विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५४ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५५
वेदव्यासः
अध्यायः १५६ →

पुरूरवा उवाच।।
श्रोतुमिच्छामि भगवन्रूपसत्रं महाफलम्।।
यत्समाप्तौ भविष्यामि दिव्यरूपधरो मुने।।१।।
अत्रिरुवाच ।। तत्सत्रं कर्तुकामेन चान्वेष्यो ब्राह्मणो गुरुः ।।
ज्योतिषं यो विजानाति इतिहासांश्च कृत्स्नशः ।।२ ।।
तत्प्रदिष्टेन विधिना पादर्क्षात्प्रभृति क्रमात् ।।
उपोषितव्यं नक्षत्रं प्रत्येकं तन्निबोध मे ।। ३ ।।
फाल्गुन्यां समतीतायां कृष्णपक्षाष्टमी तु या ।।
समूलां तां तु सम्प्राप्य व्रतं गृह्णीत मानवः ।। ४ ।।
उपोषितव्यं नक्षत्रं नक्षत्रस्य च दैवतम् ।
वरुणं च तथा चन्द्रं पूजयेद्विधिना नरः ।। ५ ।।
पूजयेद्देवदेवेशं भगवन्तं जनार्दनम् ।।
उपोष्य सङ्गं देवस्य प्रयत्नेन च पूजयेत् ।। ६ ।।
ततोऽग्निहवनं कृत्वा पूजयित्वा तथा गुरुम् ।।
उपवासस्तु कर्तव्यो द्वितीयेऽहनि पार्थिव ।। ७ ।।
उपोष्य ऋक्षे विगते स्नात्वा सम्पूज्य केशवम् ।।
कृत्वाग्निहवनं शक्त्या पूजयित्वा द्विजोत्तमान् ।। ८ ।।
हविष्यमन्नं भोक्तव्यं शृणु चाङ्गक्रमं मम ।।
पादयोः कथितं मूलं प्राजापत्यं तु जङ्घयोः ।। ९ ।।
आश्विनं जानुयुगलं चोरुयुग्मं च पार्थिव ।।
सहिते द्वे तथाषाढे गुह्ये च सहिते स्मृते ।। 1.155.१० ।।
पूर्वोत्तरे च फाल्गुन्यौ कृत्तिकासु कटिर्भवेत् ।।
पार्श्वयोः कुक्षियुतयोर्नक्षत्रत्रितयं मतम् ।। ११ ।।
उभे प्रोष्ठपदे राजन्रेवती च तथा भवेत ।।
उरोऽनुराधासु तथा पृष्ठं निष्ट्यासु कीर्तितम् ।। १२ ।।
भुजौ ज्ञेयौ विशाखासु हस्ते प्रोक्तौ तथा करौ ।।
अङ्गुल्यश्च तथा प्रोक्ता राजसिंह पुनर्वसौ ।। १३ ।।
आश्लेषायां तथा प्रोक्ता ज्येष्ठायां नृप कन्धरा ।।
श्रवणौ श्रवणौ ज्ञेये मुखं पुष्ये प्रकीर्तितम् ।। १४ ।।
दन्ताः स्वातौ शतभिषा हनू प्रोक्तौ तथा नृप ।।
मघायां नासिका प्रोक्ता मृगशीर्षे च लोचने ।। १५ ।।
चित्रा ललाटे विज्ञेया भरण्यश्च तथा शिरः ।।
शिरोरुहास्तथार्द्रासु बतस्यान्ते नराधिप ।। १६ ।।
माघशुक्लावसाने तु सत्रं परिसमाप्यते ।।
यद्यन्तरायं न भवेत्किञ्चिच्छौचनिमित्तजम् ।। १७ ।।
अन्तरायं महाराज यदि शौचनिमित्तजम् ।।
उपोष्यमेवोपवसेन्नक्षत्रमपरं पुनः ।। १८ ।।
क्रमप्राप्तं हि नक्षत्रं चाशुद्ध्यामपवर्जितम् ।।
उल्लङ्घयन्महीपाल प्रत्यवायं समश्नुते ।।।३९।।।
अङ्गक्रमेण सकलमृक्षवर्गमुपोषितः।।
व्रतान्ते प्रयतः स्नात्वा पूजयेन्मधुसूदनम् ।। 1.155.२० ।।
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।।
जातीफलैः सकंकोलैर्लवङ्गकुसुमैस्तथा ।। २१ ।।
बोलगुग्गुलनिर्यासैः पुष्पैः कालोद्भवैः शुभैः ।।
धूपो नरेन्द्रागुरुणा चन्दनेन सुगन्धिना ।। २२ ।।
दीपाश्च देया राजेन्द्र तिलतैलप्रपूरिताः ।।
