सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १७१-१७५

विकिस्रोतः तः
← अध्यायः १७० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १७१-१७५
वेदव्यासः
अध्यायाः १७६-१८० →

1.171
।। वज्र उवाच ।। ।।
स तु राजा मया ब्रह्मन्मांधाता भुवनेश्वरः ।।
माहेश्वरेण शूलेन लवणेन हतः श्रुतः ।। १ ।।
मार्कण्डेय उवाच ।।
अजेयं वैष्णवं तेजस्तत्र नित्यं च जन्तुषु ।।
नाशमायान्ति ते सर्वे हीना वैष्णव तेजसा ।।२ ।।
अविनाशि जगत्यस्मिन्न किञ्चिदथ विद्यते ।।
ऋते तु महतस्तस्मात्तेजसो नृप वैष्णवात् ।। ३ ।।
तेजस्तस्य सुदुर्वाह्यं देहिभिर्नप सर्वदा ।।
तस्मात्तेन विहीनास्ते क्षयं गच्छन्ति मानद ।। ४ ।।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।।
ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः ।। ५ ।।
एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ।।
गजच्छायानुमानेन वियुज्यन्ते च तेजसा ।। ६ ।।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ।।
पञ्चभूतात्मकं स्थूलं यत्किञ्चिज्जगतीगतम् ।। ७ ।।
सर्वं विनाशि तज्ज्ञेयं त्वया पार्थिवसत्तम ।।
अविनाशि तु तद्विद्धि येन विश्वमिदं ततम् ।। ८ ।।
यत्तु गन्धगुणैर्हीनं रूपस्पर्शविवर्जितम् ।।
शब्दहीनं च विरसं सर्वेशं सर्वगं च यत् ।। ९ ।।
निर्गुणं तद्गुणातीतमन्तिकस्थं च दूरगम् ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।। 1.171.१० ।।
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।।
सर्वेन्द्रियगुणं देवं सर्वतः परमेश्वरम् ।।११।।
अविनाशि तदेवैकं यस्योदरगतं जगत् ।।
सदाशिवेति तं केचिदाहुर्देवं जगत्पतिम् ।।१२।।
वासुदेवेति चाप्यन्ये कालमित्येव चापरे।।
देवमित्यपरे तं च स्वभावमिति चापरे ।। १३ ।।
कर्मेति चापरे प्राहुः पुरुषेति तथा परे ।।
प्रणवाख्यं तथा तं च विदुर्वेदविदो जनाः ।। १४ ।।
तदेकमजमव्यक्तमविनाशं नराधिप ।।
ऋते तमेकमीशानमंतवत्सकलं जगत् ।। १५ ।।
एतत्तवोक्तं भुवनस्य पत्युर्मया स्वरूपं यदुवंशचन्द्र ।।
भक्तिं विना बुद्धिमतापि यस्य शक्यं न वक्तुं ग्रहणं नरेण ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरुष स्वरूपवर्णनं नामैकसप्तत्यधिकशततमोऽध्यायः ।। १७१ ।।
1.172
।। वज्र उवाच ।।
प्रादुर्भावा वराहाद्याः सर्वेशस्यामितात्मनः ।।
महाभूतचयाः सर्वे जन्ममृत्युयुताश्च ये ।। १ ।।
यद्येवं प्राणिभिस्तेषां को विशेषो भृगूत्तम ।।
एतत्त्वं संशयं छिन्धि परं कौतूहलं हि मे ।। २ ।।
मार्कण्डेय उवाच ।।
