विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४५

विकिस्रोतः तः
← अध्यायः १४४ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४५
वेदव्यासः
अध्यायः १४६ →

मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि पितृभिर्याः प्रकीर्तिताः ।।
गाथाः पार्थिवशार्दूल कामयद्भिः पुरे स्वके ।। १ ।।
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम् ।।
नदीषु बहुतोयासु शीतलासु विशेषतः ।। २ ।।
अपि स्यात्स कुलेऽस्माकं हिममिश्रं जलाञ्जलिम् ।।
तिलमाक्षिक संयुक्तं यो नो दद्यात्समाहितः ।। ३ ।।
अपि स्यात्स कुलेऽस्माकं यो नो दद्याच्च भक्तितः ।।
पायसं मधुसंमिश्रं वर्षासु च मघासु च ।।४।।
दाल्भ्य उवाच ।।
पत्न्यो नृणां मुनिश्रेष्ठ योषितां च तथा नराः ।।
तच्छ्रोतुमिच्छामि विप्रर्षे विधवा स्त्री न जायते ।। ५ ।।
उपोषितेन येनाग्र्य पत्न्या न रहितो नरः ।।
पुलस्त्त्य उवाच ।।
अशून्यशयनां नाम द्वितीयां शृणु भो द्विज ।।६ ।।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ।।
पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते ।। ७ ।।
शेते जलनिधौ कृष्णः श्रिया सार्धं यदा द्विज ।।
अशून्यशयना नाम तदा श्राद्धे हि सा तिथिः ।। ८ ।।
कृष्णपक्षद्वितीयायां श्रावणे मुनिसत्तम ।।
इममुच्चारयेन्मन्त्रं प्रणम्य जगतः पतिम् ।। ९ ।।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ।।
श्रीवत्सधारिञ्छ्रीकान्त श्रीधाम श्रीपतेऽच्युत ।। 1.145.१० ।।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद।।
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ।। ११ ।।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।।
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् ।। १२ ।।
तथा कलत्रसंबन्धो देव मे नैव भिद्यतु ।।
लक्ष्म्या ह्यशून्यं वरद यथा ते शयनं सदा ।। १३ ।।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।।
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः ।।१४।।
फलानि दद्याच्छायायामभीष्टानि जगत्पतेः ।।
नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः ।। १५ ।।
ब्राह्मणाय द्वितीयेऽह्नि शय्यां दयात्सदक्षिणाम्।।
एवं करोति यः सम्यङ्नरो मासचतुष्टयम्।।१६।।
तस्य जन्मत्रये दाल्भ्य गृहभङ्गो न जायते।।
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः ।।१७।।
भवत्यव्याकृतैश्वर्यः पुरुषो नात्र संशयः ।।
नारी च दाल्भ्य धर्मज्ञ व्रतमेतद्यथाविधि ।।१८।।
या करोति न सा शोच्या बन्धुवर्गस्य जायते ।।
वैधव्यं दुर्भगत्वं वा भर्तृव्यङ्ग्यं च सत्तम।।१९।।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता ।। 1.145.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयावर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४५ ।।