विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५४
← अध्यायः १५३ | विष्णुधर्मोत्तरपुराणम् अध्यायः १५४ वेदव्यासः |
अध्यायः १५५ → |
मार्कण्डेय उवाच ।।
फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः ।।
तस्यैव देवदेवस्य शुश्राव गदितं शुभम् ।।१।।
रात्र्यामस्यां व्यतीतायां मन्त्रिणा त्वं समेष्यसि।।
तेन राजन्समागम्य कृतकृत्यो भविष्यसि ।। २।।
स्वप्नमेवं स राजर्षिर्दृष्ट्वा विपुलविक्रमः ।।
प्रत्यूषकाले विधिवत्स्नातः प्राग्वदतन्द्रितः ।। ३ ।।
कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् ।।
स्वप्नं तद्देवदेवस्य न्यवेदयत धार्मिकः ।। ४ ।।
ततः शुश्राव वचनं देवतार्चासमीरितम् ।।
एवमेतन्महीपाल नात्र कार्या विचारणा ।।
।। ५ ।। एवं प्रसादं संप्राप्य देवदेवाज्जनार्दनात् ।।
कृतकृत्यमिवात्मानं मेने स नरपुङ्गवः ।। ६ ।।
कृतदेवार्चनो राजा तदा हुतहुताशनः ।।
जगाद सुहृदां तेषां प्रसादं मधुसूदनात् ।। ७ ।।
तमूचुश्च तदा सर्वे राजानमपराजितम् ।।
विदधातु प्रसन्नस्ते देवदेवो जनार्दनः ।। ८ ।।
अप्रसन्ने जगन्नाथे देशेऽस्मिन्नृप कस्यचित् ।।
न गतिर्विद्यते राजंस्त्वं च देशमिहागतः ।। ९ ।।
सुखं प्राप्नुहि भद्रन्ते भूय एव हितेप्सितान् ।।
स सादयित्वा ते कामान्देवः सर्वगतः प्रभुः ।। 1.154.१० ।।
एवमुक्त्वा नरेन्द्रं तं गन्धर्वाप्सरसां गणाः ।।
जग्मुः क्रीडाविहारार्थं यथापूर्वमरिन्दम ।। ११ ।।
अथाजगाम तं देशं ब्रह्मणो मानसः सुतः ।।
त्रिजगद्यशसां स्थानमत्रिः सुरगणार्चितः ।। १२।।
तमागतं मुनिवरं दृष्ट्वा राजा पुरूरवाः ।।
पाद्यार्घ्याचमनीयाद्यैरासनेनाभ्यपूजयत् ।। १३ ।।
सम्पूज्य च महाभागमिदं वचनमब्रवीत् ।।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।। १४ ।।
यत्ते देवगणैर्वन्द्यौ वन्दितौ चरणौ मया ।।
श्रेयः प्रसूतिवृक्षस्य प्ररोहस्तव दर्शनम ।। १५ ।।
सर्वपापान्तकरणं सर्वकल्याणकारणम् ।।
किं वा न लभ्यमस्तीह तेषां द्विजवरोत्तम ।। १६ ।।
अमोघदर्शने दृष्टे भवत्यमिततेजसि ।।
एवमुक्तस्तदा राज्ञा संप्रसन्नो जगाद तम् ।। १७ ।।
शृणु राजन्वचो मह्यं यत्ते वक्ष्यामि सुव्रत ।।
देवदेवसमादेशाद्दत्तं ते दर्शनं मया ।। १८ ।।
सुप्रसन्नो हि भगवान्देवस्ते मधुसूदनः ।।
द्वादशीषु सदा राजन्सोपवासेन नित्यश ।। १९।।
पूजितो भगवान्विष्णुस्त्त्वयातीते तु जन्मनि ।।
राजसेन तु भावेन त्वया देवः समर्चितः ।। 1.154.२० ।।
अवरं काममाश्रित्य राजन्निहतकण्टकम् ।।
सात्त्विकेन तु भावेन पूजयित्वा जनार्दनम ।। २१ ।।
राज्यं मद्रेषु संप्राप्तं निप्कण्टकमरिन्दम ।।
द्वादश्यर्चाप्रसन्नेन देवदेवेन चक्रिणा ।। २२ ।।
प्रदर्शितमिदं स्थानं मदीयं स्वर्गसन्निभम् ।।
इह राजँस्तपस्तप्त्वा देवदेवं जनार्दनम् ।।२३।।
आराध्य दृष्टवानस्मि पुरा वरर्षगणान्बहून् ।।
प्राप्यानुज्ञां हृषीकेषात्तत्कृते विवरे शुभे ।।२४।।
नित्यं सन्निहिता राजंस्तस्यैवार्चा विनिर्मिता ।।
नियोगाद्देवदेवस्य पूज्यते सिद्धमत्तमैः ।। २५ ।।
नेयं दृष्टा मनुष्येन्द्र मनुष्यैर्न च राक्षसैः ।।
पिशिताशैस्तथैवान्यैर्दृष्टपूर्वा कथञ्चन ।। २६ ।।
अस्मिन्स्वर्गोपमे देशे त्वया लौल्येन कर्मणा।
आराधितो जगन्नाथो देवश्चक्रगदाधरः।।२७।।
आसन्नफलमूलेऽपि बहुगोरससंयुते।।
क्षौद्रयुक्तशिलाप्राये समाक्षिकफलैर्युते।।२८।।
केवलाम्भोशिना तप्तं यत्त्वया परमं तपः।।
तेन तेऽहं वरं दद्मि यदभीष्टं तवानघ।।२९।।
अचिरेणैव कालेन त्वया राजन्कृतं तपः।।
रूपार्थं रूपलाभाय प्राप्तं मे गदतः शृणु।।1.154.३०।।
तद्व्रतं ये करिष्यन्ति मनुजेश्वर मानवाः।।
स्त्रियो वापि नरश्रेष्ठ प्राप्स्यन्ते रूपमुत्तमम्।।३१।।
सौभाग्यमतुलं लोके लावण्यमपि चोत्तमम्।।
धर्मिष्टतां तथारोग्यं कुले जन्म तथोत्तमे।।३२।।
जन्मान्तरमथासाद्य स्वर्गलोकं तथाविधम्।।
स्वर्गलोकात्परिभ्रष्टा मानुष्ये गुणसंयुताः।।३३।।
ब्राह्मणा धनसम्पन्ना भविष्यन्त्यथवा नृपाः।।
जन्मान्तरमथासाद्य सर्वेस्यैव फलप्रदाः।।३४।।
रूपवंतो महाराज इहामुत्र च तेऽनघाः।।
यस्मात्त्वया तपस्तप्तं केशवश्चाथ पूजितः।।३५।।
मया समागतश्चापि गंधर्वैश्च सहस्रशः।।
इहैव कृत्वा धर्मज्ञ रूपसत्रं महाफलम्।।
दिव्यरूपधरो भूत्वा स्वराष्ट्रं गन्तुमर्हसि।।३६।।
एतावदुक्तः स तु मद्रनाथो महात्मना तेन नरेन्द्रसिंह।।
पप्रच्छ तं धर्मभृताम्वरिष्ठः सत्रस्य तस्यानुशयं विधानम्।।३७।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवसोऽत्रिदर्शनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः।।१५४।।