दीपेषु वर्तयः कार्य्या महारञ्जनरञ्जिताः ।। २३ ।।
नैवेद्यं च तथा कार्यं परमान्नेन भूरिणा ।।
दध्ना क्षीरामृताभ्यां च मधुना च गुडेन च ।। २४ ।।
सितया च तथा भक्ष्यैः फलमूलैर्यथाविधि।।
अपूपैः पानकैर्हृद्यैः शीतलैश्च सुगन्धिभिः ।। २५ ।।
लवणस्य च पात्राणि कृसरं च निवेदयेत् ।।
सर्वबीजानि राजेन्द्र भूषणानि च शक्तितः ।। २६ ।।
महार्हाणि च वस्त्राणि भक्त्या प्रयतमानसः ।।
तद्विष्णोः पग्ममिति होमः कार्यो ह्यनन्तरम् ।। २७ ।।
द्वादशाक्षरकं मन्त्रं स्त्रीशूद्रेषु विधीयते ।।
घृतं माक्षिकसंयुक्तं जुहुयात्त्तिलतण्डुसम् ।। २८ ।।
ततस्तु दक्षिणा देया गुरवे नृपसत्तम ।।
नागाश्च मदमत्ता वै ग्रामाश्च विविधास्तथा ।। २९ ।।
तुरगाश्च तथा मुख्या रत्नानि विविधानि च ।।
ब्राह्मणश्च पिता ज्ञेयो रूपसत्रप्रदर्शकः ।। 1.155.३० ।।
रूपसौभाग्यलावण्यजन्मभोगप्रदायकः ।।
राज्यस्य वा द्विजत्वस्य बहुवित्तस्य दायकः ।।।। ३१ ।।
न तस्य निष्कृतिः शक्या गन्तुं दानेन भूरिणा ।।
गुरुप्रसाद एवात्र दक्षिणानां तु कारणम् ।। ३२ ।।
तस्मात्प्रसादमाकाङ्क्षेद्रूपसत्र प्रदर्शकात ।।
अवश्यं तस्य दातव्यं घृतपूर्णं तु भाजनम् ।। ३३ ।।
चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ।।
ततः परं भोजनीयाः स्वशक्त्या द्विजपुङ्गवाः ।।३४।।
लवणक्षीरमध्वाज्यगुडभक्ष्यसितोत्कटम् ।।
भोजनं पानकोपेतं पश्चाद्देया च दक्षिणा ।। ३०८३ ।।
वस्त्रयुग्मं प्रदातव्यं ब्राह्मणाय नवं शुभम् ।।
ब्राह्मणाय च दातव्यं महाराजतरञ्जितम् ।। ३६ ।।
सप्तबीजानि देयानि लवणं रूप्यमेव च ।।
यच्चान्यदप्यभीष्टं स्याच्छत्रोपानत्कमेव च ।। ३७ ।।
वित्तशाठ्यं न कर्तव्यं सत्रदाने महीपते ।।
अवश्यदेयं सत्रेऽस्मिन्घृतपूर्णं च भाजनम् ।। ३८ ।।
चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ।।
व्रतेनानेन चीर्णेन देहत्यागे दिनं गतः ।।३९।।
तत्रोष्य सुचिरं कालं मानुष्ये यदि जायते ।।
राजा भवति धर्मात्मा ब्राह्मणो वा धनान्वितः ।। 1.155.४० ।।
कुले महति सम्भूतो रूपेणाऽप्रतिमो भुवि ।।
आरोग्यं महदाप्नोति सौभाग्यमपि चोत्तमम् ।। ४१ ।।
लावण्यं बुद्धि मेधे च मतिं धर्मे च शाश्वतीम् ।।
सम्पूर्णचन्द्रप्रतिमः सर्वसत्त्ववशङ्करः ।। ४२ ।।
नरो भवति राजेन्द्र नारी चाप्सरसोपमा ।।
सुभगा दर्शनीया च लावण्यगुणसंयुता ।। ४३ ।।
बहुधान्या बहुधना बहुभूपणसंयुता ।।
भर्तुश्चात्यन्तदयिता लोके ख्याता च सद्गुणैः ।।
नित्यारोग्यवती शान्ता सर्वदोषविवर्जिता ।।४४।।
चन्द्रानना नीलसरोजनेत्रा त्रैलोक्यकान्ता पतिवल्लभा च ।।४५।।
भवत्यवश्यं सुभगा सुनीला लावण्ययुक्ता यशसा श्रिया च ।। ४६ ।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रूपसत्रवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ।। १५५ ।।