विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५५ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५६
वेदव्यासः
अध्यायः १५७ →

।। पुरूरवा उवाच ।।
भगवन्सर्वधर्मज्ञ पितामह महाद्युते ।।
गुरुत्वं मे व्रते तस्मिन्कर्तुमर्हसि मानद ।। १ ।।
व्रतावसाने च तथा सामग्र्यं द्विजपुङ्गव ।।
एवं शक्योस्म्यरण्येस्मिन्कर्तुं ब्रह्मन्महद्व्रतम् ।। २ ।।
अत्रिरुवाच ।। तव प्रसादं भगवान्सर्वात्मा मधुसूदनः ।।
कुरुतेऽहं करिष्यामि गुरुत्वमपराजितः ।। ३ ।।
व्रतावसाने च तथा सामग्र्यं द्विजपुङ्गवैः ।।
कामास्सन्निहिताश्चान्यैर्देशेऽस्मिन्नृप सर्वदा ।। ४ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा स धर्मात्मा सप्तमे च दिने तदा ।।
ज्येष्ठायां सप्तमीयोगे ग्राहयामास तं व्रतम् ।। ५ ।।
पादर्क्षात्तु प्रभृत्येवमृक्षेऋक्षे नराधिपः ।।
कारयामास देवस्य कथिताङ्गादिपूजनम् ।। ६ ।।
स्नानं नक्षत्रनिर्दिष्टं नक्षत्रस्य च पूजनम् ।।
नक्षत्रदैवतस्यापि सोमस्य वरुणस्य च ।। ७ ।।
पूजनं च तथा विष्णोर्देवदेवस्य चक्रिणः ।।
होमं तथैव सर्वेषां यथावन्मनुजेश्वर ।। ८ ।।
माघशुक्लमघां प्राप्य द्वादशीं च तथा तिथिम् ।।
अत्रिर्व्रतावसाने तमागतो ब्राह्मणैः सह ।। ९ ।।
व्रतावसाने संपूज्य केथवाङ्गार्चिसोमजान ।।
राज्यं निवेदयामास सोऽत्रेः सकलमेव हि ।। 1.156.१० ।।
प्रतिगृह्य च तद्राज्यं तस्माद्वै मन्त्रविन्नृप ।।
भूयः प्रादात्स तस्यैव वचनञ्चेदमब्रवीत् ।। ११ ।।
न मे राज्येन कर्तव्यं किञ्चिदेवास्ति पार्थिव ।।
न धनेन न कामेन याजिता ध्रुवयाज्ञियाः ।। १२ ।।
समत्वं राजशार्दूल स्वस्ति गच्छ गृहान्प्रति ।।
एवमुक्त्वा ययावत्रिरन्तर्धानमथेश्वरः ।। १३ ।।
सर्वैर्द्विजगणैः सार्धं तदा गत्वा स पार्थिवः ।।
देवपुष्कारणीतोये स्नातमात्रो बभूव ह ।। १४ ।।
तप्तजाम्बूनदाकारो नीलकुञ्चितमूर्धजः ।।
पृथुवक्षा महाबाहुस्तनुकुक्षिर्महाकटिः ।। १५ ।।
गन्धर्वराजप्रतिमः सर्वसत्त्ववशङ्करः ।।
रूपं तु तादृशं तस्य दृष्ट्वा गन्धर्वसत्तमाः ।। १६ ।।
तथैवाप्सरसो मुख्या दिष्ट्या दिष्ट्येति तेऽबुवन् ।।
सभाज्य पार्थिवं तेन पूजिताः प्रययुः सुखम् ।। १७ ।।
नीत्वा संवत्सरं तत्र पूर्णे संवत्सरं नृपः ।।
देवतांश्चाप्यथामन्त्र्य पूजयित्वा यथाविधि ।। १८ ।।
तथा पुष्करिणीं पुण्यां गुहां पद्मसरस्तथा ।।
आश्रमं शैलमुख्यं च तथैव च वनस्पतिम् ।। १९ ।।
गन्धर्वाप्सरसश्चैव प्रययौ स्वपुरं ततः ।।
उच्चसङ्गमसम्प्राप्ता दृष्टो वैषयिकैस्ततः ।। 1.156.२० ।।
स्तुतो देवप्रसादाच्च भक्त्या तैश्चाभिनन्दितः ।।
सत्त्वरैश्च तथा कैश्चिदमात्यानां निवेदितः ।। २१ ।।
अमात्याश्चागतं श्रुत्वा लब्धकामं नराधिपम् ।।
निर्ययुर्नगरात्तस्माच्चतुरङ्गबलान्विताः ।।२२।।
राज्ञः प्रतिग्रहार्थं ते गणमुख्यपुरःसराः ।।
तैः समेत्य स राजर्षिर्यथावन्मनुजेश्वर ।।२३।।
