विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५३
वेदव्यासः
अध्यायः १५४ →

मार्कण्डेय उवाच ।।
गत्वाश्रमपदे राजा त्यक्ताहारपरिच्छदः ।।
क्रीडाविहारैर्गन्धर्वैः पश्यत्यप्सरसस्सह ।। १ ।।
कृत्वा पुष्पोच्चयं भूरि ग्रथयित्वा तथा स्रजः ।।
अग्रे निवेद्य देवाय गन्धर्वेभ्यस्तथा ददौ ।।२ ।।
पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् ।।
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ।। ३ ।।
काश्चित्पुष्पोच्चये सक्ता लताजालेन वेष्टिताः ।।
सखीजनेन सन्त्यक्ताः कान्तेन परमोक्षिताः ।। ४ ।।
मकरन्दसमाक्रान्तनयनाः काश्चिदङ्गनाः ।।
कान्तनिःश्वासवातेन नीरजस्कीकृतेक्षणाः ।। ५ ।।
काचिदुच्चित्य पुष्पाणि ददौ कान्तस्य भामिनी ।।
कान्तसड्ग्रथितैस्तैश्च रराज कृतशेखरा ।। ६ ।।
स्वयमुच्चित्य सङ्ग्रन्थ्य रमणकृतशेखरा ।।
कृतकृत्यमिवाऽऽत्मानं मेने मन्मथवर्धिनी ।। ७ ।।
अन्यस्मिन्गहने कुञ्जे विशेषकुसुमा लता ।।
काचिदेवं रहो नीता रमणेन रिरंसुना ।। ८ ।।
कान्तसन्नामितलताकुसुमानि विचिन्वती ।।
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ।। ९ ।।
क्वचित्पश्यति भूपालो नलिनीषु पृथक्पृथक् ।।
क्रीड्यमानास्तु गन्धर्वैदैवरामा मनोरमाः ।। 1.153.१० ।।
काचिच्चाताडयत्कान्तमुदकेन शुचिस्मिता ।।
ताड्यमाना तथैवान्या कान्तेन रतिमाययौ ।। ११ ।।
कान्ता तु ताडयामास जातखेदा वराङ्गना ।।
अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा ।। १२ ।।
कान्ताम्बुताडन भ्रष्टकेशपाशनिबन्धना ।।
श्वासाकुलमुखी भाति मधुपैरिव पद्मिनी ।। १३ ।।
स्ववक्त्रसदृशैः पुष्पैः संछन्ननलिनीवने ।।
छन्ना काचिच्चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः ।। १४ ।।
स्नाता शीतापदेशेन काचित्प्रौढाङ्गना भृशम् ।।
रमणालिङ्गनं चक्रे मनोभिऽलषितं चिरम् ।। १५ ।।
जलार्द्रं वसनं सूक्ष्ममङ्गलीनं शुचिस्मिता ।।
धारयन्ती जनं चक्रे काचित्तत्र समन्मथम् ।।१६।।
गन्धमाल्यगुणैः काचित्कान्त्तेनाकृष्य चाम्भसि ।।
त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम् ।।१७।।
काचिन्मग्नसखीदत्तजानुदेशनखक्षता ।।
सम्भ्रमात्कान्तरमणमग्ना सापि न्यमज्जत ।। १८ ।।
काचित्पृष्ठीकृतादित्या केशनिस्तोयकारिणी ।।
शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा ।।१९।।
हृतमाल्यं सुललितं संक्रान्तकुचकुङ्कुमम् ।।
रतान्तक्लान्तकान्ताभमभवत्तत्सरोदकम् ।।1.153.२०।।
सुस्नातदेवगन्धर्वदेवरामागणेन च ।।
पूज्यमानं स ददृशे देवदेवं जनार्दनम् ।। २१ ।।
क्वचिच्च ददृशे राजा लतागृहगताः स्त्रियः ।।
मण्डयन्त्यः स्वगात्राणि कान्तसन्यस्तमानसाः ।।२२।।
काचिदादर्शसुव्यग्रकरा दूतीमुखोद्गतम् ।।
शृण्वती कान्तवचनमतिक्लान्तमुखा बभौ ।।२३ ।।
काचित्सत्वरिता दूत्या भूषणानां विपर्ययम् ।।
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ।। २४ ।।
वायुनुन्नांतसुरभि कुसुमोत्करमण्डिते ।।
क्वचित्पिबन्त्यो ददृशे प्रदेशे नीलशाद्वले ।।२९।
पाययामास रमणं स्वयं काचिद्वराङ्गना ।।
काचित्पपौ वरारोहा कान्तपाणि समर्पितम्।।२६।।
काचित्स्वनेत्रसंक्रान्तनीलोत्पलयुतं वधूः।।
पीत्वा पप्रच्छ रमणं क्व गते ते महोत्पले।।२७।।
त्वयैव पीते ते नूनमित्युक्ता रमणेन सा ।।
सत्यं विदित्वा मुग्धत्वाद्बभूव व्रीडिता चिरम् ।।२८।।
काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् ।।
सविशेषरसं पानं पपौ मन्मथवर्धनम्।।२९।।
आपानगोष्ठीषु तदा तासां स नरपुङ्गवः ।।
शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम् ।। 1.153.३० ।।
प्रदोषसमये ताश्च देवदेवं जनार्दनम् ।।
राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः ।। ३१।।
याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् ।।
आयान्ति संयुताः कान्तैः स्वऋद्धिरचितान्गृहान् ।।३२।।
नानागन्धार्चिततलान्नानागन्धसुगन्धिनः ।।
नानाविचित्रशयनान्कुसुमोत्करमण्डितान् ।। ३३ ।।
एवमप्सरसां पश्यन्क्रीडितानि स पर्वते ।।
तपस्तेपे महाराजः केशवार्पितमानसः ।। ३४ ।।
तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरणां गणाः ।।
राजन्स्वर्गोपमं देशं प्राप्तस्त्वमरिमर्दन ।। ३५।।
वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् ।।
तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः ।। ३६ ।।
पुरूरवा उवाच।।
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः ।।
वरं वितराद्यैव प्रसादं मधुसूदनात् ।। ३७ ।।
मार्कण्डेय उवाच ।।
एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः ।।
तत्रोवास सुखी मासं पूजयानो जनार्दनम् ।। ३८ ।।
प्रिय एव सदैवासीद्गन्धर्वाप्सरसां नृप ।।
तुतोष स जनो राज्ञस्तस्यालौल्येन कर्मणा ।। ३९ ।।
मघस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम्।।
तोयाशनस्तत्र उवास मासं यावत्सितान्तं नृप फाल्गुनस्य ।। 1.153.४० ।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे जलक्रीडावर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ।। १५३।।