सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६७

विकिस्रोतः तः
← अध्यायः १६६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६७
वेदव्यासः
अध्यायः १६८ →

मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
दीपदानाल्ललितिका यदवाप पुरा नृप ।। १ ।।
आसीच्चित्ररथो नाम विदर्भेषु महीपतिः ।।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ।। २ ।।
एकैव कन्या तस्यासील्ललिता नाम नामतः ।।
सर्वलक्षणसम्पूर्णा रूपेणाप्रतिमा भुवि ।। ३ ।।
तां ददौ काशिराजाय स पिता चारुधर्मिणे ।।
शतानि तस्य भार्याणां त्रीण्यासंश्चात्र धर्मिणः ।। ४ ।।
तासां मध्येऽग्रमहिषी ललितास्य तदाऽभवत् ।।
विष्णोरायतने तस्याः सहसं राजसत्तम ।। ५ ।।
प्रदीपानां प्रज्वलति दिवारात्रमरिन्दम ।।
तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्तिकात् ।। ६ ।।
तस्याः प्रज्वलितं दीपमुच्चस्थानकृतं तथा ।।
तस्मिन्काले तथा नित्यं ब्राह्मणावसथेषु सा ।।७।।
नित्यं भवति सायाह्ने दीपप्रेषणतत्परा ।।
चतुष्पथेषु रथ्यासु देवतायतनेषु च ।। ८ ।।
चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्धसु ।।
पुलिनेषु नदीनां च कूपमूलेषु यादव ।। ९ ।।
तस्मिन्भवति साकाले दीपदानपरायणा ।।
तां सपत्न्योऽथ सङ्गम्य पप्रच्छुरिदमादृताः ।।1.167.१०।।
सपत्न्य ऊचुः ।।
सर्वान्धर्मान्परित्यज्य ललिते त्वं सदैव तु ।।
विष्णोरायतने सुभ्रूर्दीपदानपरायणा।। ११ ।।
तदेतत्कथयास्माकं ललिते कौतुकं परम् ।।
मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम् ।। १२ ।।
ललितिकोवाच ।।
नाहं मत्सरिणी भद्रा न च रागादिदूषिता ।।
एकपत्याश्रया याता भवत्यो मम मानदाः ।। १३ ।।
अपृथग्धर्मचरणाः शृण्वन्तु गदितं मम ।।
मयैतद्दीपदानस्य यथा वै भुज्यते फलम् ।। १४ ।।
हरस्य दयिता भार्या शैलराजसुता वरा ।।
उमादेवीति मद्रेषु देविका या सरिद्वरा ।। ।।१५।।
नराणामनुकम्पार्थं ब्राह्मणैरवतारिता ।।
तीरयोरुभयोस्तस्याः क्षेत्रं क्रोशचतुष्टयम् ।। १६ ।।
तस्मिँस्तीर्थे तु पानीयं सर्वतीर्थप्रकल्पितम् ।।
तस्मिंस्तीर्थे मृता मर्त्याः प्राप्नुवन्ति शुभां गतिम् ।।१७।।
श्रुताभिलाषिता दृष्टा देविका पापनाशिनी ।।
तस्यां स्नात्वा सकृन्मर्त्यो गाणपत्यमवाप्नुयात्।।१८।।
तस्यास्तीर्थं नृसिंहाख्यं सर्वकल्मषनाशनम्।।
नृसिंहवपुषा स्नानं कृतं यत्र पुरा शुभा।।१९।।
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।।
तस्मिँस्तीर्थे तदा तेन विष्णोरायतनं कृतम् ।। 1.167.२० ।।
अहन्यहनि शुश्रूषां पुष्पधूपादिलेपनैः ।।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ।।२१।।
कार्तिके दीपकास्तत्र प्रदत्तास्तेन चैकदा ।।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि ।। २२ ।।
देवतायतने चासं तथाहमपि मूषिका।।
प्रदीप वर्तिहरणे कृतबुद्धिर्वरानना ।।२३।।
गृहीता च मया वर्तिर्वृषदंशो रुराव च ।।
नष्टा चाहं तदा तस्य मार्जारस्य भयात्तदा ।। २४ ।।
वर्तिप्रान्तेन नश्यन्त्या दीपकः प्रेरितो मया ।।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ।। २५ ।।
मृता चाहं तदा जाता विदर्भराजकन्यका ।।
जातिस्मरा महीपस्य महिषी चारुधर्मिणः ।। २६ ।।
एष प्रभावो दीपस्य कार्तिके मासि शोभनाः ।।
दत्तस्यायतने विष्णोर्यस्येयं व्युष्टिरुत्तमा ।। २७ ।।
यदि वो नास्ति मात्सर्यं दीपो देयः सदा शुभाः ।।
असङ्कल्पितमप्येतत्प्रेरणं यत्कृतं मया ।। २८ ।।
केशवालयदीपस्य तस्येदं भुज्यते फलम् ।।
एतस्मात्कारणाद्दीपानहमेतानहर्निशम् ।। २९ ।।
प्रयच्छामि हरेर्धाम्नि ज्ञातस्य च हि यत्फलम् ।।
मार्कण्डेय उवाच ।।
एवमुक्ताः सपत्न्यस्ता दीपदानपरायणाः ।। 1.167.३० ।।
बभूवुर्देवदेवस्य केशवस्य सदा गृहे ।।
ततः कालेन महता तेन राज्ञा महात्मना ।।
विष्णुलोकमनुप्राप्ताः पञ्चत्वं प्राप्य मानद ।। ३१ ।।
तं लोकमासाद्य नृपेण सार्धं सा राजपुत्री कमलाभरूपा ।।
रेमे महीपाल मुदा समेता दीपप्रदानाच्च्यवनाद्विमुक्ता ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे दीपमाहात्म्ये ललितिकोपाख्यानं नाम सप्तषष्ट्यधिकशततमोऽध्यायः ।। १६७ ।।