि युवयोर्देवगायनौ ।। ६ ।।
हाहा भविष्यति करी हूहू नक्रो भविष्यति ।।
नक्रं च देवदेवेशो गजाकर्षणतत्परम् ।। ७ ।।
नागस्तुतस्तु चक्रेण द्विधा कर्ता तदा युवाम् ।।
उभौ स्व लप्स्यथो रूपं शापस्यान्ते तु गायनौ ।। ८ ।।
शापेन तौ तस्य ततस्तु जातौ मया यथोक्तौ तव राजसिंह ।।
गजस्तु तेनापि जनार्दनेन सम्मोचितौ तौ द्विजवर्यशापात् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वयोर्गजनक्रीकरणं नाम त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।। ।।
1.194
।। वज्र उवाच ।। ।।
भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् ।।
विस्तरेण महाभाग शापान्नक्रस्य चोभयोः ।। १ ।।
मार्कण्डेय उवाच ।।
अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः ।।
महाधातुसमुन्नद्धैर्युतः शृङ्गैर्नभङ्कषैः ।। २ ।।
यस्य शृङ्गत्रयं मध्यं भाति राजन्विशेषवत् ।।
ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम् ।। ३ ।।
तेषामथैकं सौवर्णमपरं राजतं महत् ।।
सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम् ।। ४ ।।
काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् ।।
त्रिकूटं शैलराजाभं रत्नपक्षद्रुमैर्युतम् ।। ५ ।।
न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।।
नातप्ततपसः केचिन्नैव पापकृतो जनाः ।। ६ ।।
तस्य सानुमतः पृष्ठे सरो व्याकोशपङ्कजम् ।।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ।।७।।
सच्चित्तमिव गम्भीरं सच्चित्तमिव निर्मलम् ।।
बहूपयोग्यं च तथा सतान्निष्कृतिकृन्नृप ।। ८ ।।
मीनच्छिन्नाभ्रशकलस्फुटकह्लारतारकम् ।।
महाकुमुदरात्रीशं द्वितीयमिव चाम्बरम् ।। ९ ।।
उत्फुल्लपद्मरजसा मधुपैः परि पिञ्जरैः ।।
समन्ताद्व्याप्य सत्पद्मं तपनीयसमैरिव ।। 1.194.१० ।।
च्युतेन पद्माद्रजसा हंसैः केशरमन्थनैः ।।
वायुना भ्राम्यमाणेन दुर्विभाव्योदकोम्बुजम् ।। ११ ।।
महान्तः पद्मिनीपत्रा वायुभ्रस्ताभ्रशीकरैः ।।
युक्ता मुक्ताफलाकारैर्यत्र भान्ति सहस्रशः ।। १२ ।।
नृत्यन्ति कमला यत्र शफरी स्फुरणाहताः ।।
भ्रमरोद्गीतसंघोषै रसत्सारसनादिकम् ।। १३ ।।
हसन्तमिव हंसौघैर्नृत्यन्तमिव चोर्मिभि ।।
उद्गीथमिव कुर्वाणं कारण्डवरवैः शुभैः ।। १४ ।।
मध्ये त्वगाधं चतुरः प्रतीहारैरिवोद्धतैः ।।
उत्सारयन्तं कल्लोलैर्वायुक्षिप्तद्रुमोद्भवान् ।। १५ ।।
भ्रमरान्तरसंलीनकह्लारकुसुमा्क्षुभिः।।
पश्यन्तमिव शैलस्य शृङ्गाणां तन्महोच्छ्रयम् ।। १६ ।।
यत्रातिशीतलं तोयं लघु स्वादु सुधानिभम् ।।
अन्यच्छ्रङ्गं मनोहारि भृङ्गनाद निनादितम् ।। १७ ।।
तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः ।।
हूहूर्जगाम ग्राहत्वं शापाद्वै देवलस्य तु ।। १८ ।।
तस्मिन्नेव तथा शैले हाहा गन्धर्वसत्तमः ।।
बभूव यूथपो हस्ती चलत्पर्वतसन्निभः ।। १९ ।।
अथ दन्तोज्ज्वलवपुः कदाचिद्गजयूथपः ।।
आजगाम महीपाल चोत्फुल्ल कमलं सरः ।। 1.194.२० ।।
वंशदण्डैः स कलभैर्वृतश्चैव कररेणुभिः ।।
वासयन्मदगन्धेन तं त्रिकूटं महीधरम् ।। २१ ।।
स गजोऽञ्जनसंकाशो मदाकुञ्चितलोचनः ।।
सलीलं पङ्कजवने यूथमध्यगतो व्रजम्। २२ ।।
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।।
पश्यतः सर्वयूथस्य क्रोशतश्चाति दारुणम् ।। २३ ।।
स चकार महायत्नमात्मनः परिमोक्षणे ।।
ग्राहोऽपि यत्नमातिष्ठत्कुञ्जराकर्षणे महान् ।। २४ ।।
ग्राहोऽपि बलिनं नागं न शशाक महाम्भसि ।।
आक्रष्टुं न च नागोऽपि तथात्मानं विमोक्षितुम् ।। २५ ।।
विस्फूर्ज्य च यथाशक्ति विक्रुष्य च महारवान् ।।
व्यथितः स निरुद्योगः पश्चिमामागतो दशाम् ।।२६।।
स तु नागवरः श्रीमान्नारायणपरायणः ।।
जगाम शरणं विष्णुं तुष्टाव च परन्तपः।।२७।।
गृहीत्वा स कराग्रेण सरसः कमलोत्तमम् ।।
निवेद्य भक्त्या कृष्णाय गजः स्तोत्रमुदीरयत् ।।२८।।
गज उवाच ।।
नमोनमः कारणवामनाय नारायणायासुरदारणाय ।।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ।। २९ ।
आद्याय वेदनिलयाय महोरगाय सिंहाय दैत्यनिलयाय चतुर्भुजाय ।।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ।। 1.194.३० ।।
नागेन्द्रभोगशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ।।
