विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५८

विकिस्रोतः तः
← अध्यायः १५७ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५८
वेदव्यासः
अध्यायः १५९ →

।। मार्कण्डेय उवाच ।। ।।
मार्गशीर्षस्य मासस्य शुक्लपक्षाज्जनाधिप ।।
आरऽभ्याभ्यर्चयेद्देवं द्वादशीषु सदैव तु ।। १ ।।
पक्षयोरुभयोर्नित्यं सोपवासो जितेन्द्रियः ।।
फलैः पुष्पैर्यथाकामं नैवेद्यैर्होमकर्मणा ।। २ ।।
पूजने ब्राह्मणानां च शक्त्या दानं च पार्थिव ।।
अभीष्टनामजप्येन पूर्णात्संवन्सरान्नरः ।। ३ ।।
तदेवाप्नोति राजेन्द्र यत्र गत्वा न शोचति ।।
अकामाः सात्त्विका देवं पूजयन्ति जनार्दनम् ।। ४ ।।
तस्मादकामेन नरेन्द्रचन्द संपूजनीयो भुवनस्य गोप्ता ।।
त्यक्त्वा वणिज्यं नरदेव लोके देवेश्वरो विष्णुरुपासनीयः ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कामद्वादशीवर्णनं नामाष्ट पञ्चाशदधिकशततमोऽध्यायः ।। १५८ ।।