विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६८ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६९
वेदव्यासः
अध्यायः १७० →

वज्र उवाच ।।
अटव्यो दारुणा ब्रह्मन्सिंहव्याघ्रनिषेविताः ।।
तस्कराचरिता घोराः सरीसृपविमिश्रिताः ।। १ ।।
नित्योत्थितस्य चाध्वानं दाहक्षयकरं परम् ।।
अतः स्वल्पतरं कर्म ब्रूहि मे केशवार्चने ।। २ ।।
मार्कण्डेय उवाच ।।
अतः स्वल्पतरं राजन्देववेश्मानुलेपनम् ।।
महाफलं विनिर्दिष्टं ब्राह्मणैर्वेदपारगैः ।। ३ ।।
सम्मार्जनं तु यः कुर्यात्पुरुषः केशवालये ।।
रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ।। ४ ।।
पांसूनां यावतां राजन्कुर्यात्सम्मार्जनं नरः ।।
तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ।।५ ।।
अभ्युक्षणं तु यः कुर्यात्पानीयेन सुरालये।।
स शान्तपापो भवति नात्र कार्या विचारणा ।।६।।
कृत्वोपलेपनं विष्णोर्नरस्त्वायतने सदा ।।
गोमयेन शुभाँल्लोकानयत्नादेव गच्छति ।। ७ ।।
हस्तप्रमाणं भूभागमुपलिप्य नराधिप ।।
देवरामाशतं नाकं लभेत सततं नरः ।। ८ ।।
ततोऽनुसारेण फलं विस्तृतायां क्षितौ स्मृतम् ।।
नित्यासमर्थस्तु तथा देववेश्मोपलेपने ।। ९ ।।
त्रिः पक्षस्य तु कुर्वीत देववेश्मोपलेपनम् ।।
पञ्चमीं दशमीं चैव तथा पञ्चदशीं नृप ।। 1.169.१० ।।
त्रिः पक्षस्य सदा कृत्वा देववेश्मोपलेपनम् ।।
संवत्सरात्तदाप्नोति यत्फलं तन्निबोध मे ।।११ ।।
जन्मान्तरमथासाद्य गृहं प्राप्नोत्यनुत्तमम् ।।
सर्वोपभोगसंयुक्तं गृहप्रासादसङ्कुलम् ।।१२।।
वृक्षोद्यानलतागुल्मतोयवापीविभूषितम् ।।
गवाश्वधनधान्याढ्यं सर्वोपकरणैर्युतम् ।। १३ ।।
प्रियंवदाभिर्हृद्याभिः स्वरूपाभिश्च पार्थिव ।।
वृतं च बहुभिः स्त्रीभिश्चारुवंशाभिरेव च ।। १४ ।।
गार्हस्थ्यं च दृढं तत्र स चाप्नोति महीतले ।।
न च प्रच्यवनं तस्माज्जीवन्नाप्नोति कर्हिचित् ।। १५ ।।
तस्य ये बान्धवास्तत्र सर्वे ते दीर्घजीविनः ।।
भवन्ति न भवन्त्यस्य आधयो व्याधयस्तथा ।।१६।।
न तस्य मृतनिष्क्रान्तिर्गृहे भवति कर्हिचित्।।
यावज्जीवत्यसौ तत्र गृहे श्रीमान्मुदा युतः ।। १७ ।।
चौरजं न भयं तस्य न च व्याधिकृतं भयम् ।।
व्यालभूपालजं वापि न च तस्य फलं भवेत् ।। १८ ।।
स्वरूपः सर्वसिद्धार्थो दीर्घायुर्व्याधिवर्जितः ।।
आज्ञाविधेयभृत्यश्च ध्रुवं स्यान्मनुजेश्वर ।। १९ ।।
भुञ्जानो यः सदा कुर्यात्तस्यैतत्कथितं फलम् ।।
नक्तभोजी तथा कृत्वा द्विगुणं फलमाप्नुयात् ।। 1.169.२० ।।
उपोषितस्तु रिक्तासु पूर्णासु तु हरेर्गृहे ।।
कृत्वोपलेपनं नित्यं चानन्त्यं फलमश्नुते ।। २१ ।।
उपलेपनकृद्यस्तु कृष्णस्यायतने भवेत् ।।
पापसंमार्जनं तस्य शीघ्रमेव भविष्यति ।। २२ ।।
निष्पाद्यमेतत्ससुखं नरेन्द्र आराधनं देववरस्य विष्णोः ।।
प्रोक्तं मया ते धनवर्जितानां धनान्वितानां सफलं विशेषम् ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे उपलेपनफलप्रशंसनो नामैकोनसप्तत्यधिकशततमोऽध्यायः ।। १६९ ।।