पीताम्बराय मधुकैटभनाशनाय भक्तप्रियाय वरदीप्तसुदर्शनाय ।। ३१ ।।
नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय ।।
नानाविचित्र मुकुटाङ्गदभूषणाय सर्वेश्वराय विजयाय नमो वराय ।। ३२ ।।
(विश्वात्मने परमकारणकारणाय फुल्लारविन्दविपुलायतलोचनाय ।।
देवेन्द्रभावन परीक्षितपौरुषाय योगीश्वराय विजयाय नमो वराय ।।३३।।)
लोकायनाय त्रिदशायनाय ब्रह्मायणायात्मगुणायनाय ।।
धर्मायणायैकजनायनाय महावराहाय सदा नतोऽस्मि।।३४।।
अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ।।
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ।। ।। ३५ ।।
अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मनिधिं सुरेशम् ।।
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ।। ३६ ।।
यमक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ।।
तमीश्वरं दृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैति शाश्वतम् ।। ३७ ।।
कार्यक्रियाकारणमप्रमेयं हिर ण्यनाभं कनकारविन्दम् ।।
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ।। ३८ ।।
विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्व गात्रम् ।।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ।। ३९ ।।
भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ।।
आदित्यचन्द्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मभूतम् ।। 1.194.४० ।।
श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् ।।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ।। ४१ ।।
प्रभवं सर्वलोकानां निर्गुणं च गुणात्मनाम् ।।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ।। ४२ ।।
भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् ।।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ।। ४३ ।।
ब्रह्मादेशं त्रिलोकेशमाद्यमेकमनामयम् ।।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ।। ४४ ।।
क्षेत्रज्ञं पुरुषं विष्णुं त्रिगुणातीतमव्ययम् ।।
नारायणमणीयांसं प्रपद्ये शरणं हरिम् ।। ४५ ।।
एकाय लोकतन्त्राय परतः परमात्मने ।।
नमः सहस्रशिरसे अनन्ताय महात्मने ।। ४६ ।।
वरेण्यमनघं देवमृषयो वेदपारगाः ।।
कीर्तयन्त्यभवं सर्वे तं प्रपद्ये सनातनम् ।। ४७ ।।
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणाऽगतम् ।। ४८ ।।
मार्कण्डेय उवाच ।।
भक्तिं तस्य तु सञ्चिन्त्य नागस्याऽमोघसंस्तवः ।।
प्रीतिमानभवद्राजन्सद्यश्चक्रगदाधरः ।। ४९ ।।
सान्निध्यं कल्पयामास ग्राहं चक्रेण माधवः ।।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ।। 1.194.५० ।।
स हि देवलशापेन हाहा गन्धर्वसत्तमः ।।
गजत्वमभवत्त्यक्त्वा मोक्षं प्राप्य दिवं गतः ।।५१।।
ग्राहाद्विमुक्तः सद्यस्तु गजो गन्धर्वतां गतः ।।
ग्राहो गन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ।। ।। ५२ ।।
तस्यापि देवलकृतः शापदोषोऽभवत्पुरा ।।
प्रीतिमांस्त्रायते विष्णुः सद्यः संसारसागरात् ।। ।। ५३ ।।
कुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ।।
तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ।। ५४ ।।
गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागतौ ।।
इदं चैव महाबाहो पुरा देवोऽभ्यभाषत ।। ५५ ।।
दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः ।।
योऽग्रहीन्नागराजं च मां चैव प्रणिधानवान् ।। ५६ ।।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ।।
गुल्मं कीचकवेणूनामिमं शैलवरं तथा ।। ५७ ।।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ।।
प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च ।। ५८ ।।
संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये ।।
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ।। ५९ ।।
सर्वपापैर्विमोक्ष्यन्ति कल्याणानां च भागिनः ।।
भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ।। 1.194.६० ।।
दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति ।।
कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ।। ६१ ।।
