विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६५ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६६
वेदव्यासः
अध्यायः १६७ →

।। वज्र उवाच ।।
महावर्तिप्रदानस्य यत्फलं भृगुनन्दन ।।
तन्ममाचक्ष्व तत्त्वेन विधिं कालं तथैव च ।। १ ।।
मार्कण्डेय उवाच ।।
महावर्तिः सदा देया भूमिपाल महाफला ।।
कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ।। २ ।।
अमावास्या च निर्दिष्टा द्वादशी च महाफला ।।
आश्वयुज्यामतीतायां कृष्णपक्षस्य या भवेत् ।। ३ ।।
अमावस्या तदा पुण्या द्वादशी वा विशेषतः ।।
देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप ।। ४ ।।
पलाष्टकयुतां राजन्वर्तिं तत्र तु दापयेत् ।।
महारजनरक्तेन समग्रेण तु वाससा ।। ५ ।।
वामपार्श्वे च देवस्य देया घृततुला नृप ।।
पलाष्टकयुतां शुक्लां वर्तिं तत्र तु दापयेत् ।। ६ ।।
वाससा तु समग्रेण सोपवासो जितेन्द्रियः ।।
महावर्तिद्वयमिदं सकृद्दत्त्वा महीपते ।। ७ ।।
स्वर्लोकं सुचिरं भुक्त्वा जायते भूतले यदा ।।
तदा भवति लक्ष्मीवान्रूपसौभाग्यमाश्रितः ।। ८ ।।
राष्ट्रे च जायते यस्मिन्देशे च नगरेऽथवा ।।
कुले च राजशार्दूल तत्र स्याद्दीपवत्प्रभा ।। ९ ।।
अत्युज्ज्वलश्च भवति युद्धेषु कलहेषु च ।।
ख्यातिं याति तथा लोके सज्जनानां च सद्गुणैः ।। 1.166.१० ।।
एकामप्यथ यो दद्यादभीष्टमनयोर्द्वयोः ।।
मानुष्ये सर्वमाप्नोति तदुक्तं ते मयाऽनघ ।। ११ ।।
स्वर्गे तथार्धमाप्नोति भागं कालं च यादव ।।
सामान्यस्य तु दीपस्य राजन्दाने महत्फलम् ।। १२ ।।
किं पुनर्महतो यस्य फलस्यान्तो न विद्यते ।।
दीपदानं परं पुण्यमन्यदेवेष्वपि ध्रुवम् ।। १३ ।।
किं पुनर्देव देवस्य त्वनन्तस्य महात्मनः ।।
गिरिशृङ्गेषु दातव्या नदीनां पुलिनेषु च ।। १४ ।।
चतुष्पथेषु रथ्यासु ब्राह्मणानां गृहेषु च ।।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ।। १५ ।।
दीपदानेन सर्वत्र महत्फलमुपाश्नुते ।।
यावन्त्यक्षिनिमेषाणि दीपः प्रज्वालितो नृप ।। १६ ।।
तावन्त्येव स राजेन्द्र वर्षाणि दिवि मोदते ।।
दीपदानेन राजेन्द्र चक्षुष्मानिह जायते ।। १७ ।।
रूपसौभाग्ययुक्ताश्च धनधान्यसमन्विताः ।।
दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ।। १८ ।।
भवन्ति ते चन्द्रसमाः स्वर्गमासाद्य मानवाः ।।
दीपागारं नरः कृत्वा कूटागारनिभं शुभम् ।। १९ ।।
केशवालयमासाद्य नाके भाति स शक्रवत् ।।
यथोज्ज्वलः सदा दीपो दीपदातापि यादव ।। 1.166.२० ।।
तथा नित्योज्ज्वलो लोके नाकभ्रष्टोऽभि जायते ।।
समीपे तु यथा लोके चक्षूंषि फलवन्ति हि ।। २१ ।।
तथा दीपस्य दातारो भवन्ति सफलेक्षणाः ।।
यथैवोर्ध्वगतिर्नित्यं राजन्दीपशिखा शुभा ।। २२ ।।
दीपदातुस्तथैवोर्ध्वगतिर्भवति शोभना ।।
तस्मात्सर्वप्रयत्नेन दीपा देया नरेश्वर।। २३ ।।
आश्वयुज्यामतीतायां यावद्राजेन्द्र कार्तिकी ।।
तावद्दीपप्रदस्योक्तं फलं राजन्विशेषतः ।।२४।।
तावत्कालं प्रयच्छन्ति ये तु दीपं सदा निशि ।।
तुंगे देशे महत्तेषां बहिः पुण्यफलं भवेत् ।। ।।२५।।
यस्यान्धकारे गहने प्राकाश्यं तेन जायते।
प्राकाश्ये यदुशार्दूल तेन यान्ति हि तत्सुखम् ।।२६।।
श्रवणे दीपकं दत्त्वा नदीद्वितयसंगमे ।।
तेजस्वी च यशस्वी च रूपवानभिजायते ।। २७ ।।
दीपा नदीषु दातव्याः कार्तिक्यां च विशेषतः ।।
आश्वयुक्कृष्णपक्षस्य या तु पञ्चदशी भवेत् ।। २८ ।।
बिल्वद्वारेषु दातव्यास्तथा दीपा यथाविधि ।।
अन्यत्रापि तदा दीपैर्महत्पुण्यफलं लभेत् ।। २९ ।।
श्रवणद्वादशीयोगे कृष्णपक्षे तथैव च ।।
घृतेन दीपा दातव्यास्तिलैर्वा यदुनन्दन ।। 1.166.३० ।।
वसामज्जादिभिर्देया न तु दीपाः कथञ्चन ।।
दत्त्वा दीपं न कर्तव्यं तेन कर्म विजानता ।। ३१ ।।
निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ।।
यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः ।। ३२ ।।
दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ।।
दीपदानात्परं दानं न भूतं न भविष्यति ।। ३३ ।।
दीपदानं तु कर्तव्यं विप्रवेश्मसु पण्डितैः।।
द्विजवेश्मनि यो दद्यात्कार्तिके मासि दीपकम् ।। ३४ ।।
अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ।।
प्राणिजां नीलरक्तां च दीपे वर्तिं विवर्जयेत्।। ३५ ।।
विशेषेण प्रदातव्या पद्मसूत्रभवा नृप ।।
पद्मसूत्रोद्भवां वर्तिं गन्धतैलेन दीपके ।। ३६ ।।
विरोगः सुभगश्चैव दत्त्वा भवति मानवः ।।
दातव्यं देवदेवस्य कर्पूरेण च दीपकम्।।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्।।३७।।
एतन्मयोक्तं तव दीपदाने फलं समग्रं यदुवंशचन्द्र ।।
श्रुत्वा यथावत्सततं तु देया दीपास्त्वया विप्रसुरालयेषु ।। ३८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दीपदानप्रशंसानाम षट्षष्ट्यधिकशततमोऽध्यायः ।। १६६ ।।