विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५९

विकिस्रोतः तः
← अध्यायः १५८ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५९
वेदव्यासः
अध्यायः १६० →

।। वज्र उवाच ।। ।।
भगवञ्छ्रोतुमिच्छामि द्वादशीषु पृथक्पृथक् ।।
उपोष्य कि फलं लोके शुक्लपक्षे विधीयते ।। १ ।।
अनेकजन्मसाहस्रैर्येषां पापं क्षय गतम् ।।
अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः ।। २ ।।
मार्कण्डेय उवाच ।।
द्वादश्यां मार्गशीर्षस्य शुक्लपक्षे उपोषितः ।।
नाम्ना केशवमभ्यर्च्य वह्निष्टोमफलं लभेत् ।। ३ ।।
नारायणं तथाभ्यर्च्य पौषे मासे जगत्पतिम् ।।
अत्यग्निष्टोममाप्नोति नात्र कार्या विचारणा ।। ४ ।।
माघे माधवमभ्यर्च्य द्वादशाब्दफलं लभेत् ।।
गोविन्दं फाल्गुने मासि पूजयित्वा मही धर ।। ५ ।।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ।।
चैत्रे विष्णुमथाभ्यर्च्य वाजपेयफलं लभेत् ।। ६ ।।
द्वादश्यां मासि वैशाखे सम्पूज्य मधुसूदनम् ।।
गोसवस्य तु यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।। ७ ।।
ज्येष्ठे मासे तथाभ्यर्च्य देवदेवं त्रिविक्रमम् ।।
पुण्डरीकस्य यज्ञस्य फलं विन्दति मानवः ।। ८ ।।
आषाढे वामनं देवं पूजयित्वा जगत्पतिम् ।।
क्षिप्रमेव समाप्नोति यज्ञं बहुसुवर्णकम् ।। ९ ।।
श्रीधरं श्रावणे मासि पूजयित्वा महेश्वरम् ।।
वैष्णवस्य तु यज्ञस्य फलं विन्दत्यसंशयम् ।। 1.159.१० ।।
मासे भाद्रपदे देवं हृषीकेशं समर्चयन् ।।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।। ११ ।।
आश्विने मासि संप्राप्ते पद्मनाभं समर्चयन् ।।
राजसूयमवाप्नोति नात्र कार्या विचारणा ।। १२ ।।
दामोदरमथाभ्यर्च्य कार्तिके मासि यादव ।।
सर्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।। १३ ।।
मासोक्तेन सदा नाम्ना शुक्लपक्षे ह्युपोषितः ।।
द्वादशीषु सदा कुर्याज्जप्यहोमान्समाहितः ।। १४ ।।
संवत्सरान्ते दातव्यं घृतपूर्णं च भाजनम् ।।
कांस्यस्य वैनतेयं च रुक्मपत्रनिवेशितम् ।। १५ ।।
क्रमोपवासतस्त्वेते प्रोक्ता यज्ञफला नृप ।।
पूर्णं संवत्सरं कृत्वा व्रतमेतन्नराधिप ।। १६ ।।
स्वर्गलोकमवाप्नोति कुलं चैव समुद्धरेत् ।।
देवरामागणस्थेन वीणागुरुजनादिना ।। १७ ।।
हंससारसयुक्तेन विमानेनार्कवर्चसा ।।
किङ्किणीशतघोषेण विहरत्यमरप्रभः ।। १८ ।।
यावज्जीवं नरः कुर्याद्व्रतमेतत्समाहितः ।।
श्वेतद्वीपमवाप्नोति यत्र चन्द्रप्रभा नराः ।। १९ ।।
चतुर्भुजा महासत्त्वा नित्यतृप्ताः सुगन्धिनः ।।
अनिष्यन्दा निराहाराः सर्वज्ञाः सर्वदर्शिनः ।। 1.159.२० ।।
तत्रोष्य कालं सुचिरं नरेन्द्र भित्त्वार्कबिम्बं सहसा प्रयाति ।।
स्थानं पुरो देववरस्य विष्णोर्नित्यस्य तस्यानघ सर्वगम्य ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्लपक्षद्वादशीविधिर्नामैकोनषष्ट्यधिक शततमोऽध्यायः ।। १५९ ।।