विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३०

विकिस्रोतः तः
← अध्यायः १२९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३०
वेदव्यासः
अध्यायः १३१ →

वज्र उवाच ।।
नाकं त्यक्त्वोर्वशी ब्रह्मन्बुधपुत्रं कथं गता ।।
क्व च सा तं नरेन्द्रेन्द्रं दृष्टवत्यपराजितम् ।। १ ।।
मार्कण्डेय उवाच ।।
मनो वैवस्वतस्यास्य द्वापरे प्रथमे पुरा ।।
वृत्ते देवासुरे युद्धे वृत्ते चामृतमन्थने ।। २।।
संग्रामे कृतकर्माणं तस्मिन्नेव नराधिपम् ।।
शक्रस्यार्धासन गतं रूपेणाप्रतिमं तदा ।। ३ ।।
सम्पूज्यमानं त्रिदशैर्ददर्शायतलोचना ।।
बुधपुत्रं नरेन्देन्द्रं तदा नारायणात्मजा ।। ४ ।।
दृष्ट्वा बभूव चास्वस्था काममार्गणताडिता ।।
ततः प्रभृति भव्येषु मेरुकुञ्जेषु भामिनी ।। ५ ।।
आकारं गूहमाना सा कालं नयति कामिनी ।।
चिन्तयन्ती नरेन्द्रेन्द्रं कन्दर्पप्रतिमं सदा ।। ६ ।।
न सा भुङ्क्ते न स्वपिति श्रान्ता स्वपिति वा यदा ।।
तदा पश्यति तं स्वप्ने नीलनीरजलोचना ।। ७ ।।
मनोरथाँश्च कुरुते याँश्च तं प्रति भूमिपम् ।। ८ ।।
तानि सा पश्यति स्वप्ने कथञ्चित्स्वप्नमोहिता ।।
कदाचित्क्रीडिते राज्ञा कदाचिदनुनीयते ।। ९ ।।
सुप्ता कदाचिद्राजेन्द्र वदती प्रतिबुद्ध्यते ।।
कण्ठे गृहीता सा राज्ञा तया चासौ महीपतिः ।। 1.130.१० ।।
एवं दृष्ट्वा तु सा स्वप्ने निद्रामोहमुपागता ।।
तथैव बाहुपाशेन रचितेन विबुध्यते ।। ११ ।।
स्वप्नसंस्थं यदा दृष्ट्वा मोहमायाति सा चिरम् ।।
कृत्वा चित्रगतं पट्टे कदाचिच्च निरीक्षते ।। १२ ।।
एवं नरेन्द्रे गतसर्वभावां विज्ञाय तां चारुतराङ्गयष्टिम् ।।
आपाण्डुरक्षामकपोलभित्तिं दृष्ट्वैव रम्भां त्वरितं जगाद ।। १३ ।।
यत्नेन चार्वङ्गि निगूहमाना भावं मया त्वं विदितासि सुभ्रूः ।।
तस्मिन्नरेन्द्रे हृदयं तवेदं योऽसौ महात्मा समरेष्वजेयः ।। १४ ।।
पुरूरवा नाम जगत्त्रयेऽस्मिन्ख्यातिं गतः सच्चरितैर्नृवीरः।।
रूपेण कामं व्यतिरिच्य भाति शौर्येण शक्रादतिरिच्यते सः ।। १५ ।।
दाने समस्तस्य च नास्ति कश्चित्स त्येप्यनौपम्यगुणे नृवीरः ।।
देवासुरेऽस्मिन्समरे हतानि तेनासुराणां नियुतानि पञ्च ।। १६ ।।
केशी विशालो मदनस्तथोग्रो महाबलस्तेन तथापि शस्तः ।।
चन्द्रस्य पौत्रश्च बुधस्य पुत्रो मातापि तस्यार्कसुतस्य धात्री ।। १७ ।।
मानं समुत्सृज्य विशालनेत्रं तं गच्छ बाले नृपतिं प्रतीतम् ।।
त्वदाप्तये तस्य च नास्ति यत्नः सुदुर्लभत्वं खलु देवतानाम् ।। १८ ।।
मनोरथानां त्वमगम्यभूमिर्यस्माद्विशालाक्षि सुरासुराणाम् ।।
मृणालशय्या सुतनु त्वयेव संक्लेशिता चन्दनपङ्कयुक्ता ।। १९ ।।
तस्याङ्कमारुह्य भवस्व कान्ते विमुक्ततापा तपनीयवर्णे ।।
यास्याम एह्येहि नरेश्वरस्य तस्याशु भो वेश्म वरप्रयोगे ।। 1.130.२० ।।
पुरं प्रतिष्ठानमिति प्रतीतं मातामहाद्यत्समवाप राजा ।।
इत्येवमुक्ता तपनीयवर्णा तथ्यं विदित्वा त्रपिता बभूव ।। २१ ।।
उवाच रम्भां सखि तथ्यमुक्तं त्वया मतं तदुचितं भृशं मे ।।
यास्याव अद्यैव नरेश्वरस्य तस्यान्तिकं बालमृगाभनेत्रे।। २२ ।।
यद्यद्य तं नीलसरोजनेत्रं सम्पूर्णचन्द्राभमुखं नरेन्द्रम् ।।
पश्यामि नाहं पृथुदीर्घबाहुं ततो गमिष्याम्यवशावसानम् ।। २३ ।।
पञ्चैव कामस्य जनः पृषत्कान्यदाह रम्भे तदलं मृषैव ।।
ममानिशं बाणभरैस्तु विध्यन्न शाम्यते त्वक्षिनिमेषमात्रम् ॥ २४ ॥
कामाग्निमध्ये परिवर्तमानं न याति भस्मत्वमिदं शरीरम् ॥
तस्यैव राज्ञो वदनेन्दुना तत्संरक्ष्यते मे हृदयस्थितेन ॥ २५॥
नयस्व मां तस्य विशालनेत्रे समीपमद्यैव नरेश्वरस्य ।।
इत्येवमुक्ता करुणं हि रम्भा पाणावुपादाय विशालनेत्राम्।।२६।।
बुद्ध्या समुत्प्लुत्य ततोऽन्तरिक्षं जगाम राज्ञो भवनं प्रहृष्टा ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीरम्भासंवादो नाम त्रिंशदुत्तरशततमो ऽध्यायः।।१३०।।