विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३५
← अध्यायः १३४ | विष्णुधर्मोत्तरपुराणम् अध्यायः १३५ वेदव्यासः |
अध्यायः १३६ → |
मार्कण्डेय उवाच ।।
उर्वश्यागमने यत्नं चक्रुस्ते मन्त्रमुत्तमम् ।।
गन्धर्वस्तूग्रसेनाख्यस्तदा मन्त्रमभाषत ।। १ ।।
उग्रसेन उवाच ।।
समयेवस्थिता तस्मिन्नुर्वशी चारुभूषणा ।।
व्युत्क्रान्तसमयं सा तु राजानं त्यक्ष्यते च तम् ।।२ ।।
तमहं वेद्मि समयं तत्र यास्यामि चानघ ।।
युष्मत्कार्यं करिष्यामि ससहायो न संशयः ।। ३ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा ययौ तत्र यत्रासौ नृपतिः स्थितः ।।
रात्रौ जहार मेषं च मायया स नराधिप ।। ४ ।।
मेषं ज्ञात्वा हृतं देवी राजानमिदमब्रवीत् ।।
मेषो हृतो महीपाल केनाप्यद्धा सुतो मम ।। ५ ।।
द्वितीयश्च हृतो राजँस्तमानय सुतं मम ।।
एवमुक्तस्तया राजा नग्न एवाथ संभ्रमात् ।। ६ ।।
उत्थायान्वेषणं चक्रे मेषयोः पुरुषर्षभ ।।
अथापश्यत सा नग्नं राजानमसितेक्षणा ।। ७ ।।
संस्मृत्य नारदवचस्तिरोभूता बभूव सा ।।
गन्धर्वाणां ययौ सापि समीपं दुःखिता तदा ।। ८ ।।
स्वर्गं प्राप्य विशालाक्षी नित्यं नृपपरायणा ।।
कामनुन्नशरीरापि कालं नयति सुन्दरी ।। ९।।
ऋषिशापभयाद्भीता मदनेन वशीकृता ।।
नित्यमास वरारोहा निःश्वासपरमा सती । 1.135.१० ।।
अप्राप्य मेषयुगलं विनिवृत्तो नराधिपः ।।
नापश्यच्छयने देवीं सस्मार समयं तदा ।।११।।
विदित्वा त्यक्तमात्मानं स्मृत्वा समयमात्मनः ।।
कामबाणार्दितो राजा तथापि विजने वने।।१२।।
तां मार्गति वरारोहामुन्मत्त इव सर्वतः ।।
एकाकी विजने राजा प्रियया रहितस्तदा ।। १३ ।।
विललाप महासत्त्वः कुसत्त्व इव कश्चन ।।
पुरूरवा उवाच ।।
क्व गतासि विशालाक्षि विहाय विजनेत्र माम्।।१४।।
कथं प्रवेक्ष्यामि पुरं प्रतिष्ठानं विना त्वया ।।
प्राणास्त्यक्त्वा गमिष्यन्ति शरीरं मम सुन्दरि ।। १५ ।।
अनुगन्तुं शरीरेण न शक्नोमि वरानने ।।
त्वं हि मे चपलापाङ्गि प्राणेभ्योऽपि गरीयसी ।। १६ ।।
त्वया त्यक्तो ध्रुवं प्राणाँस्त्यक्ष्यामि वरवर्णिनि ।।
क्वासि क्वाहं गमिष्यामि किं करोमि व्रजामि काम् ।। १७ ।।
शरणं कामतप्तस्य को मे संदर्शयेत्प्रियाम् ।।
कं स्वित्पृच्छामि विजने कस्य सा विदिता भवेत् ।। १८ ।।
क्षेमो वा मम कस्य स्याद्यो मे संदर्शयेत्प्रियाम् ।।
प्रियाविरहितस्यैष निशाशेषो गतो मम ।। ३९ ।।
अन्तर्धानं गतास्तारा यथा देवी ममोर्वशी ।।
देवोऽरुणकरस्पर्शाच्छोभां त्यजति चन्द्रमाः ।। 1.135.२० ।।
निशाक्षये क्षामवपुर्यथाहं तद्विनाकृतः ।।