कल्पितेन गजेन्द्रेण पताकाध्वजशोभिना ।।
प्रविवेश पुरं हृष्टः शाकलं नाम नामतः ।। २४ ।।
राज्ञः प्रवेशे तत्पौरैः सितचन्दनवारिणा ।।
बहुवर्णैस्तथा पुष्पैयथास्थाने विभूषितम् ।। २५।।
चन्दनागुरुसाराणां धूपनैः सुरभीकृतम् ।।
महोच्छ्रितपताकाढ्यं माल्यदामपरिष्कृतम्।। २६ ।।
माल्यमोदकहस्तैश्च पौरजानपदैर्युतम् ।।
अतीव जनसंबाधमतीव सुमनोहरम् ।। २७ ।।
प्रासादवरसंस्थाश्च गवाक्षकगतास्तथा ।।
वेदिकास्थाश्च पश्यन्ति स्त्रियस्तं मन्मथार्दिताः ।। २८ ।।
स मुष्णन्योषितां चित्तं दृशश्च मनुजाधिपः ।।
लाजाचन्दनचूर्णैश्च कीर्यमाणः समन्ततः ।। २९ ।।
पुष्पैश्च स्त्रीकरोन्मुक्तैः पूर्यमाणो नराधिपः ।।
अभिगम्य च तत्रासौ देवतायतनांस्ततः ।। 1.156.३० ।।
प्रविवेश गृहं श्रीमच्छारदाभ्रचयोपमम् ।।
तत्राभिगमनं कृत्वा देवतानां यथाविधि ।। ३१ ।।
संपूज्य ब्राह्मणान्भक्त्या विविधैर्धनसञ्चयैः ।।
सभास्थं सान्त्वयामास पौरजानपदं जनम् ।। ३२ ।।
आश्वास्य प्रेषयामास गृहान्योधजनं तथा ।।
जनानुरागसंयुक्तस्ततः प्रभृति पार्थिवः ।। ३३ ।।
राजशास्त्रोपदेशेन पालयामास मेदिनीम् ।।
रेमे च सह रामाभिर्गन्धर्वप्रतिमो युवा ।। ३४ ।।
स तु कालेन महता राजा पञ्चत्वमागतः ।।
उवास सुचिरं कालं पूज्यमानः सुरोत्तमैः ।। ३५ ।।
मन्वन्तरे ह्यतीते तु चाक्षुषस्य महात्मनः ।।
वैवस्वतेऽथ सम्प्राप्ते बुधपुत्रत्वमागतः ।। ३६ ।।
तत्र तस्य तु यद्रूपं सौभाग्यादेव विश्रुतम् ।।
सशरीरस्य च तथा स्वर्लोके गमनं नृप ।। ३७ ।।
स्वर्गतोऽपि स राजर्षिः क्षीणे वैवस्वतेऽन्तरे ।।
प्रविश्यातिपुरं विष्णोश्चन्द्रमण्डलमध्यगम् ।। ३८ ।।
एतत्ते सर्वमाख्यातं कर्मणा येन पार्थिवः ।।
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ।। ३९ ।।
पूजयन्ति हरिं देवं सात्त्विकास्तु निराशिषः ।।
राजसाः कामकामाश्च क्रूरकामाश्च तामसाः ।। 1.156.४० ।।
हरिं सम्पूज्य मनसा राजसेन पुरूरवाः ।।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् बभौ ।। ४१ ।।
स्वर्गं सुदुर्लभं प्राप्य स्थानं प्राप्स्यति शाश्वतम् ।।
नास्ति विष्णुसमो नाथो नास्ति विष्णुसमा गतिः ।। ४२ ।।
नास्ति विष्णुसमं त्राणं नरस्यार्तस्य भेषजम् ।।
सत्कृतं पूजनं येन कृतं देवस्य चक्रिणः ।। ४३ ।।
आरात्रिकं कृतं तेन संप्राप्तं परमं पदम् ।।
येन संकीर्तितं राजन्हरिरित्यक्षरद्वयम् ।। ४४ ।।
बद्धः परिकरस्तेन मोक्षाय गगनं प्रति ।।
एतत्ते बुधपुत्रस्य त्रिषु जन्मसु पार्थिव ।।
चरितं सकलं प्रोक्तं येन सम्पूजितो हरिः ।। ४५ ।।
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्धनं च ।।
श्रोतव्यमेतन्नियतं च सद्भिराख्यानमूर्जस्करमृद्धिकामैः ।। ४६ ।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरूरवसस्स्वपुरगमनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ।।१५६ ।।