विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५२
वेदव्यासः
अध्यायः १५३ →

मार्कण्डेय उवाच।।
तत्र यौ तौ महाशृङ्गौ महावर्षमहाहिमौ।।
तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम् ।। १ ।।
नित्यातपं तप्तशिलं सदा भगतिवर्जितम् ।।
तस्याधस्ताद्द(?)क्षगणे देशे भागे च पश्चिमे ।। २ ।।
जातीलतापरिक्षिप्तं विवरं चारुदर्शनम्।।
दृष्ट्वैव कौतुकाविष्टस्तं विवेश महीपतिः।।३।।
तमसा चातिनिबिडं नल्वमात्रं महीपतिः।।
नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्वलम् ।।।। ४ ।।
समुच्छ्रितमथात्यन्तं गम्भीरं परिवर्तुलम् ।।
न तत्र सूर्यस्तपति न विराजति चन्द्रमाः ।। ५ ।।
तथापि दिवसाकारं प्राकाश्यं तदहर्निशम् ।।
क्रोशाधिकपरीमाणं सरसा च विराजितम् ।।६।।
समन्तात्सरसस्तस्य शैललग्ना तु वेदिका।।
सौवर्णै राजतैर्वृक्षैर्विद्रुमैरपि शोभिता ।। ७ ।।
नाना माणिक्यकुसुमैः स्वप्रभाभरणोज्ज्वलैः ।।
तस्मिन्सरसि पद्मानि पद्मरागच्छदानि च ।। ८ ।।
वज्रकेसरजालानि सुगन्धीनि तथाप्यति ।।
पत्रैर्मरकतैर्नीलवैदूर्यैश्च महीपते ।। ९ ।।
कर्णिकाश्च तथाशेषा जातरूपस्य पार्थिव ।।
तस्मिन्सरसि या भूमिर्न सा कर्दमसङ्कुला ।। 1.152.१० ।।
नानारत्नैरुपचिता जलजानां समाश्रया ।।
कपर्दकानां शुक्तीनां शङ्खानां च महीपते ।। ११ ।।
मकराणां च मत्स्यानां पैण्डानां कच्छपैः सह ।।
तत्र मरतकखण्डानि वज्राणि च सहस्रशः ।।१२।।
पद्मरागेन्द्रनीलानि महानीलानि पार्थिव ।।
पुष्परागाणि रम्याणि तथा कर्केतकानि च ।।१३।।
तुरूकस्य च खण्डानि तथा शेप(?)स्य भागशः ।।
गजावर्त्तस्य मुख्यस्य रुधिराख्यस्य चाप्यथ ।। १४ ।।
सूर्येन्दुकान्तयोश्चैव पीलोर्भल्लातकस्य च ।।
ज्योतीरसस्य रम्यस्य शङ्खकस्य च भागशः ।। १५ ।।
मसारगवलङ्कानां स्फटिकस्य तथैव च।।
गोमेदपित्तकानां च धूली मरकतस्य च ।। १६।।
वैदूर्यसौगन्धिकयोस्तथा राजमणेर्नृप ।।
खञ्जस्य चैव मुख्यस्य तथा ब्रह्ममणेरपि ।।१७।।
मुक्ताफलानां मुख्यानां ताराविग्रहधारिणाम् ।।
सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम् ।।१८।।
वैदूर्यस्य शिलामध्ये सरसस्तस्य शोभना।।
प्रमाणेन तथा सा च द्वे च राजन्धनुःशते।।१९।।
चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ।।
बिलद्वारसमे देशे केतुस्तत्र हिरण्मयः ।।1.152.२०।।
प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे ।।
तथा पुष्करिणी रम्या तस्मिन्राजञ्छिलातले ।।२१।।
सुशीतामलपानीया जलजैश्च विराजिता ।।
आकाशविमला राजंश्चतुरस्रा मनोहरा ।। २२ ।।
तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धि च ।।
न क्षिणोति तथा कायं कुक्षिमापूरयत्यपि ।।२३।।
