विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२५ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२६
वेदव्यासः
अध्यायः १२७ →

वज्र उवाच ।।
यदुक्तं दैत्यनाथेन दैत्यानां कालनेमिना ।।
पातालदैत्यशमनं वपुर्देवस्य चक्रिणः ।। १ ।।
तदहं श्रोतुमिच्छामि तत्र मे संशयो महान् ।।
चरितं तस्य देवस्य भावान्वेत्ति यथातथम्।।
मार्कण्डेय उवाच ।।
विष्णुना तु बलौ बद्धे पातालतलमाश्रिताः।।
जघ्नुदैत्यगणा लोकान्ब्राह्मणांश्च विशेषतः।।३।। ।
भूतले हन्यमाने तु यज्ञे नाशमुपागते ।।
क्षुत्क्षामस्त्रिदशैर्ब्रह्मा दैत्यहेतोः प्रचोदितः।।४।।
ब्रह्मापि चोदयामास देवदेवं जनार्दनम्।।
ब्रह्मणा चोदितो देवः पातालगमनेच्छया ।।८५।।
चकार रूपं वाराहं भिन्नाञ्जनचयप्रभम् ।।
शशाङ्कलेखादंष्ट्राग्रं वज्रप्रोथखुरं तथा ।।६।।
वज्रसंहननं भीमं त्रैलोक्यक्षोभकारकम् ।।
पीनवृत्तायतस्कन्धं महापीनशिरोधरम् ।। ७ ।।
विवृत्तास्यं महाकायं भीमाक्षं भीमनिस्वनम् ।।
आवर्त्तिरोमसंघातं तेन विग्रहमूर्जितम् ।। ।। ८ ।।
स समुद्रेण पातालं प्रविश्य मधुसूदनः ।।
दैत्यानां दर्शने तस्थौ महाबलपराक्रमः ।। ९ ।।
पाताले सूकरं दृष्ट्वा प्रोथदारितभूतलम् ।।
सुमुस्तगर्भकवलं शुंशुकारकृताननम् ।। 1.126.१० ।।
पङ्कानुलिप्तसर्वाङ्गं निर्ययुर्दानवास्तदा ।।
सततं मृगयाशीला जघ्नुस्तञ्च वरायुधैः ।। ११ ।।
स हन्यमानो दैत्यास्त्रैः पृषतैरिव पर्वतः ।।
स्कन्धकण्डूच्छलेनाजौ दैत्याधिपनिवेशनम् ।। १२ ।।
पातयामास वेगेन महाद्रिशिखरोपमम् ।।
वेश्मनश्च निपातेन देवदेवस्य मायया ।। १३ ।।
हन्यन्ते दानवा घोराः शतशोऽथ सहस्रशः ।।
ते क्षयाद्दैत्यमुख्यानां दैत्यमुख्यक्षयङ्कराः।।१४।।
यथार्थक्षयतां जग्मुः क्षये रौद्र उपस्थिते ।।
क्षीयमाणाः क्षयैर्दृष्ट्वा क्षतजोत्क्षिप्तमूर्धजान् ।। १५ ।।
क्ष्मातलस्थान्क्षतैर्गोत्रैः क्षणेन क्षणदाचरान् ।।
प्रधाना दैत्यमुख्या ये औरसेरन बलेन ते ।।१६।।
जग्मुर्वरायुधैर्देवं शतशोऽथ सहस्रशः ।।
स हन्यमानो दैत्येन्द्रैः प्रोथेन दितिजोत्तमान् ।।१७।।
विदारयामास रणे दंष्ट्राग्रेण तथापरान् ।।
एवं वराहेण रणे हतान्दृष्ट्वा दिते सुतान् ।। १८ ।।
हरिं विज्ञातवान्देवं प्रह्रादो दैत्यसत्तमः ।।
स प्रणम्य हरिं देवं तुष्टाव परवीरहा ।। १९ ।।
तं जगाद महातेजा देवदेवो जनार्दनः ।।
अनुग्राह्योऽसि मे दैत्य भक्तोऽसि सततं यतः ।। 1.126.२०।।
तवाज्ञालङ्घका घोरा प्रायेण निहता मया ।।
तवाज्ञाकारिणो दैत्या न मे वध्या दितेः सुताः ।। २१ ।।
शासनं पालय मह्यं पाताले त्वं सुखी भव ।।
मार्गे स्थापय दैत्याँस्त्वं त्वदाज्ञापरिबृंहितान् ।।२२।।
आभूतसंप्लवं दैत्य जीवं त्वं न विमोक्ष्यसे ।।
धर्मिष्ठानां च दैत्यानां सदा राजा भविष्यसि ।। २३ ।।
मद्भक्त्या परया वत्स पुत्रस्तव विरोचनः ।।
मार्गच्युतोऽपि न हतः कल्पायुश्च तथा कृतः ।। २४ ।।
बलिर्वैरोचनश्चैव मया बद्धः कृते तव ।।
करिष्यति स शक्रत्वं प्राप्ते सावर्णिकेन्तरे ।। २५ ।।
बाणं च तनयं तस्य मम विप्रियकारकम् ।।
त्वत्कृते न हनिष्यामि तस्य च्छेत्स्यामि दोर्द्रुमान् ।। २६ ।।
छिन्नबाहुर्मया युद्धे हरस्यानुचरो बली ।।
महाकाल इति ख्यातो कल्पस्थायी भविष्यति ।। २७ ।।
एकमेकं तु दैत्येन्द्र सन्ताने सततं तव ।।
नाहं वधिष्ये धर्मज्ञ त्वत्कृते व्येतु ते भयम् ।। २८ ।।
भवान्भक्तस्तथा मह्यं भक्तेष्वपि तथा मम ।।
नास्त्यदेयं महाभाग तस्मात्त्वं गच्छ निर्वृत्तः ।। २९ ।।
हतशेषानुपादाय दैत्यान्सत्पथमाश्रितान् ।।
एतावदुक्ता प्रह्रादं तत्रैवान्तरधीयत ।।1.126.३० ।।
एतद्वाराहचरितं तव राजसिंह प्रोक्तं मया सकलकल्मषनाशकारि ।।
उदवृत्तदैत्यशमनस्य ऋषिस्तुतस्य कण्डूविनोदनहतासुरपुङ्गवस्य ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पाताले वराहप्रादुर्भावो नाम षड्विंशत्यधिकशततमोऽध्यायः ।। १२६ ।।