एषा ह्यावर्तते पूर्वा सन्ध्या स्नात्वा द्विजातयः ।। २१ ।।
नूनं नियमसंयुक्तास्तिष्ठन्ति विजितेन्द्रियाः ।।
अयं ह्युदयमायाति सविता रक्तमण्डलः ।। २२ ।।
सर्वसत्त्वसमो देवः सर्वेषां पापनाशनः ।।
उदितश्चाप्ययं सूर्यो विभाति विमलेम्बरे ।। २३ ।।
एकं फुल्लं महापद्मं सरसीवामले यथा ।।
उदितं भास्करं ज्ञात्वा नलिनीपद्मलोचना ।। २४ ।।
उन्मील्यालोकते सर्वं विना तेन निमीलिता ।।
तीक्ष्णार्कः संप्रवृत्तोऽयं दिवसः कामवर्धनः ।। २५ ।।
नैदाघो मां विशेषेण सन्तापयति तां विना ।।
कं पृच्छामि वरारोहां संतप्तकनकप्रभाम् ।। २६ ।।
दृष्टा मयेति सा देवी को मां वक्ष्यति कानने ।।
करीन्द्रस्त्वयमभ्येति तत्कुचाभौ समुद्वहन् ।। २७ ।।
कुम्भौ कठोरौ सुमुखं पृच्छाम्येनं मतङ्गजम् ।।
त्वद्दन्तयुगलप्रख्यं यदूरुयुगलं ह्यभूत् ।। २८ ।।
गतां तां यदि जानीषे कथयस्व ममोर्वशीम् ।।
एष हस्ती गतस्त्रासात्सिंहस्यास्य महात्मनः ।। २९।।
अदत्त्वैवोत्तरं मह्यं सिंहं पृच्छाम्यहं वने ।।
मध्यस्त्वदुपमस्तस्याः क्व सा सम्प्रति केसरिन् ।।1.135.३०।।
उर्वशी दयिता मह्यं यदि जानासि कथ्यताम् ।।
अदत्त्वैवोत्तरं सिंहः कथमेष गतो मम ।। ३१ ।।
दृष्टा कथय हे बिम्ब देवीं बिम्बफलाधराम् ।।
अनेनापि न चाख्याता पृष्टेन सुदती मम ।। ३२ ।।
मयूर यदि जानीषे बालां बालमृगेक्षणाम् ।।
उर्वशीं कथयस्वाद्य क्व प्रिया मम वर्तते ।। ३३ ।।
अन्तःशरीरं कामाग्निर्बहिर्दहति भास्करः ।।
तापार्त्ता निःश्वसन्त्येते सिंहा गिरिगुहागताः ।। ३४ ।।
निरस्तजिह्वाः स्रस्ताङ्गा विवृतास्या मुहुर्मुहुः ।।
यूथानि महिषीणां च शेरते नलिनीजले ।। ३५ ।।
सूर्योद्धतजलास्वन्ये पङ्कशेषा सु शेरते ।।
गगनं चातकश्चायं तृष्णार्तो लोकते मुहुः ।। ३६ ।।
सु भृशं तोयपानार्थी उर्वश्यर्थे यथा त्वहम् ।।
यान्त्येते पद्मिनी खण्डान्कुञ्जरास्तापरूषिताः ।। ३७ ।।
सुहस्तमुक्तैश्च जलैः सिंचन्त्यात्मानमात्मना ।।
महाद्रुमाणां स्कन्धेषु विषण्णाश्चापरे गजाः ।। ३८ ।।
तापं नयन्ति मध्याह्ने मुञ्चन्तः शीकरं मुहुः ।।
शाखापर्णान्तराण्येते विहगास्तापतापिताः ।। ३९ ।।
विशन्ति चैव त्राणार्थं मध्याह्नसमये भृशम् ।।
द्रुमशाखागता ह्येते विहगानां च बालकाः ।। 1.135.४० ।।
रक्तान्तचक्राः सुभृशं विशन्तीह मुहुर्मुहुः ।।
त्यक्ताहारक्रियाश्चैते मृगयूथा महावने ।। ४१ ।।
द्रुमच्छायासु तिष्ठन्ति रोमन्थं कुर्वुतो मुहुः ।।
अन्वेषमाणो दयितां श्रीतोऽस्मि विजये भृशम् ।। ४२ ।।
छायायां विश्रमिष्यामि शिरीषस्यास्य साम्प्रतम् ।।
