विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३६
← अध्यायः १३५ | विष्णुधर्मोत्तरपुराणम् अध्यायः १३६ वेदव्यासः |
अध्यायः १३७ → |
मार्कण्डेय उवाच ।।
उर्वश्यपि वरारोहा मदनेनाभिपीडिता ।।
जगाद नारदस्याथ स्वामवस्थां नृपं विना ।। १ ।।
ततस्तां नारदः प्राह सुभगे गच्छ पार्थिवम् ।।
तस्याप्यवस्था महती त्वद्विहीनस्य सुन्दरि ।।२ ।।
एकां रात्रिं नरेन्द्रेण सहोष्य वरवर्णिनि ।।
स्वर्गलोकमुपागच्छ श्रेयः प्राप्स्यसि वै ततः ।। ३ ।।
नारदेनैवमुक्ता सा सखीभिर्बहुभिर्वृता ।।
पुष्करिण्यास्तरुप्लक्षे ययौ स्नातुं वरानना ।। ४ ।।
एतस्मिन्नेव काले तु निद्रयोपहृतो नृपः ।।
अप्सरोभिरवज्ञातस्तत्र सुष्वाप पार्थिव ।। ५ ।।
अद्य यास्यामि राजानमिति हृष्टा तदोर्वशी।।
क्रीडन्त्यत्र जले तस्मिन्सखीगणवृता तदा ।। ६ ।।
त्यक्तनिद्रो नरेन्द्रोऽपि विललाप चिरं पुनः ।।
शुश्राव विलपन्तं सा सखीभिः सहिता नृपम् ।। ७ ।।
दर्शयामाम चात्मानं पार्थिवस्य शुभा ततः ।।
उवाच च वरारोहा नारदोक्तमशेषतः ।। ८ ।।
तत्रैवोवास तां रात्रिं सह तेन वरानना ।।
रात्रिक्षये विसंज्ञं सा राजानं वाक्यमब्रवीत् ।। ९ ।।
उर्वश्युवाच ।।
आराधयस्व गन्धर्वान्मोहं त्यक्त्वा नरेश्वर ।।
तेषां प्रार्थय मां सौम्य ततः प्राप्स्यसि मा चिरम् ।। 1.136.१०।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा ययौ स्वर्गं राजा तत्रैव पार्थिव ।।
तपः स विपुलं चक्रे तद्गतेनैव चेतसा ।।११ ।।
अथ संवत्सरे पूर्णे सूर्यस्योदयनं प्रति ।।
नारदं पुरतः कृत्वा गन्धर्वा दर्शनं ददुः ।।१२।।
गन्धर्वा ऊचुः ।।
वरं वरय राजेन्द्र यदिच्छसि महाभुज ।।
वयं हि तव दास्यामः सर्व एवामरप्रभाः ।। १३ ।।
पुरूरवा उवाच ।।
भवन्तश्चेत्प्रसन्ना मे यदि मे रोचते वरम् ।।
उर्वशी सेह चार्वङ्गी भवद्भिर्मम दीयताम्।।१४।।
गन्धर्वा ऊचुः ।।
स्थालीं पूर्णामिमां राजन्गृहाणाग्नेर्महाभुज ।।
अस्मादग्निं त्रिधा कृत्वा यजस्व विगतज्वरः ।। १५ ।।
वेदोक्तेन विधानेन गन्धर्वत्वमवाप्स्यसि ।।
त्रेताग्निपूर्वस्य विधेरस्मिन्मन्वन्तरे भवान् ।।१६।।
भविता दर्शिता लोके गुरुश्च जगतीपतिः ।।
गन्धर्वत्वमवाप्याथ राजन्प्राप्स्यस्यथोर्वशीम् ।। १७ ।।
मन्वन्तरमिमं सर्वं रन्ता च त्वं तया सह ।।
मन्वन्तरे गते राजन्नुर्वश्या सहितो भवान् ।। १८ ।।
प्रवेक्ष्यति निशानाथं सोमं शीतांशुमुज्वलम् ।।
आधारं सर्वलोकस्य पितॄणां स्थानमुत्तमम् ।। १९ ।।
मार्कण्डेय उवाच ।।