सर्वे जीवा महीपाल कर्मबन्धनिबन्धनाः ।।
जायन्ते च म्रियन्ते च परतन्त्राः सदैव च ।। ३ ।।
ईश्वरप्रेरितैर्नित्यं कर्मबन्धैः शुभाशुभैः ।।
जन्मान्तरकृतैर्भूप सुखदुःखसमन्विताः ।। ४ ।।
वासुदेवस्तु धर्मात्मा प्रादुर्भावेषु यादव ।।
आत्मनः स्वेच्छया जन्म विधत्ते मरणं तथा ।। ५ ।।
कर्माणि न च लिम्पन्ति प्रादुर्भावेष्वपि प्रभुम् ।।
कर्मस्वपि सदा सक्तं पद्मपत्रमिवाम्भसा ।। ६ ।।
फलानां कर्मजातानां भोगं तत्रापि यादव ।।
नृणां दर्शयते मिथ्या मर्यादाभेदभीर्नृप ।। ७ ।।
यदायदा हि धर्मस्य ग्लानिर्भवति यादव ।।
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ।। ८ ।।
देवतिर्यङ्मनुष्येषु गन्धर्वोरगपक्षिषु ।।
योनिष्वन्येष्वपि तथा बुद्ध्वा कार्यबलाबलम् ।। ९ ।।
यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ।।
तद्योनिसदृशं तत्स तदा लोके विचेष्टते ।। 1.172.१० ।।
संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ।।
तद्योनिसदृशोपायैर्वध्यान्हिंसति यादव ।। ११ ।।
हार्दं तमस्तथा नैशं मूर्तं च पुरुषोत्तमः ।।
एक एव स लोकानां नाशयत्यमलद्युतिः ।। १२ ।।
हार्दं ध्वस्तं तमस्तेन जगतो देवमूर्तिना ।।
ज्योतीरूपेण च ध्वस्तं तमो नैशं सुदारुणम् ।। १३ ।।
तमो नाशयितुं मूर्तं प्रादुर्भावगतः सदा ।।
मूर्तं तमश्च राजेन्द्र दैत्यदानवराक्षसाः ।। १४ ।।
वन्ध्यानामपि दैत्यानां देहस्थोऽपि जनार्दनः ।।
न विमुञ्चति देहानि युक्त्या तांश्च जिघांसति ।। १५ ।।
दैवतानां गुरूणां च द्विजानां च गुरुप्रियः ।।
शास्त्रदृष्टेन विधिना भवत्याराधने रतः ।। १६ ।।
न च तस्यास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।।
नैवानाप्तमवाप्तव्यं वर्ततेऽथ च कर्मसु ।। १७ ।।
सर्वज्ञः सर्वदर्शी च सर्वशक्तिरपि प्रभुः ।।
तथाप्यधीते यजते तपस्तप्यति पार्थिव ।। १८ ।।
मर्यादास्थापनार्थाय जगतो हितकाम्यया ।।
करोति राजन्कर्माणि कीनाश इव दुर्बलः ।। १९ ।।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।।
स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते ।। 1.172.२० ।।
एतत्कारणमास्थाय सदा कर्मसु वर्तते ।।
प्रादुर्भावकृतो विष्णुर्यथान्यः प्राकृतस्तथा ।। २१ ।।
देवेभ्यश्च ऋषिभ्यश्च वरान्प्रार्थयते सदा ।।
वरांश्च वरदस्तेषां मानयत्यपि पाण्डव ।। २२ ।।
प्रादुर्भावरतस्तस्मात्परोऽयमिति मानवाः ।।
पुरुषं नाधिगच्छन्ति मोहितास्तस्य मायया ।। २३ ।।
प्रादुर्भावं गतोऽप्येवं संहत्य स चराचरम् ।।
निमेषान्तरमात्त्रेण शक्तिमाञ्जगतः प्रभुः ।।२४ ।।
