विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३७
वेदव्यासः
अध्यायः १३८ →

मार्कण्डेय उवाच ।।
ततः स स्वपुरं प्राप्य चाग्न्युपासनतत्परः ।।
ईजे बहुविधैर्यज्ञैः प्रजा धर्मेण पालयन् ।। १ ।।
अश्वमेधशतैरिष्ट्वा वाजपेयैः सहस्रशः ।।
अग्निष्टोमैश्चातिरात्रैर्द्वादशाहैः पुनःपुनः ।। २ ।।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् बभौ ।।
अमानुषैर्वृतः सत्त्वैः स विजिग्ये महीतलम् ।। ३ ।।
दुर्भिक्षं मरणं व्याधिर्नाभवत्कस्यचित्क्वचित् ।।
सर्वो धर्मपरो लोकः सर्व एव सुखी जनः ।। ४ ।।
सर्वे चैव समृद्धार्थास्तस्मिञ्जनपदेश्वरे ।।
नासीत्पशुवधार्हाणां वधस्तस्मिन्वृथा तदा ।। ५ ।।
सर्वभूतानि राजानं भावेनोपगतानि तम् ।।
सर्वस्य च जनन्यासीत्स राजा पितृसन्निभः ।।६।।
दृष्ट्वा तं भूपतिं स्वप्ने प्रसीदन्ति जनास्तदा ।।
यदा निर्यात्यसौ राजा चतुरङ्गबलान्वितः ।।७।।
गृहचर्यारता नार्यस्तदा पश्यन्ति तं सदा ।।
पुष्पैश्चन्दनधूपैश्च तथैव विकिरन्ति तम् ।। ८ ।।
उर्वशी कृतपुण्या सा देवी नारायणात्मजा ।।
यया क्रीडितमस्याङ्के वदन्त्येवं च योषितः ।। ९ ।।
अयमायात्यसौ राजा यदा शृण्वन्ति योषितः ।।
गृहकार्याण्यपि त्यक्त्वा तदा यान्ति ,गवाक्षकान् ।। 1.137.१० ।।
अभ्राणि शारदानीव बहुचन्द्राणि योषिताम् ।।
मुखै राजन्ति वेश्मानि निर्याते पृथिवीश्वरे ।। ११ ।।
या न पश्यति तं यान्तं सा तं ज्ञात्वा तिरोहितम् ।।
मुषितं चैव साऽऽत्मानं वेत्ति निन्दति सा भृशम् ।। १२ ।।
या च पश्यति तं यान्तं कन्दर्पसदृशं नृपम् ।।
तद्गतेन ह्रदा सापि शून्या तिष्ठति वेश्मनि ।। १३ ।।
यदा यजति यज्ञैश्च तदा शून्या वसुन्धरा ।।
सर्वा भवति राजानं तदा गच्छति वै जनः ।। ।। १४ ।।
यश्च याति जनस्तस्य यज्ञे राज्ञो महात्मनः ।।
किमिच्छकैस्तदा राज्ञा सर्वः संपूज्यते तदा ।। १५ ।।
सभासंस्थस्य वै राज्ञः प्रतीहारो दिने दिने ।।
उद्घोषयति कार्यार्थी तस्य राज्ये कथंचन ।। १६ ।।
इत्येवं शासतो राज्यं गतः कालो महीपतेः ।।
स कदाचिद्द्विजानाह दर्शयध्वं ममोर्वशीम् ।। १७ ।।
द्रक्ष्यसे तां स्वयं राजन्न वयं दर्शयामहे ।।
ततस्तेषां धने लोभं चक्रे कामनिपीडितः ।। १८ ।।
ह्रियमाणे धने विप्रैः शप्तः पञ्चत्वमागतः ।।
जीवितश्चापरैर्विप्रैर्गतरोषैर्महीपतिः ।। १९ ।।
आत्मानं गर्हयित्वाऽसौ लब्धसंज्ञो महीपतिः ।।
आयुं राज्येऽभिषिच्यैव प्रतिष्ठानपुरे स्वके ।। 1.137.२० ।।
साग्निहोत्रस्ततो राजा ययौ नारायणाश्रमम् ।।
