सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२३

विकिस्रोतः तः
← अध्यायः १२२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२३
वेदव्यासः
अध्यायः १२४ →

बृहस्पतिरुवाच।।
जगदायुर्भवान्वायो शरीरस्थः शरीरिणाम्।
अनन्तमूर्तिर्धर्मात्मा देवो नारायणः प्रभुः ।।१।।
अचिन्त्यवीर्यः पुरुषः सदाधारः सनातनः ।।
साक्षिभूतश्च सर्वेषां कर्मणां शुभपापयोः ।।२।।
घ्राणस्त्वं देहिनां देहे चेष्टितञ्च तथा भवान् ।।
भवान्रुद्रो भवान्ब्रह्मा भवान्विष्णुः सनातन ।। ३ ।।
तवायत्तं हि जगतां वर्षावर्षं शुभाशुभम ।।
भवान्विसृजते मेघान्भवान्संहरते पुनः ।। ४ ।।
भवान्धारयते मेघान्वर्षमाणाँस्तथा दिवि ।।
आदित्यरश्मिपीतस्य मेघोदरगतस्य च ।।५।।
रसस्य भङ्क्ता सततं भवानेव नभस्तले ।।
तडिल्लतानां च तथा भवान्कर्ता जगत्त्रये।। ६ ।।
अम्भसां भेदकाले तु सर्वाधारः समीरण ।।
परस्परं हि भवतस्तथा संघटनात्प्रभो ।। ७ ।।
गर्जितं जायते लोके मेघोदर गतं महत् ।।
बलेन त्वत्समं नान्यं भूतं पश्यामि भूतले ।।८ ।।
तस्मात्त्वं कुरु साहाय्यं वेदमूर्तेर्विभावसोः ।। ९ ।।
एतावदुक्तोङ्गिरसा महात्मा तथेति तं प्राह समीरणोऽपि ।।
जगाम युद्धं सह पावकेन दैत्येश्वरान्देवरिपून्महात्मा ।। 1.123.१० ।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे वायुस्तोत्रं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ।। १२३ ।।