विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३१
← अध्यायः १३० | विष्णुधर्मोत्तरपुराणम् अध्यायः १३१ वेदव्यासः |
अध्यायः १३२ → |
मार्कण्डेय उवाच
उर्वशी रम्भया सार्द्धं जगाम त्वरितं तदा ।।
कामार्त्ता सिद्धमार्गेण सा ददर्शाथ नारदम् ।।१ ।।
व्रजन्तं सिद्धमार्गेण देवलोकादुपागतम ।।
सम्पूज्य नारदं सुभ्रूः प्रययावेव सत्वरा।।
व्रजन्तं सिद्धमार्गेण देवलोकादुपागतम् ॥
सम्पूज्य नारदं सुभ्रूः प्रययावेव सत्वरा ॥ २ ॥
तामाह नारदो रम्भे केयं ते प्रस्थिता सखी ॥
रम्भा शापभयात्तस्याः सर्वमेव न्यवेदयत् ॥ ३ ॥
तामाह नारदो भूयः शृणुष्व वचनं मम ॥
उर्वशी गतभावेयं मानुषं तं नरेश्वरम् ॥ ४ ॥
शापेन तुम्बरोर्मोहादुचितं तत्र वत्स्यति ॥
यथा शुभं तथा कार्यं त्वया मे वचनं शुभे ॥९॥
समयेनोर्वशी तस्य वसत्वसितलोचना ॥
समयश्चानया कार्यो यो राज्ञस्तं निबोध मे ॥ ६॥
मेषद्वयं तु पुत्रत्वे पुरा कृतवती शुभा ॥
तन्नित्यं शयनाभ्याशे स्थापनीयं सुलोचने ॥ ७॥
आहारं घृतमात्रं च कर्तव्यमनया तथा ॥
न द्रष्टव्यस्तथा नग्नो राजा रम्भे पुरूरवाः ॥८॥
न कर्तव्यमकामायास्तथा तेन च मैथुनम् ॥
एकस्मिन्नप्यथो भग्ने समये चारुलोचना ॥९॥
यदि वत्स्यति राजानं शिलाभूता भविष्यति ॥
उर्वशी रम्भया सार्धमेवमस्त्विति नारदम् ॥ 1.131.१० ॥
उक्त्वा संपूज्य च मुनिं प्रतस्थे पुनरेव च ॥
नारदो व्यगमद्विप्रः पुरं वैश्रवणस्य च ॥ ११ ।।॥
ददर्श च प्रतिष्ठानं चोर्वशी रम्भया सह ॥
प्राकारेणार्कवर्णेन काञ्चनेन विराजितम् ॥ १२॥
चतुर्भिर्गोपुरैश्शुभ्रै राजतैश्च विराजितम् ॥
शोभनं च तथा रम्यं विद्रुमस्य च तोरणैः ॥ १३॥
सुविभक्तमहारण्यं महाराजपथं शुभम् ॥
परिखाभिर्विचित्राभिः पद्मिनीभिरलंकृतम् ॥ १४॥
खमुल्लिखद्भिः प्रासादैः पाण्डुरैरुपशोभितम् ॥
शूराढ्यजनभूयिष्ठं दिव्यं पुरुषसंयुतम् ॥१५॥
वणिग्भिरुपसंकीर्ण नानापण्यविभूषितम् ॥
ऐरावतकुलोत्पन्नैश्चलत्पर्वतसन्निभैः ॥१६॥
कुञ्जरैर्बहुसाहस्रैस्संयुतं सुमनोहरैः ॥
तुरगैर्वह्निजातैश्च पवनस्य समैर्जवे ॥ १७ ||
पानमत्तैर्नरैर्युक्तमुद्यानेषु ततस्ततः ॥
शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनैः ॥१८॥
विविधानां च वाद्यानां वादित्रं सर्ववेश्मगम् ॥
ब्रह्मघोषं महाघोषं वीणावेणुनिनादितम् ॥१९॥
हृष्टपुष्टजनाकीर्णं सर्वबाधाविवर्जितम् ॥
पद्मकिञ्जल्कवर्णाभिर्युतं स्त्रीभिः सहस्रशः॥1.131.२०॥
श्यामाभिश्च महाराज काण्डगौरीभिरेव च ।। ।।
नानावेषधरैर्युक्तं नानादेशोद्भवैस्तथा ।।२१।।
नरैरनेकरूपैश्च शिल्पज्ञैश्च ह्यनेकशः ।।
पुरस्य तस्य मध्ये सा ददर्श नृपतेर्गृहम् ।२२ ।।
मध्ये हिमाचलस्येव कैलासं पर्वतोत्तमम् ।।
श्रीमद्भिः संयुतं रम्यैर्गृहमेधैः सहस्रशः।।२३।।
सुधावदातैर्विपुलैश्चन्द्ररश्मिसमप्रभैः ।।
क्वचिद्रात्नैः क्वचिद्रौक्मैः क्वचिद्भूपाल राजतैः ।।२४।।
मणिविद्रुमसोपानैर्मुक्ताजालविभूषितैः ।।
क्वचिच्च पुष्पदामाढ्यैर्वैजयन्तीयुतैः क्वचित् ।। २५ ।।
तस्याविदूरे विपुलं वनं चैत्ररथोपमम् ।।
राज्ञः क्रीडावनं रम्यं ददर्श विपुलेक्षणा ।। २६।।
द्रुमैर्बहुविधैर्युक्तं पुष्पपूगफलोपगैः ।।।
पद्मिनीभिर्विचित्राभिः क्रीडाशैलैर्मनोहरैः ।। २७ ।।
प्रासादैश्च तथा रम्यै रम्यैर्मणिगणैस्तथा ।।
तत्तु रम्भावनं दृष्ट्वा सखी वचनमब्रवीत् ।। २८ ।।
राज्ञः क्रीडावने रम्ये गहनेऽस्मिन्सुलोचने ।।
मायाच्छन्ना निवत्स्यावो यावदस्तमयं रवेः ।। २९ ।।
ततो गत्वा नरेन्द्रं तं चोक्त्वा तव चिकीर्षितम्।।
अहं त्वां तु नयिष्यामि सविधे तस्य भूपतेः ।।
एवमुक्त्वा सखी वाक्यं नोदयामास चोर्वशी ।। 1.131.३० ।।
क्रीडावनं ते च ततोऽवतीर्णे तद्देवरामे सुमनोभिरामम् ।।
क्रीडावने तत्र तथोर्वशी सा सूर्यास्तकालं मनसा समैच्छत् ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे क्रीडावनावतरणो नामैकत्रिंशदुत्तरशततमोऽध्यायः ।। १३१ ।।