प्रादुर्भावगतस्यापि तस्य सर्वगता स्मृता ।।
स्वतन्त्रता च सर्वत्र नात्र कार्या विचारणा ।। २५ ।।
महद्विशेषमेतत्ते प्राणिभिः प्राणिनां पतेः ।।
मयोक्तं तस्य देवस्य सर्वगस्य स्वयम्भुवः ।। २६ ।।
आक्षिप्ताः कर्मभिः पुण्यैः कैश्चिद्यदुवरोत्तम ।।
तेषामाविशते देवस्तेजसा तेन सर्वशः ।। २७ ।।
आविष्टास्तेजसा तेन देवेन परमेष्ठिना ।।
तद्वत्कर्माणि कुर्वन्ति पूज्यमाना महर्षिभिः ।। २८ ।।
तथा तु काले संन्यस्तास्तेन वैष्णवतेजसा ।।
दिष्टान्तवशमायान्ति तस्यैव रुचितं यथा ।। २९ ।।
ये च केचन लोकेऽस्मिन्दृश्यन्ते तेजसान्विताः ।।
तेषां तद्वैष्णवं तेजस्त्वया ज्ञेयं महीपते ।। 1.172.३० ।।
यच्चन्द्रमसि यच्चाग्नौ यच्च सूर्ये जगत्पतौ ।।
तेजः पश्यति तत्सर्वं वैष्णवं विद्धि पार्थिव ।। ३१ ।।
अगस्त्यप्रमुखानां च या च शक्तिरतीन्द्रिया ।।
तत्स्थस्य राजन्सा ज्ञेया त्वया वैष्णवतेजसा ।। ३२ ।।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।।
तत्तदेवावगच्छ त्वं युक्तं वैष्णवतेजसा ।। ३३ ।।
ब्राह्मणानां सुराणां च साध्वीनां च तथा गवाम् ।।
जगतां धारिणीं शक्तिं विद्धि तां वैष्णवीं विभो ।।३४।।
राजानस्तेजसा युक्ता वैष्णवेन वसुन्धराम् ।।
पालयन्ति महीपाल वीर्योदग्रा यशस्विनः ।। ३५ ।।
ऋषयश्च तथा विप्रा वेदवेदाङ्गपारगाः ।।
पालयन्ति जगत्कृत्स्नं युक्ता वैष्णवतेजसा ।।३६।।
त्रेतायुगादौ ये केचिज्जायन्ते चक्रवर्तिनः ।।
गुरुणा विद्धि तान्सर्वान्संयुक्तान्विष्णुतेजसा ।।३७।।
आजानुबाहवः सर्वे न्यग्रोधपरिमण्डलाः ।।
जिह्वया सकलं वक्त्रं परिमार्जन्ति ते तथा ।।३८।।
षष्ट्या दन्तैश्च संयुक्ता दंष्ट्राभिश्च तथाष्टभिः ।।
और्णेयं च शुभं तेषां भवत्यन्तर्भ्रुवोर्नृप।।३९।।
चक्राङ्कितैः पादतलैः करैश्चापि शराङ्कितैः ।।
जालपादकराश्चैव तथा तुरगमेहनाः ।।1.172.४०।।
रूपवन्तः प्रभावन्तो वपुष्मन्तश्च यादव ।।
अतीन्द्रियज्ञानबलाः पृथिव्यां चक्रवर्तिनः।।४१।।
तेषां तु सप्त रत्नानि भवन्तीह महीतले।।
हस्त्यश्वरथरत्नानि भार्यारत्नं तथैव च ।।४२।।
तथैवायुधरत्नं च मणिरत्ननिधिस्तथा ।।
चतस्रश्चाप्रतिहतास्तेषां तु गतयस्तथा।।४३।।
पाताले गगने शैले समुद्रे च महीपते।।
समुद्रः स्तम्भितजलः प्रयाणे चक्रवर्तिनाम् ।। ४४ ।।
भूसमाश्च तथा शैला मार्गे तेषां भवन्ति तु ।।
भूमिर्ददाति विवरं पातालमुपयास्यताम् ।। ४५ ।।
न विषीदन्ति गगने तथा तेषां तुरङ्गमाः ।।
श्रुतेन तपसा यज्ञैर्वीर्येणास्त्रबलेन च ।। ४६ ।।
सर्वेभ्यस्तेऽतिरिच्यन्ते प्राणिभ्यो मनुजेश्वर ।।
