विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६८

विकिस्रोतः तः
← अध्यायः १६७ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६८
वेदव्यासः
अध्यायः १६९ →

वज्र उवाच ।।
उपवासासमर्थानां हीनानां द्रविणेन च ।।
कर्मणा केन धर्मज्ञ तोषमायाति शङ्करः ।। १ ।।
मार्कण्डेय उवाच।।
सन्ति पुष्पाण्यरण्येषु मूलानि च फलानि च ।।
स्वयं ग्राह्याणि राजेन्द्र यैस्तुष्यति जनार्दनः ।। २ ।।
चन्द्रः सामान्यदीपोऽयं विभवैः किम्प्रयोजनम् ।।
यथालभ्येन राजेन्द्र यैस्तुष्यति जनार्दनः ।।३।।
फलमूलाशनोऽरण्ये कुसुमैर्मधुसूदनम् ।।
सम्पूज्य सततं कामानभीष्टान्प्रतिपद्यते ।। ४ ।।
अकामस्तदवाप्नोति यद्विष्णोः परमं पदम् ।।
अरण्येषु नरः कृत्वा देवदेवस्य चार्चनम् ।।५।।
अतीतमुद्धरेद्राजन्फलेन स शतं नृणाम् ।।
भविष्याणां शतं चैव नराणां यदुनन्दन ।। ६ ।।
नगरेऽपि वसन्यस्तु भैक्ष्याशी संशितव्रतः ।।
अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः।।७।।
यथोपपन्नैः सततमभ्यर्चयति केशवम् ।।
सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः ।। ८ ।।
तस्याप्यकामकामस्य परं स्थानं प्रकीर्तितम् ।।
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम।।।।।।
स्वयमाहृत्य पुष्पाद्यैभैक्ष्याशी केशवार्चनम् ।।
कृतं येन स राजेन्द्र वंशानुद्धरते शतम् ।। 1.168.१० ।।
वंशानतीतान्पञ्चाशत्तावतश्चाप्यनागतान् ।।
उद्धरेदात्मनो राजन्नात्र कार्या विचारणा ।। ११ ।।
(गृहस्थोऽपि नरो राजन्धर्मागतधनागमः ।।
अरण्यादाहृतैः पुष्पैर्यः कुर्यात्केशवार्चनम् ।। १२।।
एतदेव समाप्नोति नात्र कार्या विचारणा ।।
धर्मार्जितधनः क्रीत्वा यः कुर्वन्केशवार्चनम् ।। १३ ।। )
स्वयमुप्तैश्च कुसुमैर्यः कुर्यात्केशवार्चनम् ।।
उद्धरिष्यत्यसन्देहं सप्तपूर्वापरान्नरान् ।। १४ ।।
यथाकथञ्चिदाहृत्य कथञ्चित्पूजयेद्धरिम् ।।
नाकपृष्ठमवाप्नोति न मेऽत्रास्ति विचारणा ।। १५ ।।
मानुष्ये च परां राजञ्छ्रियमाप्नोत्यसंशयम् ।।
वनादाहत्य कुसुमैः कर्तव्यं देवतार्चनम् ।। १६ ।।
पत्रं पुष्पं फलं तोयं दूर्वाङ्कुरमथापि वा ।।
निवेदयित्वा कृष्णाय भोक्ता नाकमवाप्नुयात ।।
अक्षमैस्तूपवासानां तथा धनविवर्जितैः ।। १७ ।।
वनादाहृत्य कुसुमैः कर्तव्यं देवतार्चनम् ।।
अरण्यादाहृतैः पुष्पैः सम्पूज्य मधुसूदनम् ।।१८।।
पूर्वजन्मनि सम्प्राप्तं राज्यं शृणु नराधिप ।।
नृगो ययातिर्नहुषो विष्वगश्वः करन्धमः ।। १९ ।।
दिलीपो यवनाश्वश्च ऋतुपर्णो भगीरथः ।।
सोमकः सहदेवश्च महामालो महाहनुः ।।1.168.२०।।
रेवकः कालकाख्यश्च कृतवीर्यो गुणाकरः ।।
देवरातः ककुत्स्थश्च विनीतो विक्रमे रघुः ।। २१ ।।
महोत्साहो वीतभयो निरमित्रः प्रभाकरः ।।
कपोतरोमा पर्जन्यश्चन्द्रसेनः परान्तकः ।। २२ ।।
भीमसेनो दृढरथः कुशनाभः प्रभद्रकः ।।
एते चान्ये च बहवः पूर्वजन्मनि केशवम् ।। २३ ।।
पूजयित्वा क्षितावस्यां प्रापू राज्यमकण्टकम् ।।
यक्षत्वमथ देवत्वं गन्धर्वत्वं तथैव च ।। २४ ।।
विद्याधरत्वं नागत्वं ये गता मनुजोत्तम ।।
बहुत्वात्ते कथं शक्या मया वक्तुं तवानघ ।। २५ ।।
तस्माद्यत्नः सदा कार्यः पुरुषैः कुसुमार्चने ।।२६।।
अरण्यजातैः कुसुमैः सदैव संपूजयित्वा स्वयमाहृतैस्तु ।।
सर्वेश्वरत्वं फलमाप्नुवन्ति राजेन्द्र तद्वर्णयितुं न शक्यम् ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुष्पाहरणफलवर्णनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ।। १६८ ।।