विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५१

विकिस्रोतः तः
← अध्यायः १५० विष्णुधर्मोत्तरपुराणम्
अध्यायः १५१
वेदव्यासः
अध्यायः १५२ →

।। मार्कण्डेय उवाच ।।
तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोहरम् ।।
अगम्यं मानुषैरन्यैर्दैवयोगादुपागतः ।। १ ।।
इरावती सरिच्छ्रेष्ठा यस्माद्देशा द्विनिर्गता ।।
मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः ।। २ ।।
सालैस्तालैस्तमालैश्च कर्णिकारैः सशाल्मलैः ।।
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपाद्रुमैः ।। ३ ।।
श्लेष्मातकैरामलकैर्हरीतकविभीतकैः ।।
रम्यैश्चन्दनवृक्षैश्च कपित्थै रक्तचन्दनैः ।।४।।
वटमाहिषकाक्षोटैरश्वकर्णैस्तथार्जुनैः ।।
हस्तिकर्णैः सपनसैः कोविदारैः सुपुष्पितैः ।।५।।
देवदारुमहावृक्षैस्तथा कालीयकद्रुमैः ।।
पद्मकैश्चन्दनैर्बिल्वैः कुटजैर्हरिचन्दनैः ।। ६ ।।
प्राचीनागुरुकैश्चैव स्थूणिकैः समशण्डिकैः ।।
खर्जूरैर्नारिकेरैश्च प्रियाल्वाम्रातकेङ्गुदैः ।।७।।
तेरुमानैर्वटेर्भन्यैः काश्मीरैः फलिभिस्तथा ।।
जातीफलैः पूगफलैः कट्फलैर्लवलीफलैः ।। ८ ।।
मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुभिः ।।
पलाशैः शमिसूल्लासैर्वेतसैरम्लवेतसैः ।। ९ ।।
रक्तातिरङ्गनारिङ्गैरिंगुदैः सप्रियंगुभिः ।।
रक्ताशोकैस्तथाऽशोकैरारुकैः सचिरारुकैः।।1.151.१०।।
मुचुकुन्दैस्तथा कुन्दैराटरूषपरूषकैः ।।
किंकरातैः किरातैश्च केतकैश्च सकेतकैः।।११।।
शोभाञ्जनैरञ्जनैश्च मुकूलकनिकोचकैः ।।
सुपूर्णचारुवसनैर्द्रुमैः श्रेष्ठैस्तथासनैः ।। १२ ।।
मन्मथस्य शराकारैस्सहकारैर्मनोहरैः ।।
पीतयूथिकया राजञ्श्वेतयूथिकया तथा ।।१३।।
जात्या चम्पकजात्या च तुम्बुरैश्चाप्युदुम्बरैः ।।
माषैश्चोच्चैस्सलकुचैस्तिलम्बलकुशम्बलैः ।। १४ ।।
तथा सुपुष्पाव रणैर्वरणैः कामिवल्लभैः।।
पुष्पाकुलैश्च बकुलैः पारिभद्रकभद्रकैः।।१५।।
धाराकदंबैः कुटजैः कदंबैर्गिरिकूटजैः।।
आक्रान्तसर्वककुभैः ककुभैः कमनीयकैः।। ।।१६।।
कर्कन्धुबदरैर्नीपैः दीपैरिव महोज्ज्वलैः ।।
रक्तैः पालीवतैः श्वेतैर्दाडिमैश्चण्यकद्रुमैः ।।१७ ।।
प्रतानैः पिप्पलीनां च नागवल्याश्च भागशः ।।
मरिचस्य तथा गुल्मैर्नवमल्लिकया तथा ।। १८ ।।
मृद्वीकामण्डलैर्मुख्यैरतिमुक्तकमण्डलैः ।।
त्रपुसैर्वारुकानां च प्रतानैः सफलैः शुभैः ।। १९ ।।
कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित्।।
चिर्भटस्य प्रतानैश्च पटोलैः कारवेल्लकैः ।। 1.151.२० ।।
कर्कोटकैः प्रतानैश्च वार्ताकैर्बृहतीफलैः ।।
कह्लारैर्मूलकैर्मुख्यैः शाकैश्च विविधैस्तथा ।।२१।।
सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ।।
काकोलीक्षीरकाकोली छत्रया चातिच्छत्रया ।।२२ ।
काकमाचीमहाबद्धिशशकर्द्दलकन्दलैः ।।
तथा क्षीरिकशाकेन कालशाकेन चाप्यथ ।। २३ ।।
शिम्बिधान्यैस्तथा धान्यैः सर्वैर्निरवशेषतः ।।