आराधितजगन्नाथाः प्राप्नुवन्तीह तत्पदम् ।। ४७ ।।
वर्षायुतानि जीवन्ति षडष्टौ सप्त वा नृप ।।
तेषां च तेजसा विष्णुः करोत्याप्यायनं सदा ।। ४८ ।।
येन ते कथितं सर्वं प्राप्नुवन्ति गुणोदयम् ।।
स्थानान्तरगतेनापि तेऽपि वैष्णवतेजसा ।। ४९ ।।
संहारमुपगच्छन्ति क्षयकाल उपस्थिते ।।
क्षयकाले च मान्धातुस्तेजस्तदतिदुःसहम् ।। 1.172.५० ।।
वैष्णवं शूलिशूलाग्रमाश्रयामास यादव ।।
अर्जुनस्य नरेन्द्रस्य युक्तस्य हरितेजसा ।। ५१ ।।
हरिरेवान्तकृच्चासीद्रामो भृगुकुलोद्वह ।।
भार्गवस्य च रामस्य तेजस्तदतिदुःसहम् ।। ५२ ।।
आदत्ते वैष्णवं घोरं रामो दशरथात्मजः ।।
काञ्चित्तनुमधिष्ठाय तेन घोरेण तेजसा ।। ५३ ।।
करोति देवकार्याणि कृतकर्मा ततः प्रभुः ।।
आदानं तेजसस्तस्य विधत्ते स स्वतेजसा ।। ५४ ।।
नान्यः शमयिता लोके नृप वैष्णवतेजसः ।।५५।।
तस्यावतारेषु मया स्वरूपमेतत्तवोक्तं भुवनस्य पत्युः ।।
रहस्यमेतत्परमं मुनीनां ज्ञानामृतं कल्मषनाशकारि ।। ५६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे प्रादुभावस्वरूपवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ।। १७२ ।।
1.173
वज्र उवाच ।।
युवनाश्वेन यद्राज्ञा पुत्रीयं तु कृतं व्रतम् ।।
तमहं श्रोतुमिच्छामि जनानां हितकाम्यया ।। १ ।।
मार्कण्डेय उवाच ।।
पुत्रीयं ते प्रवक्ष्यामि व्रतं भूपाल सत्तम ।।
अनन्तव्रतमित्युक्तं सेवतां पुत्रजन्मदम् ।। २ ।।
मासिमासि तु नक्षत्रं मासनाम्ना तु चिह्नितम् ।।
सम्प्राप्य पूजयेद्देवं सोपवासो नरोत्तम ।। ३ ।।
एकैकमङ्गं देवस्य प्रतिमासं विशेषतः ।।
पूजयेत्प्रयतः शुद्धः शृणु चाङ्गक्रमं मम ।। ४ ।।
मार्गशीर्षादथारभ्य व्रतमेतत्समारभेत् ।।
देवस्य मार्गशीर्षे तु वामं जानुं समर्चयेत्।।५ ।।
कटिभागं तथा वामं पौषे मासि समर्चयेत् ।।
माघे मघासु वामं च भुजं देवस्य पूजयेत् ।।६।।
उत्तराफल्गुनीऋक्षे स्कन्धं वामं प्रपूजयेत् ।।
चतुर्ष्वेतेषु वामेषु गोमूत्रस्नानमाचरेत् ।। ७ ।।
पूजनं देवदेवस्य रक्तैः पुष्पादिभिस्तथा ।।
होमो घृतेन कर्तव्यस्तिलदानं द्विजातिषु ।। ८ ।।
ताम्रस्य च तथा दानं गोमूत्रप्राशनं ततः ।।
हविष्यान्नेन चाहारं ततः कार्यं विजानता ।। ९ ।।
देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् ।।
वैशाखे च विशाखासु बाहुं देवस्य दक्षिणम् ।। 1.173.१० ।।
दक्षिणं कटिभागं च ज्येष्ठे ज्येष्ठासु पूजयेत् ।।
दक्षिणं च तथा जानुमाषाढे वैश्वदेवके ५१ १।।
चतुर्ष्वेतेषु मासेषु क्षीरस्नानं विधीयते ।।
पीतपुष्पादिपूजा च देवदेवस्य चक्रिणः ।। १२ ।।
