विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२३ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२४
वेदव्यासः
अध्यायः १२५ →

मार्कण्डेय उवाच ।।
वाय्वग्नी सहितौ गत्वा मयतारपुरोगमान् ।।।
जिग्यतुः समरे दैत्यान्नानाप्रहरणोद्यतान ।। १ ।।
विजितास्ते रणे दैत्या मयतारपुरोगमाः।।
त्यक्तदेवालयाः सर्वे वरुणालयमागताः ।। २ ।।
एतस्मिन्नेव काले तु हिरण्यकशिपोः सुतः ।।
कालनेमिरिति ख्यातः शतशीर्षोनुदृश्यते।।३।।
शतबाहुर्महाकायः पर्वताकारदर्शनः।।
ब्रह्मलब्धवरो रौद्रो दग्धशैलसमच्छविः।।४।।
एकोदरो द्विपादश्च एकग्रीवः सुरान्तकः।।
अङ्गदी बद्धमुकुटः कुण्डलाम्बरभूषणः।।
सर्वायुधधरो रौद्रो गदापाणिर्विभीषणः ।।
दत्त्वाऽभयं स दैत्यानां तस्मै मेरुं सुरालयम् ।। ६ ।।
गत्वा विजिग्ये त्रिदशान्स्थानेभ्यश्चावरोपयत् ।।
त्रैलोक्यमात्मसात्कृत्वा सुखमास्ते त्रिविष्टपे ।। ७ ।।
तस्य ते ह्यनुगाः सर्वे लोकाः स्थावरजङ्गमाः ।।
तदाज्ञाकारिणः सर्वे तद्भावस्यानुवर्तकाः ।। ८ ।।
पञ्च तत्राभ्यवर्तन्त विपरीतेन कर्मणा ।।
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ।। ९ ।।
सर्वेषामनुसन्धानात्सरोषो दानवेश्वरः ।।
वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम्।।1.124.१०।।
ज्ञात्वा दैत्यमथायान्तं देवोपि मधुसूदनः।।
तार्क्ष्यमावाहयाञ्चक्रे आरुरोह च तं हरिः।।
स ददर्श हरिं देवं तार्क्ष्यस्थं दैत्यराट् तदा।।
सजलजलदनीलं पद्मपत्रायताक्षं खगपतिमवरूढं कल्पवृक्षोपमानम्।।
हलमुसलगदाभिः शोभितं देवदेवं वरपुरुषमजेयं शार्ङ्गचक्रासिपाणिम्।।१२।।
इति श्री विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेम्युपाख्याने श्रीभगवद्दर्शनो नाम चतुर्विंशत्यधिकशततमोऽध्यायः ।। १२४ ।।