तद्गात्रसुकुमाराणि पुष्पाण्यस्य वनस्पतेः ।। ४३ ।।
शिरीषवृक्षो रम्योऽयं मनोहृदयनन्दनः।।
किन्तु मां पीडयत्येष शिरीषस्तद्विनाकृतम् ।। ४४ ।।
सूर्यश्चास्तमुपायाति क्व गमिष्यामि शर्वरीम् ।।
अस्तं यातः सहस्रांशुर्निशा प्राप्ता सुदारुणा।।४५।।
रात्रिमेनां विवत्स्यामि न्यग्रोधेऽस्मिन्महाद्रुमे ।।
उर्वश्या ऋद्धिरचिते वरवेश्मनि पार्थिवः ।। ४६ ।।
स क्रीडति तया सार्धं सर्वकामैः सुपूजितः ।।
नूनं मां स जनो वेत्ति प्रतिष्ठानपुरे तु मे ।। ४७ ।।
एतामवस्थां कश्चिन्मे न विजानाति साम्प्रतम् ।।
पौरो जानपदः कश्चिज्जनो मे दयितः सदा ।। ४८ ।।
निद्रे भजस्व मन्नेत्रे ध्रुवं स्वप्ने वराननाम ।।
तां तु प्राप्स्याम्यहं सौम्यां मनसः प्रीतिवर्धिनीम् ।। ४९ ।।
कथमभ्युदितश्चन्द्रः पीडां जनयते मम ।।
तद्वक्त्रविजितः पूर्वं विकरोत्यधुना मयि ।। 1.135.५० ।।
तुद चन्द्र यथाकामं मम देहं विनाकृतम् ।।
त्वया तु नाथं संप्राप्य सापत्न्यं मम दर्शय ।। ५१ ।।
हा हतोऽस्मि विनष्टोऽस्मि उर्वश्या रहितो वने ।।
चन्द्र पौत्रे कुरु दयां दर्शयस्व मम प्रियाम् ।। ५२ ।।
शशाङ्क देव शीतांशो नृणां दृष्टिमनोहर ।।
आक्रन्दामि तवाद्याहं दर्शयस्व प्रियां मम ।। ५३ ।।
अतृप्त दर्शनस्यैव सा गता सुन्दरी मम ।।
अन्तर्धानं विशालाक्षी तां दर्शय ममोर्वशीम् ।।५४ ।।
कदाऽधररसं तस्याः पास्याम्यमृतसन्निभम् ।।
कदा द्रष्टास्मि तां भूयः कमलोदरसन्निभाम् ।।५५।।
मृणालबाहुयुगलां पद्मवक्त्रां कदा प्रियाम् ।।
नीलोत्पलाक्षीमालिङ्ग्य तापं त्यक्ष्याम्यनङ्गजम्।।५६।।
अनङ्गशरनुन्नस्य बाले भव गतिर्मम ।।
ददस्व दर्शनं सुभ्रूः का ममान्या गतिर्भवेत् ।।५७ ।।
काममोहगृहीतस्य त्वमेवाभूर्गतिर्मम ।।
भूयस्त्वमेव सुभगे गतिर्भव ममानघे ।। ५८ ।।
एषा विरलिता रात्रिर्मम वर्षशतोपमा ।।
अन्वेष्टुं क्व गमिष्यामि निर्घृणां तां ममोपरि ।। ५९ ।।
यस्याः कोपं न जानामि स्वप्नेऽपि वरवर्णिनि ।।
दैवेनोपहतस्याद्य त्यक्ता सा सुभगा गता ।। 1.135.६० ।।
मार्कण्डेय उवाच ।।
एवं स विलपन्राजा त्यक्ताहारः परिभ्रमन् ।
आससाद कुरुक्षेत्रं द्वादशाहेन पार्थिव।।६१।।
पुष्करिण्यास्तटप्लक्षे पुष्करैरुपशोभिते ।
निषसाद तदा श्रान्तः क्षुत्पिपासासमन्वितः।।
विललाप स तत्रापि मदनेन वशीकृतः ।। ६२ ।।
कदा नु तच्चन्द्रमसोऽनुकान्ति मुखं स्मितं चारुविलोचनायाः।।
उन्नाम्य पास्याम्यधरं तृषार्तो वारीव पान्थः पथि कृच्छ्रलभ्यम् ।। ६३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवाप्रलापवर्णनो नाम पञ्चत्रिंशदु त्तरशततमोध्यायः ।। १३५ ।।