विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३२
वेदव्यासः
अध्यायः १३३ →

मार्कण्डेय उवाच ।।
सूर्यास्तमयमिच्छन्ती ज्ञात्वा रम्भा तथोर्वशीम् ।।
विनोदार्थं हि तस्याश्च दर्शयामास तद्वनम् ।।१।।
चारुप्रसूनं पश्येमं सुभगे चम्पकद्रुमम् ।।
त्वद्गात्रवर्णसदृशैः समन्तात्कुसुमैश्चितम् ।।२।।
इमं च दाडिमं पश्य पुष्पितं वामलोचने ।।
योऽयं बिभर्त्ति कुसुमैस्त्वदीयामधरश्रियम्।।३।।
पश्य कामशराकारं सहकारं मनोरमम् ।।
यत्र चात्मसमुत्पन्ना रूढास्तस्य महात्मनः ।। ४ ।।
श्रियं कपोलयोस्तुभ्यमाददानैर्मनोरमैः ।।
पुष्पैरुपेता चार्वङ्गि मधूकं पश्य शोभने।।५।।
त्वत्पयोधरसंकाशै रम्यैरुपचितं फलैः ।।।।।
पश्य तालद्रुमं सौम्ये मनसः प्रीतिवर्धनम् ।।६।।
स्तम्भैस्त्वदूरुसंकाशैः कदलीं पश्य शोभने ।।
सुवर्णा चारुसर्वाङ्गी निर्मिता विश्वकर्मणा ।। ७ ।।।
पश्याविमुक्तकलतां कुसुमाढ्यां मनोहराम् ।।
त्वत्केशपाशसंकाशैर्भ्रमरैरुपशोभिताम् ।। ८ ।।
पश्येमं कुन्दविटपं त्वद्दन्तसदृशैः शुभैः ।।
समन्ताच्छोभितं पुष्पैर्विशालाक्षि मनोहरैः ।। ९ ।।
पश्य चोत्पलिनीमेतामुत्पलैरुशोभिताम् ।।
त्वन्नेत्रसदृशैः फुल्लैर्मनोहृदयनन्दनैः ।।1.132.१० ।।
नलिनीं सुभगे पश्य कमलैः पुष्पितैर्युताम्।।
तव निःश्वासगन्धाढ्यैः सौवर्णैर्वज्रकेसरैः।।११।।
राजहंसानिमान्पश्य नलिनीतीरगोचरान्।।
गमनं सुमनोहारि त्वदीयमिव शिक्षितान् ।। १२ ।।
त्वत्कराग्रविधान्सौम्ये धारयद्भिश्च पल्लवान् ।।
क्रीडाशैलमिमं पश्य युक्तं वहुविधैर्द्रुमैः ।। १३ ।।
क्रीडाशैले चूतगतः कोकिलः कामवर्धनः ।।
कूजत्ययं मनोहारि स्वनेन सदृशेन ते।।१४।।
क्रीडाशैले नदीं पश्य निःसृतां शीतलोदकाम् ।।
तुल्यं ते मनसा सौम्ये वहन्तीं निर्मलं जलम्।।१५।।
बह्वाश्चर्ययुतं सौम्यं दर्शनीयं वनं बहु ।।
किं नु पश्य विशालाक्षि सूर्योऽस्तमुपगच्छति।।१६।।
त्वां तु कामवशां ज्ञात्वा कृपयेव दिवाकरः ।।
संवृत्तांशुधरो देवस्त्वस्तमायाति भामिनि ।।।१७।।
कठोराण्यपि पत्राणि पल्लवानीव सुन्दरि ।।
अस्ततापानुरक्तानि राजन्ते शाखिनां भृशम् ।। १८ ।।
गिरीणां शिखरान्रक्तान्करोत्येव दिवाकरः ।।
जगामास्तं विशालाक्षि कृतकर्मा दिनक्षये ।। १९ ।।
सन्ध्याकालेन रक्तेन प्रतीची पश्य शोभने ।।
आलिङ्गमानां सहसा कामिनीमिव कामिनीम् ।। 1.132.२० ।।
सांप्रतं नियमोपेता द्विजा द्विजवरोद्भवे ।।
सन्ध्याकालमुपासन्ते सतां मार्गमनुव्रताः ।। २१ ।।
अनुयाता रविं सन्ध्या गतमस्तमपि प्रभुम् ।।
साध्वीव वनिता कान्ते कृलजाता मनस्विनी ।। २२ ।।
यास्यमानं सुनासोरु तमसा पश्य भूतलम् ।।
भृङ्गोदरतमालानां तुल्येन वरवर्णिनि ।। २३ ।।
व्याप्तं हि तमसा सर्वं न विराजति किञ्चन ।।
मलिनेनाय तापाङ्गि जगत्सर्वं समीकृतम् ।। २४ ।।
अस्यां हि सखि वेलायां मदनेन वशीकृताः ।।
नीलाम्बरधराः कान्ता यान्ति कान्तानलङ्कृताः ।।२५।।
पश्योदितं च सुभगे सुभगं चन्द्रमण्डलम् ।।
पानमत्तपुरन्ध्रीणां वदनेन समत्विषम् ।। २६ ।।
किञ्चिदाक्रम्य गगनं श्वेततां तु गतं सखि ।।
पश्य चन्द्रमसं सुभ्रु नयनानन्दकारकम् ।। २७ ।।
जगतोऽस्य तमो गत्वा शशाङ्कः सत्त्वसन्निभः ।।
विराजत्यमलः सौम्ये गगने सितसुप्रभे।।२८।।
कामबाणहतायास्ते सदृशं गण्डयोः श्रिया ।।
बिभर्त्युभयतश्चन्द्रो ज्योत्स्नाजालं समुत्सृजन् ।। २९ ।।
चन्द्रराजतकुम्भेन दिशेयं वरवर्णिनि ।।
ज्योत्स्नाच्छलेन क्ष्मा देवी राजतीव विराजते ।। 1.132.३० ।।
चन्द्रमस्युदिते पश्य फुल्लां कुमुदिनीं शुभे ।।
त्वदीयहाससंकाशैः कुसुमैरुपशोभिताम् ।। ।। ३१ ।।
विरही चक्रवाकोऽयं रक्तामुत्पलिनीं शुभे ।।
सितामिव सुदुखार्तो विशत्यायतलोचने ।। ३२ ।।
चन्द्रकान्तगृहादस्माच्चन्द्ररश्मि समप्रभा ।।
चन्द्ररश्मिपरामृष्टाः पतन्त्युदकबिन्दवः ।। ३३ ।।
आलिङ्गिता चन्द्रमसा जहौ रात्त्रिस्तमःपटम् ।।
कामिनेव विशालाक्षि कामिनी वसनं शुभा ।। ३४ ।।
चन्द्रोदये चन्द्रसमानवक्त्रे नरेन्द्रचन्द्रे प्रमदावनेऽस्मिन् ।।
पश्य त्वमाशंस च जीविताशां त्वद्भाग्यनुन्नं सहसा प्रविष्टम् ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उपवने चन्द्रोदयवर्णनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ।।