विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२४ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२५
वेदव्यासः
अध्यायः १२६ →

।। मार्कण्डेय उवाच ।।
दृष्ट्वा स पुरतो देवं दानवानभ्यभाषत ।।
अयं स दृश्यते विष्णुर्दानवा येन घातिताः ।। १ ।।
कुतृष्णयेव शक्रार्थे बभूव किल वामनः ।।
यदा वञ्चितवान्पुत्रं भ्रातृव्यस्य बलिं मम ।। २ ।।
नृवराहवपुः कृत्वा लोकचित्तहरं पुरो ।।
हिरण्याक्षं जघानैव पितृव्यं मम विस्मितम् ।। ३ ।।
अपूर्वं रूपमास्थाय नरसिंहस्य दानवाः ।।
पितरं यो जघानैव हिरण्यकशिपुं रणे।। ४ ।।
वराहरूपिणानेन पातालतलमास्थिताः ।।
असम्भाव्यभयेनाजौ दानवा विनिपातिताः ।। ५ ।।
नराश्व वपुषा येन मधुकैटभयोः पुरा ।।
पातालादाहृता वेदास्ततस्तौ युधि घातितौ ।। ६ ।।
अस्याज्ञाकारिणो देवा न संतिष्ठन्ति शासने ।।
अयं स रक्षां देवानामस्माभिर्विप्रकृष्यताम् ।। ७ ।।
त्रैलोक्ये दैत्यमुद्भूतं युद्धेनैव पुनःपुनः ।।
देवसाद्गम इत्येव तेन वध्योऽथ मे रिपुः ।। ८ ।।
अतीतस्याद्य कालस्य दुर्नयस्य कृतस्य च ।।
भोक्ष्यतेऽयं फलं दैत्याः सर्वे पश्यन्तु मा चिरम् ।। ९ ।।
इत्येतद्दैत्यनाथस्य वाक्यं श्रुत्वैव दानवाः ।।
जयशब्दं ततश्चक्रुः सिंहनादरवं तथा ।। 1.125.१० ।।
वाचश्च प्रतिकूलास्तास्तेन दुष्टेन चेतसा ।।
तच्छ्रुत्वा च हरिर्देवः क्रुद्धो नामेदमब्रवीत् ।। ११ ।।
किमिदं गर्जसे दैत्य शारदाम्बुदवद्वृथा।।
प्रजापिकृतं सेतुं कथं लङ्घितुमिच्छसि।।१२।।
एवं कथतोर्देवदैत्ययोः पार्थिवोत्तम।।
प्रावर्तत रणो घोरो गदापातविभीषणः।।१३।।
दानवैर्देवदेवोऽपि कालनेमिपुरःसरैः।।
संछाद्यते महास्त्रौघैर्मेघैरिव नभस्तलम्।।१४।।
संछाद्यमानो दैत्येन्द्रैर्देवदेवो न विव्यथे ।।
योधयामास स रणे गदया दानवान्बहून् ।। १५ ।।
तस्य दैत्यप्रसक्तस्य कालनेमिर्महासुरः ।।
पातयामास वेगेन गदां गरुडमूर्धनि ।। १६ ।।
गदाघातेन रौद्रेण तेन तार्क्ष्यस्य मानद ।।
नासा भग्ना व्यथा जाता रक्तच्छर्दिश्च दारुणा ।। १७ ।।
व्यथितं गरुडं दृष्ट्वा देवेन हरिमेधसा ।।
क्षिप्तं दैत्यविनाशाय तदा चक्रं सुदारुणम् ।। १८ ।।
यत्तत्सुदर्शनं नाम सूर्यतेजःसमुद्भवम् ।।
वज्रनाभं सहस्रारं क्षरपर्यन्तमण्डलम् ।। १९ ।।
च्युतं चक्रिकराच्चक्रं कालनेमिं महासुरम् ।।
शीघ्रं विशिरसं चक्रे विबाहुं च तथा नृप ।। 1.125.२० ।।
विबाहुशिरसं कृत्वा देवहस्तमुपेयिवान् ।।
विबाहुशिरसं कायं क्षरच्छोणितनिर्झरम् ।। २१ ।।
न पपातास्य मेदिन्यां यदा तार्क्ष्यस्ततो रयात् ।।
उरुसा पातयामास देवानां पश्यतां तदा ।। २५ ।।
पतता दैत्यकायेन सशैलवनकानना ।।
कम्पिता वसुधा सर्वा पतिताश्च शिलोच्चयाः ।। २३ ।।
दानवेन्द्रं हतं दृष्ट्वा मयतारपुरोगमाः ।।
तुष्टुवुर्देवदेवशं वरचक्रासिपाणिनम् ।। २४ ।।
तुष्टाव च तदा देवो ब्रह्मा शुभचतुर्मुखः ।।
स्तुतश्च ब्रह्मणा देवो लोकपालान्यथा पुरा ।।२५।।
स्थानेषु योजयामास यज्ञं देवमुखे तथा ।।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा विभुः ।।२६।।
तत्रात्मानं यज्ञमूर्ति मिज्यमानं द्विजोत्तमः ।।
दृष्ट्वा स्वयं तु जग्राह यज्ञभागं महात्मनाम् ।। २७ ।।
तत्र पूजामुपादाय जगाम स हिरण्वतीम् ।।
अस्त्रैरनुगतस्तत्र सुष्वाप किल योगवित् ।।।२८।।
एवं स दैत्यप्रवरो नरेन्द्र कृष्णेन चक्रेण पुरा निरस्तः ।।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ।।२९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेमिवधो नाम पञ्चविंशत्यधिकशततमोऽध्यायः ।। १२५ ।।