तस्याश्रमे तपश्चक्रे राजा संवत्सरत्रयम् ।। २१ ।।
ततो नारायणः प्राह तं नृपं तपसि स्थितम् ।।
अद्य प्राप्स्यसि तां राजन्यत्कृते परितप्यसे ।। २२ ।।
सशरीरोऽद्य गन्तासि त्रिदिवं राजसत्तम ।।
एवं द्विजेन्द्रे वदति विमानं प्रत्यदृश्यत ।। २३ ।।
उर्वश्यधिष्ठितं रम्यं गन्धर्वैश्च सहस्रशः ।।
यस्मिन्युक्तं तुरङ्गाणां सहस्रं चन्द्रवर्चसाम् ।। २४ ।।
विमानादवरुह्याथ गन्धर्वाप्सरसां गणाः ।।
उर्वशी च ववन्दैनमृषिं ज्वलनतेजसम् ।। २५ ।।
अनुज्ञातोऽथ ऋषिणा तदा राजा पुरूरवाः ।।
कृत्वाग्निहोत्रमात्मस्थं विमानं तं समास्थितः ।। २६ ।।
ऋषिं प्रदक्षिणीकृत्य त्रिदिवं स नृपो गतः ।।
सशरीरो नृपः स्वर्गं तदा प्राप्य सुदुर्लभम् ।। ५७ ।।
शक्रेणाभ्यर्चितः काले विजहार यथासुखम्।।
देवोद्यानेषु सर्वेषु उर्वश्या सहितस्तदा ।। २८ ।।
नासौ वियुज्यते साक्षात्कदाचिदपि पार्थिवः ।।
अमावस्याममावस्यां नियतं चन्द्रभास्करौ ।। २९ ।।
द्रष्टुं यातौ महीपालमेकराशिगतौ सदा ।।
उर्वश्या सहितं पौत्रं यदा पश्यति चन्द्रमाः ।।1.137.३०।।
तदा सुधारसं देवः स्नेहात्स्रवति मानद ।।
सुधामृतरसं तं च पिबन्ति पितरः सदा ।। ३१ ।।
श्राद्धकालस्तदाप्युक्तो नृणां नृपवरोत्तम ।।
तदा श्राद्धं हि यद्दत्तं सुधारसविमिश्रितम् ।। ३२ ।।
तदश्नन्ति महीपाल पितरोऽमृतसन्निभम् ।।
अमावस्याममावस्यां तदा श्राद्धं प्रयत्नतः ।। ।। ३३ ।।
कुरुष्व भूमिपश्रेष्ठ सर्वान्कामानवाप्स्यसि ।।
येऽपि श्राद्धं करिष्यन्ति तदा चान्ये नराधिप ।। ३४ ।।
तेषामायुर्यशः सौख्यं दास्यन्ति प्रपितामहाः ।।
देवकार्यादपि श्रेष्ठं पितृकार्यं प्रचक्षते ।। ३५ ।।
पितरो नाम राजेन्द्र देवानामपि देवताः ।।
राज्यकामः स्वर्गकामः पुष्टिकामस्तथैव च ।। ३३६ ।।
पितॄन्सन्तर्पयेच्छ्राद्धे चन्द्रसूर्यसमागमे ।।
वसन्ति सततं राजन्पितरश्चन्द्रमण्डले ।। ३७ ।।
तेषां मासमहोरात्रं विभागं तत्र मे शृणु ।।
कृष्णपक्षाष्टमी मध्ये तेषामुदयते रविः ।। ३८ ।।
शुक्लाष्टम्यां तथैवास्तं तेषां याति दिवाकरः ।।
अमावस्या तदा तेषां मध्याह्नं जायते नृप ।।
तस्माच्छ्राद्धानि देयानि तस्मिन्काले प्रयत्नतः ।। ३९।।
एतावदुक्तं नृपवर्य तस्य धर्मात्मजस्याऽप्रतिमस्य वृत्तम् ।।।
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पापहरं सुखञ्च ।। 1.137.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवसः स्वर्गप्राप्तिर्नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ।। १३७ ।।