नारसिंहं तथा रूपं सृष्टिप्रलयकारकम् ।।
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।। ६२ ।।
सर्वपापैर्विशुद्धास्ते यास्यन्ति परमां गतिम् ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ।। ६३ ।।
अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च ।।
तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ ।। ६४ ।।
विमानेऽभिमते प्राप्ते जग्मतुस्त्रिदशालयम् ।।
तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ।। ६५ ।।
ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः ।।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिर्विभुः ।। ६६ ।।
गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रपुरोगमाः ।।
ब्राह्मणानग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन् ।। ६७ ।।
गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् ।।
श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ।। ६८ ।।
श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च ।।
गजेन्द्रमोक्षणेनैव दीर्घमायुरवाप्नुयात् ।। ६९ ।।
मया ते कथितं दिव्यं पवित्रं पापनाशनम् ।।
( कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ।। 1.194.७० ।।)
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ।।७१।।
वरं वरेण्यं वरपद्मनाभं नारायणं पद्मनिधिं सुरेशम् ।।
तं देवगुह्यं पुरुषं पुराणं ववन्दिरे ब्रह्मविदां वरिष्ठाः ।। ७२ ।।
एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मिणाम् ।।
दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ।। ७३ ।।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ।।
तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् ।। ७४ ।।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ।।७४।।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ।।
1.195
।। वज्र उवाच ।।
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः ।।
यथा निर्धूतवीर्योऽसौ निस्तरो रजनीचरः ।। १ ।।
मार्कण्डेय उवाच ।।
एकाग्रचित्तो गोविन्दे तज्जपँस्तत्परायणः ।।
सर्वदुष्टोपशमनं प्रविष्टो विष्णुपञ्जरम् ।। २ ।।
वज्र उवाच ।।
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर ।।
सदा सर्वभयेभ्यस्तु रक्षायां परमा भवेत् ।। ३ ।।
मार्कण्डेय उवाच ।।
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् ।।
शङ्करस्य यदुश्रेष्ठ रक्षणाय निरूपितम् ।। ४ ।।
वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः ।।
तस्य स्वरूपं वक्ष्यामि तन्निबोध महीपते ।। ५ ।।
विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ।।
प्रतीच्यां शार्ङ्गभृद्विप्णुर्विष्णुः खड्गी ममोत्तरे ।। ६ ।।
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।।
क्रोडरूपी हरिर्भूमौ हन्तुं प्रेतनिशाचरान्।।७।।
गदा चेयं सहस्रांशुरुद्वमत्पावकोल्बणा ।।
रक्षोभूतपिशाचानां डाकिनीनां च शातनी ।। ८ ।।
शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः ।। ९ ।।
खड्गधारामलज्योत्स्ना निर्धूता ये समाहिताः ।।
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ।। 1.195.१० ।।
( ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः ।।
प्रेता विनायकाः क्रूरा मनुष्या जम्बुकाः खगाः ।। ।। ११ ।।
सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः ।।
सर्वे भवन्तु ते सौम्याः कृष्णशार्ङ्गरवाहताः ।। १२ ।।
चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।।
बलौजसां च हन्तारश्छायाविभ्रंशकाश्च ये ।। १३ ।।
ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः ।। १४ ।।
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ।। १५ ।।
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।।
तमीड्यमीशानमनन्तविक्रमं जनार्दनं प्रणिपतितो न सीदति ।। १६ ।।
यथा परम्ब्रह्म हरिस्तथा परं जगत्स्वरूपं च स एव केशवः ।।
सत्येन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विष्णुपञ्जरस्तोत्रवर्णनंनाम पञ्चनवनवत्यधिकशततमोऽध्यायः ।। १९५ ।।