होमं च शालिभिः कुर्याद्यवा देया द्विजातिषु ।।
रजतं च तथा देयं यथान्नेन भुजिक्रिया ।।१३।।
तथा कार्या मनुष्येन्द्र श्रावणे्श्रावणे ततः ।।
पादादौ पूजयेत्तस्य यस्येदं सकलं जगत् ।। १४ ।।
गुप्तं भाद्रपदे मासि आश्विने हृदयं ततः ।।
शिरसः पूजनं कार्यं कार्तिके कृत्तिकासु च ।। १५ ।।
चतुर्ष्वेतेषु एतेषु मासेषु दध्ना स्नानं विधीयते ।।
पूजनं देवदेवस्य शुक्लैः पुष्पादिभिस्तथा ।। १६ ।।
क्षीरेण होमः कर्तव्यो घृतं देयं द्विजातिषु ।।
सुवर्णं तु तथा राजन्दध्ना कार्यां भुजिक्रिया ।। १७ ।।
अनन्तनाम जप्तव्यं सर्वमासेषु पार्थिव।।
तेनैव नाम्ना देवस्य होमकर्माणि निर्दिशेत् ।। १८ ।।
व्रतावसाने दातव्यं ब्राह्मणेभ्यस्तु भोजनम् ।।
दानं शक्त्या च दातव्यं ब्राह्मणेभ्यो नराधिप ।। १९ ।।
संवत्सरादवाप्नोति सर्वानेव मनोरथान् ।।
पुत्रार्थिभिर्वृत्तिकामैर्भृत्यदारधनेप्सुभिः ।। 1.173.२० ।।
प्रार्थयद्भिश्च कर्तव्यं बलमारोग्यसम्पदम् ।।
एतद्व्रतं महाराज पुण्यं स्वस्त्ययनं परम् ।। २१ ।।
अनन्तव्रतमित्युक्तं सर्वकल्मषनाशनम् ।।
व्रतमेतत्पुरा कृत्वा युवनाश्वो महीपतिः ।।२२ ।।
मान्धातारं सुतं लेभे राजानं चक्रवर्तिनम् ।।
कृतवीर्यस्य राजेन्द्र भार्या शीलधरा तथा ।। २३ ।।
व्रतेनानेन सा लेभे पुत्रं बाहुसहस्रिणम् ।।
कार्तवीर्यार्जुनं नाम राजानं चक्रवर्तिनम् ।। २४ ।।
यमाविवेश भगवांस्तेजसा स्वेन माधवः ।।
नमस्ते कार्तवीर्याय अर्जुनाय महात्मने ।। २५ ।।
सप्तद्वीपसमुद्रायां मेदिन्यामीश्वराय च ।।
एतावदुक्ता पुण्येन तिलप्रस्थस्य युज्यते ।।२६।।
राजन्दत्तस्य विधिवद्ब्राह्मणाय यतात्मने ।।
यस्य वै जातमात्रस्य प्रववावनिलः शुभः ।। २७ ।।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत्।।
समाश्रयार्थं नृपतिं दैत्या मानुष्यतां गताः ।।२८ ।।
आश्रयामासुरव्यग्राश्शतशोऽथ सहस्रशः ।।
यस्मिन्राजन्वतीवार्ता भूमिर्भारावपीडिता ।।
दधार कृच्छ्रेणात्मानं जलाविलवपुर्नृप ।।२९।।
पुत्रीयमेतत्तव राजसिंह मया व्रतं ते कथितं पुराणम् ।।
कर्तव्यमेतद्भुवि पुत्रकामैः पापापहं धर्मविवर्धनं च।।1.173.३०।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽनन्तव्रतमाहात्म्यवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः।।१७३।।
1.174
।। मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि मासनक्षत्रपूजनम् ।।
यत्फलं देवदेवस्य पुरुषः समुपाश्नुते ।। १ ।।
आरभ्य कार्तिकादेतद्व्रतं कार्यं विजानता ।।
