विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १७०

विकिस्रोतः तः
← अध्यायः १६९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १७०
वेदव्यासः
अध्यायः १७१ →

मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
फलमासाद्य यद्गीतं देववेश्मोपलेपने ।। १ ।।
बभूव शूद्रजातीयः कश्चिद्भाग्यविवर्जितः ।।
कृतवान्स तु वाणिज्यं धनशेषेण केनचित् ।। २ ।।
तस्मिन्विपन्ने स कृषिं चकार नृपसत्तम ।।
तस्यामपि विपन्नायां चक्रे सेवां पुनःपुनः ।। ३ ।।
ततोऽप्यनासाद्य फलं सिद्धिं तीरमुपाश्रितः ।।
गङ्गायाः सप्तमो भागः सिन्धुर्नरनरोत्तम ।। ४ ।।
शीतलामलपानीयः स्वर्गलोकप्रदायकः ।।
यत्र स्नात्वा गतिं यान्ति ब्राह्मणाश्च तपस्विनः ।।५।।
तस्य तीरे वराहार्चा पुराणर्षिविनिर्मिता ।।
तां समासाद्य शूद्रस्तु नित्यं भैक्ष्यपरायणः ।। ६ ।।
नित्योपलेपनपरस्तदर्चादेववेश्मनि ।।
उवास भार्यया सार्धं तत्र नित्यानुरक्तया ।। ७ ।।
एतस्मिन्नेव काले तु वराहार्चादिदृक्षया ।।
सौवीरराजः सम्प्राप्तस्तं देशं चित्रवाहनः ।। ८ ।।
सिन्धौ स्नानं समासाद्य पूजयित्वा जगत्पतिम् ।।
सभार्यः पृथिवीपालः प्रायाद्राजन्यथागतः ।। ९ ।।
श्रियं तस्य तु तां दृष्ट्वा स शूद्रो भार्यया सह ।।
भूपालत्वस्पृहां कृत्वा कालात्कालवशङ्गतः ।। 1.170.१० ।।
वनात्काष्ठान्युपाहत्य कृत्वा भर्तुस्ततश्चितिम् ।।
अन्वारुरोह तं भार्या शूद्रं पञ्चत्वमागतम् ।। ११ ।।
स शूद्रो भार्यया सार्धं नाकपृष्ठमितो गतः ।।
सततं धर्मशीलस्तु देववेश्मोपलेपनात् ।। १२ ।।
एतस्मिन्नेव काले तु युवनाश्वो महीपतिः ।।
विष्णुं सम्पूजयामास पुत्रीयेण व्रतेन तु ।। १३ ।।
राज्ञस्तस्य व्रतस्यान्ते स्वप्ने प्राह जनार्दनः ।।
भार्गवं च्यवनं गच्छ ततः पुत्रमवाप्स्यसि ।। १४ ।।
युवनाश्वस्तथोक्तस्तु स्वप्ने देवेन चक्रिणा ।।
प्रातः पद्भ्यां ययौ तस्य च्यवनस्याश्रमं शुभम् ।। १५ ।।
सम्पूजयित्वा च्यवनं च्यवनेन च पूजितः ।।
व्रतस्वप्नावुभौ तस्य जगाद नृपसत्तमः ।। १६ ।।
ऋषिसङ्घानुपादाय च्यवनोऽपि महातपाः ।।
अविज्ञातं नरेन्द्रेण पुत्रीयं कृतवाञ्जलम् ।। १७ ।।
कलशस्थं जलं तच्च स्थापयामास भार्गवः ।।
ततो निशीथे संप्राप्ते तृषार्तः स महीपतिः ।। १८ ।।
ऋषिमध्ये तु स सुप्तानृषीन्वाक्यमथाऽब्रवीत् ।।
तृषार्तोऽस्मि भृशं विप्राः पानीयं मे प्रयच्छत ।।१९ ।।
ऋषिस्तस्य न शुश्राव कश्चिद्भाव्यर्थचोदितः ।।
ततः खिन्नो महीपालः कलशस्थं जलं पपौ ।। 1.170.२० ।।
