विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४५ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४६
वेदव्यासः
अध्यायः १४७ →

दाल्भ्य उवाच ।।
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम् ।।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ।। १ ।।
अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रबवीतु मे ।।
संसारहेतुं मुक्तिश्च संसारान्मुनिसत्तम ।। २ ।।
पुलस्त्य उवाच ।।
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।।
संसारस्यास्य तन्मुक्तिः संक्षेपाच्छ्रूयतां मम ।। ३ ।।
स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ।।
कुर्वतः क्षीयते पूर्वमन्यबन्धश्च नेष्यते ।। ४ ।।
अपूर्वसंभवाभावात्क्षयं याते तु कर्मणि ।।
दाल्भ्य संसारविच्छेदः कारणाभावसंभवः ।। ५ ।।
भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम् ।।
संसारविच्युतेर्दाल्भ्य समासाद्वदतो मम ।। ६ ।।
गृहीता कर्मणा येन पुंसा जातिर्द्विजोत्तम ।।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ।। ७ ।।
ब्राह्मणक्षत्त्रियविशां शूद्रान्त्यानां च सत्तम ।।
स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ।। ८ ।।
जातिप्रदस्याक्षयदं तदेवाद्यस्य कर्मणः ।।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ।। ९ ।।
पुमाँश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम ।।
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययात्मना ।।1.146.१०।।
एतत्ते कथितं दाल्भ्य संसारस्य समासतः ।।
कारणं भवमुक्तिश्च जायते योगिनो यथा ।। ११ ।।
मार्कण्डेय उवाच ।।
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ।।
आराधयामास हरिं लेभे कामाँश्च वाञ्छितान् १२ ।।
तथा त्वमपि राजेन्द्र केशवाराधनं कुरु ।।
आराध्य तं जगन्नाथं न कश्चिदवसीदति ।। १३ ।।
एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ।।
अनाराध्याच्युतं देवं कः कामानाप्नुयान्नरः ।। १४ ।।
वज्र उवाच ।।
भगवानवतीर्णोऽभून्मर्त्यलोकमिहाच्युतः ।।
भारावतारणार्थाय भुवो भूमिपतिर्हरिः ।।१५।।
मानुषत्त्वे च गोविन्दो मम पूर्वपितामहः ।।
चकार प्रीतिमतुलां पाण्डुपुत्रैः सह द्विज ।।१६।।
सारथ्यं कृतवाँश्चैव तेषां सर्वेश्वरो हरिः ।।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः ।।१७।।
उपकारी महाभागः स तेषां सर्ववस्तुषु ।।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ।। १८ ।।
धन्यास्ते कृतपुण्याश्च ते मे पाण्डुसुता मताः ।।
विविशुर्ये परिष्वङ्गैर्गोविन्दभुजपञ्जरम् ।। १९ ।।
राज्यहेतोररीञ्जघ्नुर कस्मात्पाण्डुनन्दनाः ।।
सप्तलोकैकनाथेन ये भवन्त्येकशायिनः ।। 1.146.२० ।।
आत्मानमनुगच्छामि भगवन्गतकल्मषम् ।।
जातं निर्धूतपापेऽस्मिन् कुले विष्णुपरिग्रहे ।। २१ ।।
एवं देववरस्तेषां प्रसादसुमुखो हरिः।।
पृच्छतां कच्चिदाचष्ट किञ्चिद्गुह्यं महात्मनाम् ।। २२ ।।
गुह्याञ्जनार्दनं याँस्तु धर्मपुत्रो युधिष्ठिरः ।।
पप्रच्छ धर्मानखिलाँस्तान्समाख्यातुमर्हसि ।। २३ ।।
धर्मार्थकाममोक्षेषु यद्गुह्यं मधूसूदनः ।।
तेषामवोचद्भगवाञ्छ्रोतुमिच्छामि तत्त्वतः ।। २४ ।।
मार्कण्डेय उवाच ।।
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः ।।
पुरा प्रोवाच राजेन्द्र प्रसादसुमुखो हरिः। ।। २५ ।।
शरतल्पगताद्भीष्माद्धर्माञ्छ्रुत्वा युधिष्ठिरः ।।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ।। २६ ।।
पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ।।
युधिष्ठिर उवाच ।। ।।
भगवन्वैष्णवा धर्माः किंफलाः किंपरायणाः ।। २७ ।।
किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा ।।
यदि ते पाण्डवस्नेहो विद्यते मधुसूदन ।। २८ ।।
श्रोतव्यास्ते मया धर्मास्ततस्तान्कथयाखिलान् ।।
पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः ।। २९ ।।
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ।।
याञ्छ्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।। 1.146.३० ।।
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ।।
एतन्मे कथितं सर्वं सभामध्ये सुरोत्तम ।। ३१ ।।
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ।।
ततोऽहं तव देवेश पादमूलमुपागतः ।। ३२ ।।
धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ।।
श्रुत्वा मे मानवान्धर्मान्वासिष्ठान्वा महाफलान् ।। ३३ ।।
पराशरकृताँश्चैव तथाऽत्रेयस्य धीमतः ।।
श्रुत्वा शङ्खस्य गार्ग्यस्य लिखितस्य यमस्य च ।। ३४ ।।
जाबालेश्च महाबाहोर्मुनेर्द्वैपायनस्य च ।।
उमामहेश्वराश्चैव जातिधर्माश्च पावनाः ।। ३५ ।।
गुणस्य गुणबाहोश्च काश्यपेयास्तथैव च ।।
बह्वायनकृताश्चैव शाकुनेयास्तथैव च ।। ३६ ।।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ।।
भृगोरङ्गिरसश्चैव कश्यपोद्दालकोदिताः ।। ३७ ।।
सुमन्ता जैमिनीयाश्च पैलस्य च महात्मनः ।।
वैशम्पायनगीताश्च पिप्पलादकृताश्च ये ।। ३८ ।।
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपोणकाः ।।
आपस्तम्बकृता धर्मास्तथा गोपालकस्य च ।। ३९ ।।
भृग्वङ्गिरःकृताश्चैव सौरा हारीतकास्तथा ।।
श्रीभगवानुवाच ।।
शृणु राजन्महाबाहो धर्मात्मन्कुरुनन्दन ।।1.146.४०।।
धर्मवृद्धिकरं वच्मि वृषभस्य तु लक्षणम् ।।
ऋषभः स समुद्राख्यः सततं कुलवर्धनः ।। ४१ ।।
मल्लिकापुष्पचित्रश्च धन्यो भवति पुङ्गवः ।।
कामलैर्माण्डलैश्चापि चित्रो भवति भोगदः ।। ४२ ।।
अतसीपुष्पवर्णश्च तथा धन्यतरः स्मृतः ।।
एते धन्यास्तथा धन्यान्कीर्तयिष्यामि ते नृप ।। ४३ ।।
कृष्णताल्वोष्ठ दशना रूक्षशृङ्गशफाश्च ये ।।
अव्यक्तवर्णा ह्रस्वाश्च व्याघ्रभस्मनिभाश्च ये ।। ४४ ।।
ध्वाङ्क्षगृध्रसवर्णाश्च तथा मूषकसन्निभाः ।।
कुब्जाः काणास्तथा खञ्जाः केकराक्षास्तथैव च ।। ४५ ।।
विषमश्वेतपादाश्च उद्भ्रान्तनयनस्तथा ।।
न ते वृषाः प्रोक्तव्या न च धार्यास्तथा गृहे ।। ४६ ।।
मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम् ।। ४७ ।।
स्वस्तिकाकारशृङ्गाश्च मेघौघसदृशस्वनाः ।।
महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ।। ।। ४८ ।।
महोरस्का महोच्छ्वासा महाबलपराक्रमाः ।।
शिरः कर्णौ ललाटं च वालधिश्चरणानि च ।। ४९ ।।
नेत्रपार्श्वे च कृष्णानि शस्यन्ते चन्द्रमस्त्विषः ।।
चिह्नान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ।। 1.146.५० ।।
भूमिं कर्षति लांगूलात्प्रशस्तः स्थूलवालधिः ।।
पुरस्तान्न तथा नीचो वृषभश्च प्रशस्यते ।। ५१ ।।
शक्तिध्वजपताकाभा येषां राजिर्विराजते ।।
अनड्वाहस्तु ते धन्या ऋद्धिसिद्धिजयावहाः ।। ५२ ।।
प्रदक्षिणं निवर्तन्ते स्वयं ये विनिवर्तिताः ।।
समुन्नतशिरोग्रीवा धन्यास्ते कोशवर्धनाः ।। ५३ ।।
रक्तशृङ्गाग्रनयनाः श्वेतवर्णा भवन्त्यपि ।।
शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः ।। ५४ ।।
एते धन्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ।।
धारिताश्च तथा मुक्ता धनधान्यविवर्धनाः ।। ५५ ।।
चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ।।
लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत् ।। ५६।।
वृष एव स मोक्तव्यो न सन्धार्यो गृहे भवेत् ।।
यदर्थमेषा चरति गाथा लोके पुरातनी ।। ५७ ।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत ।।५८।।
एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् ।।
मुक्त्वा न शोचेन्मरणं महात्मा मोक्षे विधिं चाहमतो विधास्ये ।। ५९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषलक्षणवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ।। ।। १४६ ।।