ओषधीभिर्विचित्राभिदीप्यमानाभिरेव च ।। २४ ।।
कन्दैर्विदार्या च तथा तरूटैः स्वादुसंयुतैः ।।
सुनिषण्णाशटीशेषाराजक्षयकवास्तुकैः ।। २५ ।।
आयुष्याभिर्यशस्याभिर्वर्ण्याभिश्च नराधिप ।।
जरामृत्युभयघ्नाभिः क्षुद्भयघ्नाभिरेव च ।। २६ ।।
सौभाग्यजननीभिश्च वृष्याभिश्चाप्यनेकशः ।।
वेत्रवेणुलताभिश्च तथा कीचकवेणुभिः ।। २७।।
काशैः शशाङ्कसंकाशैः शरगुल्मैस्तथा क्वचित् ।।
कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चेक्षुमनोहरैः ।। २८ ।।
कार्पासया तुवर्या च दुकूलेन शुभेन च ।।
तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः ।। २९ ।।
तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ।।
इरापुष्पसमायुक्तैः कुङ्कुमस्य च भागशः ।। 1.151.३० ।।
तगरातिविषामांसीग्रन्थिपर्णीसुरागदैः ।।
सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथा परैः ।। ३१ ।।
जम्बीरिकाभूस्तृणैश्च सरसैः सृमुकैस्तथा ।।
शृङ्गवेराजमोदाभिः कुठेरकप्रियालुकैः ।। ३२ ।।
जलजैश्च तथा पद्मैर्नानावर्णैः सुगन्धिभिः ।।
उदयादित्यसंकाशैः पूर्णचन्द्रनिभैस्तथा ।। ३३ ।।
तपनीयसवर्णैश्च अतसीपुष्पसन्निभैः ।।
शुकपत्रनिभैश्चान्यैः स्थलपद्मैश्च भागशः ।। ३४ ।।
पञ्चवर्णैः समाकीर्णं बहुवणैस्तथैव च ।।
दुष्टदृष्ट्याहितमुदैः कुसुमैश्चन्द्रसन्निभैः ।। ३५ ।।
तथा वह्निशिखाकारै राजन्रक्तोत्पलैः शुभैः ।।
नीलोत्पलैः सकह्लारैर्दुर्ज्जातककशेरुकैः ।। ३६ ।।
शृङ्गाटकैर्मृणालैश्च कावाटै राक्षसोत्पलैः ।।
जलजैः स्थलजैर्मूलैः फलैः पुष्पैरशेषतः ।। ३७ ।।
विविधैश्चैव नीवारैर्मुनिभोज्यैर्नराधिप ।।
न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् ।। ३८ ।।
न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ।।
नागलोकोद्भवं यच्च नाकलोकोद्भवं च यत् ।। ३९ ।।
अनूपबन्धनोत्थं च तन्न यत्रास्ति यादव ।।
सदा पुष्पफलं सर्वमजस्रमृतुयोगतः ।। 1.151.४० ।।
महेश्वरः स ददृशे तपसोऽर्थाय वो गतः ।।
ददृशे च तथा तत्र नानारूपान्पतत्रिणः ।। ४१ ।।
मयूराञ्शतपत्राँश्च कलवाचककोकिलान् ।।
तथा कादम्बकान्हंसान्कुक्कुटाञ्जलकुक्कुटान् ।।8२।।
कृकरान्बर्कशाञ्श्यामांस्तित्तिरान्सकपिञ्जलान् ।।
धार्तराष्ट्रान्प्लवान्मद्गून्कलविङ्काञ्छुकान्बकान् ।। ४३ ।।
चटकांश्चक्रवाकांश्च आटकांष्टिट्टिभान्सटान् ।।
पुत्रप्रियांल्लोहपृष्टान्गोनन्दगिरिवर्तकान् ।। ४४ ।।
पारावतान्कामलांश्च शारकाञ्जीवजीवकान् ।।
लाववर्तकवत्तीरान्रक्तधर्मप्रभद्रकान् ।।४५।।
ताम्रचूडान्वर्णचूडान्कोयष्टीन्खञ्जरीटकान् ।।
ऋषिपुत्रान्सहारीतान्कुक्कुटान्काष्ठकुक्कुटान् ।। ४६ ।।
लट्वाँल्लटेषून्गोक्ष्वेडांस्तथा कुङ्कुमचूडकान् ।।
भृङ्गराजाञ्छारपादान्भूलिङ्गान्पिण्डिमालवान्।।४७।।
मंजूलीयकदात्यूहगोपपुत्रान्त्सवञ्जुलान् ।।
भारद्वाजांस्तथा चाषान्सुवर्णान्रजनीयकान् ।।४८।।