पारणत्रितयेनैतद्व्रतं परिसमाप्यते ।। २ ।।
चातुर्मास्यं तथैवात्र पारणं नृप कीर्तितम् ।।
पारणेपारणे राजन्प्रतिमासविधिं शृणु ।। ३ ।।
पञ्चगव्यजलस्नानं सदैव च समाचरेत् ।।
पुष्पादिपूजा कर्तव्या यथालाभमुपाहृतैः ।। ४ ।।
नैवेद्यं कृसरं पूर्वमत्र मासचतुष्टयम् ।।
यावकेन तथा कार्यं मध्यमं च चतुष्टयम् ।। ५ ।।
चतुष्टये तृतीये च नैवेद्यं पायसं भवेत् ।।
तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः ।। ६ ।।
नक्तं नैवेद्यमश्नीयाद्वाग्यतः सुसमाहितः ।।
संयतस्तां भवेद्रात्रिं तथा स्थण्डिलशायकः ।। ७ ।।
एवं कुर्यात्पुनस्तावद्यावत्कार्तिककृत्तिका ।।
तत्र सम्पूज्य देवेशमारम्भ विधिना नृप ।। ८ ।।
भाजनं घृतसंपूर्णं सहिरण्यं द्विजातये ।।
दातव्यं भोजनं कार्यं ब्राह्मणानां विशेषतः ।। ९ ।।
संवत्सरमिदं कृत्वा व्रतं पुरुष सत्तमः ।।
लब्ध्वा स्थानं च मोदेत तथा नारी च यादव ।। 1.174.१० ।।
स्थिरां श्रियं धर्ममतिं बलं च सौभाग्यमोजः स्थिरसत्त्वतां च ।।
आस्थां सुदीर्घां त्रिदिवे च कुर्याद्व्रतं नृणामेतदतीव पुण्यम् ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मासनक्षत्रपूजनं नाम चतुस्सप्त त्यधिकशततमोऽध्यायः ।। १७४ ।।
1.175
।। मार्कण्डेय उवाच ।।
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ।।
स्वर्गे वृत्तां समाश्रित्य मासनक्षत्र पूजनम् ।। १ ।।
पूर्वैस्तु चरितं शक्र नाहं जानामि किञ्चन ।।
भवतः समकालीनं विद्धि मां सुरसत्तम ।।२ ।।
इयं सिद्धा विजानाति प्रख्याता शाम्बरायणी ।।
एवमुक्तस्ततः शक्रः पप्रच्छ बलसूदनः ।। ३ ।।
जगाद सा च शक्रस्य पूर्वेन्द्रचरितं महत् ।।
शक्राणां सा व्यतीतानां शतशोऽथ सहस्रशः ।। ४ ।।
जगाद तत्र चरितं कल्पेष्वन्येष्वपि प्रभो ।।
शाम्बरायण्युवाच ।।
सर्वेषामपि शक्राणां ये तु दायादबान्धवाः ।। ५।।
सर्वे विनाशितास्तेन विष्णुना प्रभविष्णुना ।।
सर्वे शक्रास्तथा युक्तास्तेन वैष्णवतेजसा ।। ६।।
भूतेभ्यस्त्वतिरिच्यन्ते तेन ते गुणसम्पदः ।।
दानेन यज्ञैः शौर्येण तपसा च बलेन च ।। ७ ।।
श्रुतेन धर्मिष्ठतया देवदैत्यमहोरगान् ।।
ऋषयश्च महाभागास्तेपि पार्थिवसत्तम ।। ८ ।।
वरं सम्पावनं तैश्च कृतं सर्वं स्वयंभुवा ।।
पराजयं यतः प्राप्ता दायादेभ्यः पुनःपुनः ।। ९ ।।
सर्वेश्वरा वीर्यबलोपपन्ना धर्मे निविष्टा जगतः प्रधानाः ।।
त्यक्ताधिकाराश्च ततः क्रमेण सर्वे गता विष्णुसहायतां च ।।1.175.१०।।
इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रचरिताख्यानं नाम पञ्चसप्तत्यधिकशततमोध्यायः ।। १७५ ।।