विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५७
वेदव्यासः
अध्यायः १५८ →

।। वज्र उवाच ।।
द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ।।
राज्यप्रदः स्याद्धर्मज्ञ तन्मे त्वं ब्रूहि तत्त्वतः ।। १ ।।
पश्य राज्यस्य माहात्म्यं यत्र धर्मसखावुभौ ।।
शृणु तस्य च धर्मस्य फलभाग्धार्मिको नृपः ।। २ ।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।।
राज्ञा संरक्षिताः सर्वे शक्या धर्मं निषेवितुम् ।। ३ ।।
मानुषेण शरीरेण राजा देववपुर्धरः ।।
क्षत्त्रियोऽपि सदा पूज्यो ब्राह्मणानां महात्मनाम् ।। ४ ।।
विना राज्यं हि या लक्ष्मीः परतन्त्रा हि सा मता ।।
तस्माद्राज्यं प्रशंसन्ति तत्राज्ञा न विहन्यते ।। ९ ।।
तुल्यधातुशरीराणां तुल्यावयवजीविनाम् ।।
नरेन्द्राणां नरैर्ब्रह्मन्देववद्भुवि मन्यते ।। ६ ।।
राज्यदां द्वादशीं तस्माद्वक्तुमर्हति मे भवान् ।।
यामुपोष्य महद्राज्यं प्राप्नुयात्स तु वै द्विजः ।। ७ ।।
मार्कण्डेय उवाच ।।
शृणुष्वावहितो राजन्राज्यदां द्वादशीं शुभाम् ।।
यामुपोष्य नरो लोके राज्यमाप्नोत्यकण्टकम् ।। ८ ।।
मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ।।
दशम्यां प्रयतः कृत्वा स्नानमभ्यङ्गपूर्वकम् ।। ९ ।।
उपवासस्य संकल्पं श्वोभूतस्य तु कारयेत् ।।
देवागारे कुशास्तीर्णामेकवस्त्रोत्तरच्छदाम् ।।1.157.१ ०।।
अध्यासीत महीं तत्र तां रात्रिं प्रयतो नयेत् ।।
द्वितीयेऽह्नि ततः कुर्याद्बहिः स्नानमतन्द्रितः ।। ११ ।।
पूजनं देवदेवस्य सर्वं शुक्लेन कारयेत् ।।
कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका ।।१२।।
जात्या च शुक्ला राजेन्द्र धूपे कर्पूरमेव च ।।
घृतेन दीपा दातव्या शुक्लवर्तिसमन्विता । ।। १३ ।।
घृतौदनं दधि क्षीरं परमान्नं तथैव च ।।
इक्षुमिक्षुविकारांश्च देवदेवे निवेदयेत् ।। १४ ।।
कालोद्भवं मूलफलं वर्णं तत्र न चिन्तयेत ।।
यथालाभेन तद्देयं शुक्लं चेत्स्याद्विशेषतः ।। १५ ।।
हवनं च ततः कार्यं परमान्नेन पार्थिव ।।
तद्विष्णोः परं इत्येवं होममन्त्रो विधीयते ।। १६ ।।
द्वादशाक्षरकं मन्त्रं स्त्रीशूद्रस्य विधीयते ।।
ततोऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान् ।। १७ ।।
सितरंगेन कर्तव्या भूमिशोभा सुरालये ।।
रात्रौ जागरणं कार्यं गीत नृत्यं च पार्थिव ।। १८ ।।
कर्मणा चैव देवस्य कर्तव्यं श्रवणं तथा ।।
द्वादश्यां विधिनाऽनेन भूयः पूज्यो जनार्दनः ।।। ।। १९ ।।
राजलिङ्गं प्रदातव्यमेकं विप्राय दक्षिणा ।।
ततस्तु पश्चाद्भोक्तव्यं हविष्यं पार्थिवोत्तम ।।1.157.२०।।
एकादशी यथा मध्ये स्नानयोरन्तरे नृप ।।
कष्टं मौनं तु कर्तव्यं जप्यं कार्यं तु मानसम् ।। २१ ।।
द्वादशीष्वेव शुक्लासु सर्वास्वेवाविशेषतः ।।
विधिस्तवायं निर्दिष्टः कृष्णास्वेव च कारयेत् ।। २२ ।।
विशेषं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ।।
रक्तवर्णेन कर्तव्या देवपूजा यथाविधि ।। २३ ।।
रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ।।
तिलतैलेन दीपाश्च महारञ्जनरञ्जिताः ।। २४ ।।
दीपेषु वर्तयो देया होमः कार्यस्तथा तिलैः ।।
भूमिशोभा च कर्तव्या रक्तैर्भूपालवर्णकैः ।। २५ ।।
अनेन विधिना कृत्वा राजन्संवत्सरं ततः ।।
कार्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत् ।। २६ ।।
व्रतावसाने तस्यां तु महावर्तिं तु दापयेत् ।।
वाससा च समग्रेण तुलया च घृतस्य वै ।। २७ ।।
ब्राह्मणाय प्रदातव्या धेनुः कांस्योपदोहना ।।
हेमशृङ्ग्री रौप्यखुरा मुक्तालांगूलभूषिता ।। २८ ।।
वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ।।
संवत्सरेण राजा स्यान्नरः पर्वतगह्वरे ।। २९ ।।
त्रिभिः संवत्सरैः पूर्णैर्जायते सफलं ततः ।।
तथा द्वादशभिः पूर्णे राजा भवति पार्थिवः ।। 1.157.३० ।।
राज्यप्रदा तेऽभिहिता मयैषा सुद्वादशी पापहरा वरिष्ठा ।।
उपोष्य यां भूमितले नरेन्द्रो भवत्यजेयश्च रणेऽरिसंघैः ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राज्यप्रदद्वादशीविधिर्नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ।। १५७ ।।