विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १७६-१८०

विकिस्रोतः तः
← अध्यायाः १७१-१७५ विष्णुधर्मोत्तरपुराणम्
अध्यायः १७६-१८०
वेदव्यासः
अध्यायाः १८१-१८५ →

1.176
।। इन्द्र उवाच ।।
यस्मिन्काले व्यतीता ये षडिन्द्रा भूरितेजसः ।।
तेषां चरितमिच्छामि श्रोतुं विस्तरशः शुभे ।। १ ।।
प्रति शक्रं मनुं भद्रे मनुपुत्रांस्तथैव च ।।
देवान्सप्तऋषींश्चैव तथा दायादबांधवान् ।। २ ।।
शक्रस्य तेषां च वधं तथा देवाज्जनार्दनात् ।।
त्वत्तोहं श्रोतु मिच्छामि सर्वं त्वं वेत्सि सुन्दरि ।।३।।
शाम्बरायण्युवाच।।
ब्रह्मणो मानसः पुत्रः प्रथमस्तु मनुः स्मृतः ।।
दश पुत्राश्च तस्येमे ख्यातास्त्रिभुवनेश्वर ।। ।।४।।
अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वसुः ।।
ज्योतिष्मान्द्युतिमान्हव्यः सवनः सत्र एव च ।।५।।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।।
वसिष्ठश्च महातेजा ऋषयः सप्त कीर्तिताः ।।६।।
जयाख्याश्चाजिताख्याश्च शुक्रयामास्तथैव च ।।
गणा द्वादशका एते चत्वारः सोमपीथिनः ।। ७ ।।
विश्वभुङ्नाम देवानां तेषामिन्द्रो बभूव ह ।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।। ८ ।।
बभूव नृपतिर्येषां बाष्कलो नाम नामतः ।।
यस्य हस्तादुभौ लोकौ वामनेन हृतौ पुरा ।। ९ ।।
क्रमद्वयेन तु हृतं पातालं च सुरेश्वर ।।
यस्य पुत्रवतस्त्वासीत्केशी नाम बलोत्कटः ।। 1.176.१० ।।
जहार भूयस्त्रैलोक्यं शक्रस्याक्रम्य दुर्मतिः ।।
तमाहूय रणे विष्णुस्तार्क्ष्यप्रवरवाहनः।।११।।
द्विधा चकार चक्रेण त्रैलोक्यहितकाम्यया ।।१२।।
एवं हतस्तेन पुरारिमुख्यो महात्मना कालसमप्रभावः ।।.
शक्रप्रियार्थं जगतां हितार्थं देवेश्वरेणाप्रतिमेन तेन ।।१३।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शाम्बरायणीवाक्ये प्रथममन्वंतरवर्णनं नाम षट्सप्तत्यधिकशततमोऽध्यायः ।। १७६ ।।
1.177
।। शाम्बरायण्युवाच ।।
मनुः स्वारोचिषो नाम बभूव तदनन्तरम ।।
यस्यासन्सुमहाभागाः पुत्रा भूमण्डलेश्वराः ।। १ ।।
चैत्रः कविरुतश्चैव कृतान्तो विद्युतो रविः ।।
बृहद्ग्रहो नभश्चैव महाबलपराक्रमः ।। २ ।।
ऊर्जस्तस्य तथा प्राण ऋषभो निश्चलस्तथा ।।
दन्तोभिः शाक्वरीवांश्च ऋषयः सप्त कीर्तिताः ।। ३ ।।
भूषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ।।
तेषामिन्द्रो विपश्चिच्च महात्मा लोकविश्रुतः ।। ४ ।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।।
तेषामासीत्तदा राजा पुरुकुत्सो बलाधिकः ।। ५ ।।
शक्रस्य विप्रियासक्तो मृगयायै वनङ्गतः ।।
व्यधमत्कुञ्जरान्मत्तान्बहुवीर्यसमाश्रयः ।।
हस्ती भूपालसचिवः स जघान हरीन्वने ।। ६ ।।
जघान सः शैल इवातिवर्ष्मा नीलाञ्जनाभो रचिताग्रहस्तः ।।
जघान तं दैत्यवरं प्रसह्य देवासुराणां समरेष्ववध्यम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रम्प्रति शाम्बरायण्युपाख्याने द्वितीयमन्वन्तरकथावर्णनन्नाम सप्तसप्तत्यधिकशततमोऽध्यायः ।। १७७ ।।
1.178
।। शाम्बरायण्युवाच ।। ।।
औत्तमस्य मनोः पुत्रास्तृतीयस्य निबोध मे ।।
अजश्च परशुश्चैव देवदेवो वृधो नयः ।। १ ।।
देवावृधश्चाप्रतिमो महोत्साहो गजस्तथा ।।
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ।। २ ।।
अतः परं प्रवक्ष्यामि ऋषयः सप्त वै तदा ।।
रजोबाहूर्ध्वबाहू च सवनश्चानघश्च यः ।। ३ ।।
सुतपाः शक्तिरित्येते ऋषयः सप्त कीर्तिताः ।।
