विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२२
वेदव्यासः
अध्यायः १२३ →

वज्र उवाच।।
हिरण्यकशिपोः पुत्रो कालनेमिर्महासुरः।।
कथं कृष्णेन निहतस्तन्ममाचक्ष्व पृच्छतः।।१।।
मार्कण्डेय उवाच।।
यदा दैत्यवधे वृत्ते दैत्याः पातालमाश्रिताः।।
मयतारौ समाश्रित्य भूयो देवान्प्रदुद्रुवुः ।। २ ।।
तत्र देवगणाः सर्वे मयतारपुरःसरैः ।।
दानवैर्निहता युद्धे देवाचार्यं बृहस्पतिम् ।। ३ ।।
संप्राप्ताः शरणं विप्रं तानुवाच बृहस्पतिः ।।
तारकश्च मयश्चैव महाबलपराक्रमौ ।। ४ ।।
ययुर्जेतुं देवगणाँस्ताविमौ चोदयाम्यहम् ।।
एवमुक्त्वा देवगणान्देवाचार्यो बृहस्पतिः ।।
तुष्टाव देवदेवेशं बहुरूपं हुताशनम् ।। ५ ।।
बृहस्पतिरुवाच ।।
त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ।।
वेदास्त्वदर्थं जाताश्च जातवेदास्तथा ह्यसि ।। ६ ।।
त्वं यज्ञस्त्वं वषट्कारस्त्वं हवींषि महाद्युते ।।
त्वं स देव चरस्यात्मा विष्णोरमिततेजसः ।। ७ ।।
त्वं मुखं सर्वदेवानां सर्वस्यात्मा तथा भवान् ।।
ऊष्मा त्वं देहिनां देहे भुक्तपीतवतस्तथा।।८।।
यच्छक्तिः सर्वदेवानां त्वदीया भूतभावन।।
प्राप्ता त्वयाहुतिः सम्यगादित्य मुपतिष्ठते ।। ९ ।।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।।
सर्वदेववरेशानः सर्वलोकनमस्कृतः ।। 1.122.१० ।।
त्रैलोक्यस्य समुत्पत्तावेकः कारणतां गतः ।।
कालाग्निरुद्रो भगवाञ्जगत्संहारकारकः।।११।।
स्थितौ निमित्तं च भवान्सर्वेषां देहिनां शमः।।
अतीव दुर्धरं देव तव तेजः सुदारुणम् ।।१२।।।
तेजसा तेन दैत्येन्द्राञ्जहि मा त्वं चिरं कृथा ।।
सखा च ते रणे देव भविष्यति समीरणः ।।१३।।
इत्येवमुक्तोङ्गिरसा महात्मा तथेति तं प्राह नृपेन्द्र पूज्यम् ।।
जीवोऽपि गत्वा पवनं जगाद देवेश्वरस्यानघसिद्धिमिच्छन्।।१४।।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽग्निस्तोत्रं नाम द्वाविंशत्यधिकशततमोऽध्यायः ।।१२२।।