अग्निस्थालीं नृपे दत्त्वा गन्धर्वास्त्रिदिवं ययुः ।।।
अथाऽऽजगाम तं देशं बालमादाय चोर्वशी ।। 1.136.२० ।।
उर्वश्युवाच ।।
तस्मिन्समागमे सौम्य जातोऽयं तनयः प्रभो ।।
तमादाय प्रतिष्ठानं व्रज पार्थिव माचिरम् ।। २१ ।।
कृतं नामास्य गन्धर्वैर्विश्वायुरति भूमिप ।।
मार्कण्डेय उवाच ।।
एवं दत्त्वा नृपे बालं सा प्रयाता त्रिविष्टपम् ।। २२ ।।
एकाकी चिन्तयामास बुधपुत्रोप्यनन्तरम् ।।
किन्नु बालमुपादाय गमिष्यामि पुरं स्वकम् ।।२३।।
अथादाय गमिष्यामि स्थालीमेतां विभावसोः।।
श्वापदेभ्यो भयं घोरं बालस्येह भविष्यति ।। २४ ।।
मया विहीनस्य भयं नास्ति किञ्चिद्विभावसोः ।।
एवं स निश्चयं कृत्वा बालमादाय सत्वरः। ।। २५ ।।
जगाम स्वपुरं हृष्टः ससैन्यश्चागमत्पुनः ।।
स्थालीं ददर्श हीनां तु दृष्ट्वा मोहमुपागतः ।। २६ ।।
त्रिदिवादेत्य गन्धर्वा मूढं पार्थिवसत्तमम् ।।
उत्थापयित्वा वचनमूचुस्तद्धितकाङ्क्षिणः ।। २७ ।।
राजन्नस्मिञ्छमीगर्भे प्रविष्टः स हुताशनः ।।
अस्मात्त्वमरणिं कृत्वा जनयस्व हुताशनम् ।। २८ ।।
त्रिधा कृत्वा तु तं वीर यजस्व विधिवत्तदा ।।
तमिष्ट्वा प्राप्स्यसे वीर गन्धर्वत्मसंशयम् ।। २९ ।।
त्रेताग्निं ते नरेन्द्रेह होष्यन्ति सततं द्विजाः ।।
सप्तवर्षाणि तेऽप्येवं यास्यत्यस्मत्सलोकताम् ।। 1.136.३० ।।
त्रयोऽग्नयश्चोपसदं तव राजन्प्रकीर्तिताः ।।
अग्निराहवनीयस्तु वासुदेवो नराधिप ।। ३१ ।।
दक्षिणाग्निस्तथा ज्ञेयो नित्यं संकर्षणो बुधैः ।।
तथा च गार्हपत्योऽग्निः प्रद्युम्नः परिपठ्यते ।।३२।।
तथैवौपसदो राजन्ननिरुद्धः प्रकीर्तितः ।।
तस्मादेव वरो विष्णुश्चतुरात्मा नराधिप ।। ३३ ।।
फलाभिसन्धानहुतो गन्धर्वत्वं प्रयच्छति ।।
कामं विनाग्निहोत्रेण हुतो राजञ्जनार्दनः ।। ३४ ।।
प्रयच्छति परं स्थानममृतं शाश्वतं ध्रुवम् ।।
अग्निहोत्रादृते राजन्गन्धर्वत्वं न विद्यते ।। ३५ ।।
सुहुतेनाग्निहोत्रेण प्राप्यते संशयं विना ।।
एवमुक्त्वा ययुः सर्वे गन्धर्वास्त्रिदिवं ततः ।। ३६ ।।
राजाप्यरणिमादाय शमीगर्भाद्गृहं ययौ।।
ततः प्रभृति राजेन्द्र शमीगर्भाद्धुताशनम्।।।
जनयन्ति द्विजश्रेष्ठास्तत्र सन्निहितस्त्वसौ ।। ३७ ।।
एकोऽग्निरासीन्नृपवर्य पूर्वं वैवस्वतस्यास्य तथान्तरेऽस्मिन् ।।
त्रिधाकृतस्तेन महानुभाव संमंत्रिविप्रैः क्रतुशास्त्रविज्ञैः ।। ३८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रेताग्न्युत्पत्तिर्नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ।। ।। १३६ ।।