वशवर्तिनः स्वधासानो वशा सत्यहा मतार्दनाः ।। ४ ।।
पञ्च देवगणाः प्रोक्ताः सर्वे द्वादशकास्तु ते ।।
तेषां सुचित्तिर्नामाऽभूच्छक्रः परपुरञ्जयः।।५।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।।
येषामासीद्बली राजा प्रलम्बो नाम नामतः ।। ६ ।।
शक्रस्य विप्रियासक्तं तं समुद्राम्बुवाहिनम् ।।
मत्स्यरूपधरो विष्णुर्ग्रस्तवान्बलवत्तरम् ।। ७ ।।
कालानलाभं तु विदेशशत्रुं रूपेण मात्स्येन जगत्प्रचारः ।।
जघान तं पर्वतकूटमात्रं समुद्र मध्ये शरदानतृप्तम् ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीयमन्वन्तरवर्णनन्नामाष्टसप्तत्यधिकशततमो ऽध्यायः ।। १७८ ।।
1.179
।।शाम्बरायण्युवाच ।। ।।
तामसस्य मनोः पुत्रांश्चतुर्थस्य निबोध मे ।।
जानुजङ्घः शान्तभयो नरः ख्यातिर्नरस्तथा ।। १ ।।
प्रियभृत्यो ह्यविक्षिच्च प्रस्थिलश्च दृढेषुधिः ।।
कृतश्च कृतगन्धश्च तामसस्य मनोः सुताः ।। २ ।।
ऋषिर्वनः कठीयान्वै गात्रश्चैत्रोऽग्निरेव च ।।
ज्योतिर्वासाः पृथुः कार्य ऋषयः सप्त कीर्तिताः ।। ३ ।।
सत्याः सुपादाः सुरिहा हरश्चेति प्रकीर्तिताः ।।
देवतानां गणा एते चत्वारः पञ्चविंशकाः ।।४।।
सत्यानामपि भेदौ द्वौ सत्या विश्वाश्च कीर्तिताः ।।
सत्या द्वादश निर्दिष्टा विश्वा प्रोक्तास्त्रयोदश।।५।।
तेषामासीन्महातेजा शिबिरिंद्रः प्रतापवान्।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।।६।।
येषामासीन्महातेजा राजा भीमरथः प्रभुः ।।
प्रसाद्य येन ब्रह्माणमवध्यत्वं स्थले वृतम् ।। ।।७।।
जलं स वर्जयामास ततः प्रभृति दुर्मतिः ।।
स ददर्श मरौ कूर्मं पर्वताकारदर्शनम् ।। ८ ।।
तमारुरोह दुर्बुद्धिः कौतूहलसमन्वितः ।।
समारूढं महाकायमादाय भगवान्हरिः ।। ९ ।।
कूर्मरूपधरो वेगात्पातालजलमाविशत् ।।
पातालजलमानीय मज्जयित्वा जघान तम् ।।
आक्रम्य तं महाकायं महता कूर्मवर्ष्मणा ।। 1.179.१० ।।
एवं स कूर्मेण जले प्रसह्य देवेश्वरस्याप्रतिमस्य शत्रुः ।।
निपातितः सर्वसुरप्रधानः सर्वेश्वरेणा प्रतिमेन तेन ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थतामसमन्वन्तरवर्णनन्नामैकोनाशीत्यधिकशततमोऽ ध्यायः ।। १७९ ।।
1.180
शाम्बरायण्युवाच ।।
रैवतस्य मनोः पुत्रान्पञ्चमस्य निबोध मे ।।
महापुराणः सम्भाव्यः प्रत्यङ्गः परहा शुचिः ।। १ ।।
चलबिन्दुर्निरामित्रः केतुशृंगो दृढव्रतः ।।
रैवतस्य मनोः पुत्रा ऋषयस्तस्य वच्मि ते ।। २ ।।
वेदश्रुतिर्वेदबाहुरूर्ध्वबाहुर्यजुस्तथा ।।
हिरण्यरोमा पर्जन्यः सत्यनेत्रस्तथैव च ।। ३ ।।
आभूतराजसश्चैव तथा देवाः सुमेधसः ।।
वैकुण्ठाश्चामृताश्चैव चत्वारो देवतागणाः ।। ४ ।।
एकैकस्मिन्गणे देवाः कथितास्तु चतुर्दश ।।
तेषामिन्द्रो विभुर्नाम लोके विख्यातविक्रमः ।। ५ ।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।।
तेषामसीन्महातेजाः शंभुर्नाम महेश्वरः ।। ६ ।।
ब्रह्मलोकेन मरणं वृतं येन पितामहात् ।।
स कदाचिन्महाकायं समुद्रजलचारिणम् ।। ७ ।।
हंसं दृष्ट्वैव जग्राह तञ्चारोहति दुर्मतिः ।।
आरूढमात्रमादाय ब्रह्मलोकं जगाम सः ।।
हंसरूपेण तत्रैव जघान भगवान्हरिः ।। ८ ।।
एवं स हंसेन हतो महात्मा सर्वेश्वरेणाप्रतिमेन तेन ।।
महाबलः पर्वतमात्रकायः सुरान्तकारी समरेष्वजेयः ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इन्द्रशाम्बरायणीयसंवादे पञ्चमरैवतमन्वन्तरवर्णनन्नामाशीत्यधिकशततमोऽध्यायः ।। १८० ।।