पीत्वा सुष्वाप ऋषयः प्रातः सर्वे समुत्थिताः ।।
अपश्यमानाः कलशं पप्रच्छुस्ते पर स्परम् ।। २१ ।।
पुत्रीयं कलशं राज्ञः कृतं यत्तद्गतं क्व नु ।।
तदोवाच स राजेन्द्रस्तानृषीन्संशितव्रतान् ।। २२ ।।
तृषार्तेन मया पीतः कलशस्त्वपवाहितः ।।
ते होचुस्तं नृपश्रेष्ठं भाव्यं कर्म कृतं त्वया ।। २३ ।।
भार्या पीत्वैव तत्तोयं पुत्रं ते जनयिष्यति ।।
इत्येवं मन्त्रकलशः सोऽस्माभिर्भूपते कृतः ।। २४ ।।
पुत्रीयमुदकं तच्च त्वया पीतमबुद्धिना ।।
तस्मात्त्वमेव तनयं स्वकुक्षौ जनयिष्यसि ।। २५ ।।
नावाप्स्यसि तथा मृत्युं वरदानाद्द्विजन्मनाम् ।।
एवमुक्तस्तु सम्पूज्य ब्राह्मणान्स्वगृहङ्गतः ।। २६ ।।
राज्ञः कुक्षिं विनिर्भिद्य जज्ञे बालार्कसन्निभः ।।
पुनः पुत्रवतां श्रेष्ठ शूद्रोऽसौ नाकविच्युतः ।। २७ ।।
जातमात्रस्य तस्येन्द्रो ददौ प्रादेशिनीं मुखे ।।
आसाद्य यां स बालत्वं शिशुस्तत्याज तत्क्षणात् ।। २८ ।।।।।
कुक्षिं पस्पर्श राज्ञस्तु राजसिंहशतक्रतुः ।।
राजा शक्रकरामृष्टो विज्वरश्चाव्रणोऽभवत् ।। २९ ।।
युवनाश्वः स तस्यापि नाम चक्रे शतक्रतुः ।।।
मां धास्यतीति मान्धाता ख्यातिं त्रिभुवने गतः ।।1.170.३० ।।
तमाविवेश भगवांस्तेजसा स्वेन माधवः ।।
सापि स्वर्गच्युता भार्या तस्य शूद्रस्य यादव ।। ३१ ।।
काशिराजसुता जाता भीमवेगस्य मानद ।।
नाम्ना प्रभावती सुभ्रूस्त्र्यैलोक्यस्यैकसुन्दरी ।। ३२ ।।
युवनाश्वस्तु तां वव्रे मान्धातुर्लक्षणान्विताम् ।।
स राजा प्रददौ तां तु मान्धातुश्चित्रवाहनः ।। ३३ ।।
एकैव भार्या सा तस्य बभूवात्यन्तसुन्दरी ।।
रूपयौवनसम्पन्ना प्राणेभ्योऽपि गरीयसी ।।
कृत्वोद्वाहमयोध्यायामभिषिच्य स तं नृपम् ।। ३४ ।।
युवनाश्वो वनं प्रायाद्वनादपि त्रिविष्टपम् ।।
राज्यस्थोऽपि स मान्धाता त्रैलोक्यं सप्तभिर्दिनैः ।। ३५ ।।
रथेनैकेन वशगं चकार खड्गदर्पितः ।।
पाताले गगने शैले समुद्रे च महात्मनः ।। ३६ ।।
आसीत्तस्याप्रतिहता गतिश्चक्रस्य पार्थिव ।।
चक्रवर्ती स धर्मात्मा वैष्णवश्च तथाऽभवत् ।। ३७ ।।
समायुतानां बुभुजे स राज्यं दश मानद ।।
ब्रह्माण्डमण्डपं यावत्सूर्यस्तपति रश्मिभिः ।।
तावत्क्षेत्रं महीभर्तुर्युवनाश्वस्य कीर्त्यते ।। ३८ ।।
एवं स राजा विजितारिपक्षो देवाजिरालेपनकृद्बभूव ।।।
भार्या च सा तस्य बभूव भार्या लोके वरिष्ठा प्रमदावराभ्यः ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मान्धात्रुपाख्यानं नाम सप्तत्यधिकशततमोऽध्यायः ।। १७० ।।