विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४७
वेदव्यासः
अध्यायः १४८ →

मार्कण्डेय उवाच ।।
आश्वयुक् कृष्णपक्षस्य पञ्चदश्यां नराधिप ।।
कार्तिकेप्यथवा मासि वृषोत्सर्गं तु कारयेत् ।। १ ।।
ग्रहणे द्वे महापुण्ये तथा चैवायनद्वयम् ।।
विषुवद्द्वितयं चैव मृताहो बान्धवस्य च ।। २।।
मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् ।।
सुसमिद्धे गवां मध्ये परिस्तीर्य हुताशनम् ।। ३ ।।
पयसा श्रपयेद्विद्वाँश्चरुं पौष्णं समाहितः ।।
पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप ।। ४ ।।
इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः ।।
तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप ।। ५ ।।
ततः कोष्णेन वृषभमयस्कारः सुशिल्पवान् ।।
शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत् ।। ६ ।।
अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् ।।
हिरण्यवर्णेति ऋचश्चतस्रो मनुजेश्वर ।। ७ ।।
आपो हि ष्ठेति तिस्रश्च शन्नो देवीति चाप्यथ।
वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप।।८।।
अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः।।
किङ्किणीभिश्च रम्याभिस्तथा चीनांशुकैः शुभः ।। ९ ।।
ततः कर्ता जपेन्मन्त्रमिमं प्रयतमानसः ।।
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।।
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ।।1.147.१० ।।
एवं युवानं वृषभं ददामि गवां पतिं यूथपतिं सधर्मम् ।।
अनेन सार्धं चरत प्रकामं यथा तथा प्राप्नुत वत्सतर्यः ।। ।। ११ ।।
एवं युवानं गोपतिं वो ददामि अनेन क्रीडन्तीश्चरतीः प्रियेण ।।
सहास्माभिः प्रजया मा तनूभिर्मा वधाम द्विषतं सोमराजन् ।। १२।।
मन्त्रं पिता वत्स इति प्रतीतं जपेत कर्णे वृषभस्य सव्ये ।।
प्रचालयेत्तं वृषभं ततस्तु पूर्वां दिशं वत्सतर्यश्च सर्वाः ।।१३।।
वासोयुगं ग्रहीतुरथ प्रदेयं सुवर्णयुक्तं सघृतं च कांस्यम् ।।
शिल्पप्रधानस्य तथैव सत्यं देयं यथा तुष्टिमुपैति राजन् ।। १४ ।।
विप्रास्तथान्नं दधिसर्पिषा युतं संभोजनीयाः पयसा च मिश्रम् ।।
उत्सृष्टमात्रे वृषभे व्रजन्ति तृप्तिं परां तस्य पितामहा ये ।। १५ ।।
यस्मिँस्तडागे स जलं तृषार्तः पातुं समागच्छति तत्पितॄणाम् ।।
दिव्याम्बुपूर्णं कलशं महीपते लोकं परं तृप्तिमन्तः प्रयान्ति।। १६ ।।
सरिद्वरां काञ्चिदथोपयाति तृष्णान्वितस्तस्य पितामहानाम् ।।
तृप्तिं विधत्ते सरितां वरिष्ठा सुदीर्घकालं विमलाम्बुवाहैः ।। १७ ।।
दर्पेण पूर्णः सविषाणघातैर्धरां यदा धारयते नरेन्द्र ।।
पितॄंस्तदा तस्य तदन्नकूटं ध्रुवं स यातीति न संशयोऽत्र ।। १८ ।।
रोम्णां च तुल्यानि शतानि राजन्भोक्ता तथा तस्य दिवं प्रयाति ।।
संवत्सराणां परिपूर्णकामः संसेव्यमानस्त्रिदशाङ्गनाभिः ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषोत्सर्गवर्णनो नाम सप्तचत्वारिंशदुत्तरशततमो ऽध्यायः ।। १४७ ।।