विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२८

विकिस्रोतः तः
← अध्यायः १२७ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२८
वेदव्यासः
अध्यायः १२९ →

।। मार्कण्डेय उवाच ।।
जनयामास राजेन्द्र दनुर्दानवपुङ्गवान् ।।
विप्रचित्तिमुखान्वीरान्दैत्यपक्षमुपाश्रितान् ।। १ ।।
कालं च जनयामास कालकेयान्सुदारुणान् ।।
दैत्यपक्षाश्रितान्क्रूरान्विरुद्धान्देवतागणे ।। २ ।।
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।।
विरुद्धस्तु सदा देवैर्दैत्यपक्षमुपाश्रितः ।। ३ ।।
सिंहिका जनयामास सैंहिकेयान्महासुरान् ।।
राहुसाल्वमुखान्वीरान्बहूनमिततेजसः ।। ४ ।।
गन्धर्वाप्सरसो दिव्या मुनयस्तान्निवोध मे ।।
चित्रसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ।। ५ ।।
धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ।।
युगपस्तृणपः पार्ष्णिरर्धश्चित्ररथस्तथा ।। ६ ।।
कलिः शालिशिराश्चैव पर्जन्यो नारदस्तथा ।।
तेषां चैव यवीयस्यो दिव्याश्चाप्सरसः शुभाः ।। ७ ।।
अनूचानानवद्या च प्रियमुख्या गणेश्वरी ।।
मिश्रकेशी तथा चापि पर्णाशा पुञ्जिकस्थला ।। ८ ।।
मरीचिः शुचिका चैव विद्युत्पर्णी तिलोत्तमा ।।
आट्टिका लक्ष्मणा क्षेमा देवी रम्भा मनोरमा ।। ९ ।।
आसिता च सुबाहुश्च सुव्रता सुवपुस्तथा ।।
पुण्डरीका सुगन्धा च सुदारा सुरसा तथा ।। 1.128.१० ।।
हेमा शरद्वती चैव प्रसूता कमला च या ।।
सुमुखी हंसमार्गा च सौरीयाप्सरसः स्मृताः ।। ११ ।।
कद्रूश्च जनयामास नागास्तीव्रपराक्रमान् ।।
येषां शेषः प्रधानस्तु विष्णुर्नागवपुर्धरः ।। १२ ।।
येनेयं धार्यते भूमिः सशैलवनकानना ।।
आहेयी वासुदेवस्य पूर्वं मृर्तिर्मयेरिता ।। १३ ।।
अनन्त इति विख्याता महाकल्पविनाशिनी ।।
महाकल्पे महासत्त्वे स्वयं भवति सदा ।। १४ ।।
तस्यांशेन समुत्पन्नः शेषो हि धरणीधरः ।।
तस्यानुजांस्ते नागेन्द्रान्प्राधान्येन वदाम्यहम् ।। १५ ।।
वासुकिस्तक्षकश्चैव ऐलापत्रो धनञ्जयः ।।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।। १६ ।।
शङ्खपद्मौ महापद्मो धृतराष्ट्रबलाहकौ ।।
नीलाश्वः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।। १७ ।।
नहुषः कररोमा च कुरुश्च कुलिकस्तथा ।।
क्रोधश्च जनयामास दश कन्या नराधिप ।। १८ ।।
पुलहाय च ता दत्ताः कश्यपेन महात्मना ।।
मृगा च मृगमन्दा च हरिभद्रा मनोहरा ।। १९ ।।
भूता च कशिपा दंष्ट्रा सरसा सुरसा तथा ।।
इरा चैव तृणं सर्वं जनयामास भामिनी ।। 1.128.२० ।।
पञ्चप्रकारं धर्मज्ञ तं मे निगदतः शृणु ।।
वृक्षगुल्मलता वल्यस्त्वक्सारतृणजातयः ।। २१ ।।
अन्तःसंज्ञा भवन्येता घोरेण तमसा वृताः ।।
एतेषामभिमानिन्यो देवता यदुनन्दन ।। २२ ।।
