विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२९
← अध्यायः १२८ | विष्णुधर्मोत्तरपुराणम् अध्यायः १२९ वेदव्यासः |
अध्यायः १३० → |
।। वज्र उवाच ।। ।।
उर्वशी च कथं जाता बुधजं पार्थिवं कथम् ।।
पतिं कृतवती देवी मानुषं तत्प्रकीर्तय ।। १ ।।
मार्कण्डेय उवाच ।।
साध्यौ धर्मसुतौ प्रोक्तौ नरनारायणावृषी ।।
यौ तौ पूर्वं महीपालौ तावुभौ यदुनन्दन ।। २ ।।
विष्णोरंशौ महावीर्यौ तपस्यभिरतौ सदा ।।
तयोस्तदाश्रमं रम्यं सुगन्धिविटपद्रुमम् ।। ३ ।।
बदर्याश्रममित्युक्तं मृदुस्पर्शहिमं शुभम् ।।
उष्णतोयवहा गङ्गा शीततोयवहा परा ।। ४ ।।
सुवर्णसिकता रम्या काञ्चनोत्पलमालिनी ।।
तत्र सा बदरी रम्या नित्यपुष्पफलोपगा ।। ५ ।।
तत्र तौ मुनिशार्दूलौ घोरं तप उपाश्रितौ ।।
भवाय सर्वलोकस्य सर्वलोकेश्वरावुभौ ।। ६ ।।
तयोस्तपस्यतोरेवं मौनेयाप्सरसो दश ।।
तयोस्तु तपसा विघ्नं संभूय कृतनिश्चयाः ।। ७ ।।
तं प्रदेशमनुप्राप्ता नानाभरणभूषणाः ।।
पितामहान्न सौम्योऽस्ति कश्चिद्राजञ्जगत्त्रये ।। ८ ।।
तासां दर्शनमासाद्य नरः कामवशो भवेत् ।।
कुसुमानि विचिन्वत्यो ललन्त्यश्च यथासुखम् ।। ९ ।।
दृष्टा नारायणेनाथ सर्वा बालमृगेक्षणाः ।।
तासामन्तर्गतं भावं ज्ञात्वा वेदविदां वरः ।। 1.129.१० ।।
जितक्रोधो महातेजा जितकामोऽर्थधर्मवित् ।।
आदाय सहकारस्य रसं मदनदीपनम् ।। ११ ।।
ऊर्वोश्चित्रेण चार्वङ्गीं निर्ममेऽप्सरसं शुभाम् ।।
ऊर्वोः कृता सा चित्रेण चित्राकरणशालिनी ।।१२।।
तस्मिन्नेव क्षणे नारी बभूवायतलोचना ।।
न देवी न च गन्धर्वी नासुरी न च पन्नगी ।।१३।।
तादृग्विधा त्रिलोकेऽस्मिन्यादृशी सा वराङ्गना ।।
तां दृष्ट्वा व्रीडितास्सर्वा मौनेयाप्सरसो दश ।। १४।।
जग्मुर्यथागतं राजँस्तच्छुश्राव पुरन्दरः।।
द्रष्टुं कौतूहलात्तां च बदर्याश्रममागतः ।। १५ ।।
पादयोर्न्यपतद्वज्री साध्ययोर्धर्मनित्योः ।।
ददर्श च शुभाङ्गीं तां श्रियं देवीमिवापराम् ।। १६ ।।
तमुवाच हसन्साध्यस्तदा नारायणः प्रभुः ।।
ममोरुजाता धर्मज्ञ उर्वशीयं भवेदिति ।। १७ ।।
नयस्व त्रिदिवं चैनां भवत्वप्सरसां शुभा ।।
एवमुक्ते मुदं प्राप्य अभिवाद्य च तावृषी ।। १८ ।।
अनयत्तां ततः स्वर्गं देवीं बालमृगेक्षणाम् ।।
शिष्यत्वे प्रददौ त्वेनां गन्धर्वस्य च तुम्बुरोः।।१९।।
ततः कदाचिच्छक्रस्य ननर्त पुरतस्तु सा ।।
उपदेशमतिक्रम्य तुम्बरोश्चारुहासिनी ।।1.129.२०।।
तां शशाप स गन्धर्वो मानुष्ये वत्स्यसे शुभे ।।
देवलोकमिमं त्यक्त्वा मानुषेण सहानघे ।। २१ ।।
कञ्चित्कालमुपास्यैवं मानुषं तं शुचिस्मिते ।।
आगम्य त्रिदिवे तावत्तस्मादभ्यस्यसे ततः ।। २२ ।।
तेनैव सार्धं त्रिदिवे रंस्यसे त्वं शुभानना ।।
वैवस्वताख्यस्य मनोर्यावदन्तरमुच्यते ।। २३ ।।
एवं हि शप्ता नृपवर्य तेन पपात राजन्गुरुणा नृलोके ।।
उवास राज्ञा सहिता तु तस्मात्स्वर्गं समासाद्य तथैव तेन ।। २४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीसंभवो नामैकोनत्रिंशदधिकशततमोऽध्यायः ।। १२९ ।।