एतांश्चान्यांश्च हि बहून्पक्षिसंघान्मनोहरान् ।।
श्वापदान्विविधाकारान्मृगांश्चैव महामृगान् ।। ४९ ।।
व्याघ्रान्केसरिणः सिंहान्वीचिनः शरभान्वृकान् ।।
ऋक्षांस्तरक्षून्बन्धूकान्गोलाङ्गूलान्सवानरान् ।। 1.151.५० ।।
शशाँल्लोकाच्छशपलान्मार्जारान्मायवः शुनः ।।
मृषिकान्नाकुलान्काचान्सिंहान्नोड्रसुरोमकान् ।। ५१ ।।
तथा मत्तांश्च मातङ्गान्महिषान्गवयान्वृ षान्।।
चरमान्सृमरांश्चैव तथा गोरान्नखानपि ।।५२।।
उरभ्रांश्च तथा मेषान्सारङ्गानथ कर्कशान् ।।
रुरून्जमृष्पदानृष्पान्मर्कटान्कर्कटान्मृगान् ।।
नीलांश्चैव महानीलान्करालमृगमार्दकान् ।।५३।।
श्वदंष्ट्रान्रामशरभान्कोडकाकपशम्बरान् ।।५४।।
करालान्कृतमालांश्च कालपुच्छाँस्तथारुणान् ।।
उष्ट्रान्गजान्वराहाँश्च तुरगान्खरगर्दभान्।। ५५ ।।
एतान्पश्यन्स मद्रेशो विरुद्धांश्च परस्परम् ।।
अविरुद्धान्वने तस्मिन्निर्वृतिं च परां ययौ ।।।। ५६ ।।
तदाश्रमपदे मुख्यो बभूवात्रिः पुरा नृप ।।
तत्प्रसादात्सदा युक्तं स्थावरैर्जङ्गमैस्तथा ।। ५७ ।।
हिंसन्ति न तथाऽन्योन्यं हिंसकास्तु परस्परम् ।।
क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः ।। ५८।।
निर्मितास्तत्र रत्यर्थमत्रिणा सुमहात्मना ।।
शिलानां निम्नदेशेषु तत्र गावः स्वयं नृप ।। ५९ ।।
पयः क्षरन्ति तद्दिव्यममृतस्वादुसन्निभम् ।।
क्वचिद्राजमहिष्यश्च क्वचिद्राजा च भागशः ।। 1.151.६० ।।
शिलाः क्षीरेण संपूर्णा दध्ना चान्यत्र यादव ।।
स पश्यन्परमां प्रीतिमवाप वसुधाधिपः ।।६१।।
सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ।।
मृणालकानि दिव्यानि शीतलानि च भागशः ।। ६२ ।।
कन्दराणि च शैलस्य सुखसेव्यानि यादव ।।
हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् ।। ६३ ।।
उपत्यकासु शैलस्य शिखरेषु तु विद्यते ।।
तत्रापि राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम् ।। ६४ ।।
हिमपातं सदा तत्र घनाः कुर्वन्ति संहताः ।।
तत्रास्ति चापरं शृङ्गं यत्र तोयं घना घनाः ।। ६५ ।।
नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं खरम् ।।
तदाश्रमं मनोहारि यत्र कामधरा धराः ।। ६६ ।।
सुरमुख्योपभो ग्यत्वाच्छाखिनः सफलाः सदा। ।।
सदोपगीतभ्रमरं सुरस्त्रीसेवितामरम् ।। ६७ ।।
सर्वपापक्षयकरं शैलस्येव महाकरम् ।।
वानरैः क्रीडमानैश्च देशे देशे नराधिप।।६८।।
हंसपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः।।
तदाश्रमसमन्ताच्च हिमसंरुद्धकन्दरम्।।६९।।
शैलवाटैः परिवृतमगम्यं मनुजैः सदा।।
पूर्वाराधितदेवेशो महाराजः पुरूरवाः।।1.151.७०।।
तदाश्रममनुप्राप्तो देवदेवप्रसादतः।।
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम्।।
कृतं च तत्स्वयमथ चात्रिणा शुभं शुभप्रदं तं ददृशे स मद्रराट्।।७१।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे महर्ष्याश्रमवर्णनन्नामैकपञ्चाशदधिकशततमोऽध्यायः।।१५१।।