जनयामास धर्मज्ञ इरा दाक्षायणी शुभा ।।
प्राधा प्रसूताप्सरसस्तासां नामानि मे शृणु ।। २३ ।।
अनवद्या अनूका च सूनूका करुणप्रिया ।।
मनूना सुभगा चैव सहजन्या च मेनका ।। २४ ।।
घृतस्थूला घृताची च विषूची पूर्वचित्यपि ।।
प्रम्लोचीत्यप्सराश्चैव निम्लोचन्ती तथैव च ।। २५ ।।
अनेनैव प्रसंगेन तथान्यासां महीपते ।।
जन्म तेऽप्सरसां वक्ष्ये तन्मे निगदतः शृणु ।। २६ ।।
सुन्दोपसुन्दनाशाय निर्मिता विश्वकर्मणा ।।
तिलंतिलं समादाय सर्वरत्नैस्तिलोत्तमा ।।२७।।
यस्याः प्रदक्षिणाज्जातश्चतुर्वक्त्रः पिनाकभृत् ।।
सहस्रनयनः श्रीमान्वज्री शक्रश्च पाकहा ।। २८ ।।
शेषैर्देवगणैर्दृष्ट्वा भ्रमद्वक्त्रैः प्रदक्षिणैः ।।
कृते कर्मणि सा प्राप्ता सूर्यलोकं वराङ्गना ।। २९ ।।
एकस्थं रूपसौन्दर्यं द्रष्टुमिच्छन्पितामहः ।।
अहल्यां नाम कृतवांस्त्रैलोक्यस्यैकसुन्दरीम् ।। 1.128.३० ।।
गौतमाय च तां प्रादाद्ब्रह्मा शुभचतुर्मुखः ।।
यस्याः कृते गौतमेन शक्रो निर्वृषणः कृतः ।।३१।।
नारायणोरुसंभूता तथा चैवोर्वशी शुभा ।।
संत्यक्तमानसा वव्रे भर्तारं बुधजं नृपम् ।। ३२ ।। ।
पुरूरवसनामानं रूपेणाप्रतिमं भुवि ।।
तेनैव सार्धमद्यापि दिवं प्राप्ता च तिष्ठति ।। ३३ ।।
आहूत्य इति विख्याता तथैवाप्सरसः शुभा ।।
ब्रह्मणा मनसा सृष्टा देवरामा मनोरमाः ।। ३४ ।।
मनोः सुताः शौचवत्यो विद्युज्जालरुचः स्मृताः ।।
भीरवश्च सुता मृत्योर्भूमिजाता भुवः स्मृताः ।। ३५ ।।
अमृताख्याश्च सम्भूतास्तथैवामृतमन्थने ।।
वह्निजाता सुदा नाम सोमाद्भेकुरयास्तथा ।। ३६ ।।
आयुर्वत्यस्तथा प्रोक्ताः सूर्यरश्मिसमुद्भवाः ।।
यज्ञोत्पन्नास्तथा नाम ऋक्सामभ्यस्तथेष्टयः ।। ३७ ।।
वायूत्पन्ना सुदा नाम देवरामाः प्रकीर्तिताः ।।
इत्येते बहुसाहस्रा विज्ञेयाप्सरसां गणाः ।। ३८ ।।
देवतानामृषीणां च पत्न्यस्ता मातरश्च वै ।।
सुगन्धाश्चाप्यनिष्यन्दा सर्वा ह्यप्सरसः शुभाः ।।३९ ।।
तासामाप्यायते स्पर्शादानन्दं चाश्नुते महत् ।।
विनता जनयामास रुद्रान्वै सोमपीथिनः ।। 1.128.४० ।।
अङ्गारकं तथा सूर्यं निर्ऋतिं च खगं तथा ।।
अजैकपादाहिर्बुध्न्यधूमकेतु ध्वजास्तथा ।। ४१ ।।
हवनं नृश्वरं स्वभ्यं कपालमथ किङ्किणीम् ।।
एकादशैते कथितास्तव रुद्रा महाबलाः ।। ४२ ।।
येषां च जनयामास द्वौ पुत्रौ यक्षराक्षसौ ।।
ययोः सन्तानसंभूता राजन्वै यक्षराक्षसाः ।। ४३ ।।
इमं च वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदेवसन्निधौ ।।
अपत्यलाभं स लभेत् पुष्कलां श्रियं तथा प्रेत्य च शोभनां गतिम् ।। ४४ ।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यप सर्गो नामाष्टाविंशत्यधिकशततमोऽध्यायः ।। १२८ ।।