तृप्तिं विधत्ते परमां शरीरे च महत्सुखम् ।।
मध्ये च तस्याः सुकृतं प्रासादं तपसात्रिणा ।। २४ ।।
रुक्मसेतुप्रवेशं तत्सर्वरत्नमयं शुभम् ।।
शशाङ्करश्मिसङ्काशं प्रासादं राजतं हितम् ।।२५।।
रम्यं वैदूर्यसोपानं विद्रुमामलतारकम् ।।
इन्द्रनीलमहाचक्रञ्जातरूपविभूषितम्।।२६।।
पद्मरागमहास्तंभं तथा मरकतवेदिकम् ।।
वज्रांशुजालैश्छुरितं रम्यं दृष्टिमनोहरम् ।।२७।।
प्रासादे तत्र भगवान्देवदेवो जनार्दनः ।।
भोगिभोगावलीसुप्तः सर्वालङ्कारभूषितः ।। २८ ।।
जानुमाकुञ्चितस्त्वेकं देवदेवस्य चक्रिणः ।।
फणीन्द्रसन्निविष्टांघ्रि द्वितीयश्च तथा नृप ।। २९ ।।
लक्ष्म्युत्सङ्गगतांघ्रिस्तु शेषभोगप्रसारितः ।।
फणीन्द्रभोगविन्यस्तबाहुकूर्परशोभितः ।। 1.152.३० ।।
स्वाङ्गुलीपृष्ठविन्यस्त देवशीर्षधरं विभुम्।।
एकं तु देवदेवस्य द्वितीयं संप्रसारितम् ।। ३१ ।।
समाकुञ्चितजानुस्थमणिबन्धसुशोभितम् ।।
किञ्चिदाकुञ्चितं चैव नाभिदेशे करस्थितम् ।।३२।।
तृतीयं च भुजं तस्य चतुर्थं तु तथा शृणु ।।
आत्तसन्तानकुसुमं प्राणदेशानुसर्पिणम् ।।३३।।
लक्ष्म्या संवाह्यमानांघ्रिः फुल्लपद्मनिभैः करैः ।।
सन्तानमालामुकुटहारकेयूरभूषितम्।। ३४ ।।
भूषितं च तथा देवमङ्गुलीयकैः ।।
फणीन्द्रफणविन्यस्तचारुरत्नशिखोज्ज्वलम् ।। ३५ ।।
अज्ञातवस्तुचरितं प्रतिष्ठितमथात्रिणा ।।
सिद्धान्तपूज्यं सततं समन्तात्कुसुमार्चितम्।।३६।।
दिव्यगन्धावलिप्ताङ्गं दिव्यधूपेन धूपितम् ।।
गोरसैः सफलैर्हृद्यैः सिद्धैरुपहृतैः सदा ।। ३७ ।।
संशोभितं पुरःपार्श्वं देवमुत्तमशीर्षकम्।।
तथा पश्चान्मुखं दृष्ट्वा ववन्दे स नराधिपः ।।३८।।
जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि ।।
नाम्नां सहस्रेण तथा तुष्टाव मधुसूदनम् ।। ३९ ।।
प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः ।।
रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे नृपः ।। 1.152.४० ।।
विशालां हि गुहां काञ्चिदाश्रित्य सुमनोहराम् ।।
तपश्चचार तत्रैव पूजयानो जनार्दनम् ।।४१।।
नानाविधैः सदा पुष्पैः फलैर्मूलैः सगोरसैः ।।
नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ।। ४२ ।।
देववापीजलैः कुर्वन्सततं प्राणधारणम् ।।
सर्वाहारपरित्यागं स कृत्वा मनुजेश्वरः ।। ४३ ।।
अनाश्रितगुहाशायी कालं नयति पार्थिवः ।।
त्यक्ताहारक्रियस्यास्य केवलाम्भोऽशिनस्तथा ।।
ग्लानिस्तस्य समायाति न शरीरे तदद्भुतम् ।।४४।।
एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव ।।
तत्राश्रमे कालमुवास कश्चित्स्वर्गोपमे दुःखमविन्दमानः ।। ४५।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आश्रमवर्णनो नाम द्विपञ्चाशदधिकशततमोऽध्यायः ।। १५२ ।।