विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२७
वेदव्यासः
अध्यायः १२८ →

वज्र उवाच ।।
दितिर्विनष्टपुत्रा च यच्चकार द्विजोत्तम ।।
तन्ममाचक्ष्व संक्षेपात्तत्र मे संशयो महान् ।। १ ।।
मार्कण्डेय उवाच ।।
दितिर्विनष्टपुत्रा च तपसा महता नृप ।।
आराधयामास तदा भर्तारं कश्यपं मुनिम् ।।२ ।।
आराधितः सुतपसा च्छन्दयामास भामिनीम् ।।
वरेण च वचः काले पुत्रव्यसनकर्षिताम् ।। ३ ।।
कश्यप उवाच ।।
वरं वरय सुश्रोणि वरदोऽहमुपस्थितः ।।
एवमुक्ता वरं वव्रे देवी पुत्रविनाकृता ।। ४ ।।
दितिरुवाच ।।
शक्रहन्तारमिच्छामि पुत्रं ब्रह्मन्यशस्विनम् ।।
यदि तुष्टोऽसि मे ब्रह्मंस्तं प्रयच्छ सुतं मम ।। ५ ।।
मार्कण्डेय उवाच ।।
एवमुक्तस्तदा भर्ता नातिप्रीतोऽब्रवीद्वरम् ।।
एवं ते भविता भद्रे शुचि त्वं चेद्भविष्यसि ।। ६ ।।
पूर्णवर्षसहस्रं च नान्यथा तद्भविष्यति ।।
एवमुक्त्वा तया सार्धमुवास रजनीं द्विजः ।।७।।
ततो जगाम धर्मात्मा तपसे दृढनिश्चयः ।।
आतस्थौ नियमं देवी सगर्भा च दितिस्तदा ।।
नियमस्थां तु तां दृष्ट्वा शक्रो वचनमब्रवीत्।। ८ ।।
शक्र उवाच ।।
अहं देवि करिष्यामि तव शुश्रूषणं सदा ।।
स्थिताया नियमे घोरे तदनुज्ञातुमर्हसि ।। ९।।
मार्कण्डेय उवाच ।।
बाढमस्त्वित्यथोक्तस्तु तया देवः पुरन्दरः ।।
तत्रोवास च्छलान्वेषी शुश्रूषुर्मातरं सदा ।। 1.127.१० ।।
तदाब्दशेषे काले च दिवा सुप्ताऽदितिर्नृप ।।
मध्याह्नसमये राजन्पादयोः कृतमूर्धजा ।। ११ ।।
तस्याः संप्राप्य तच्छिद्रं वज्री परपुरञ्जयः ।।
विवेश गर्भमार्गेण विवृतेन नरेश्वर ।। १२ ।।
संप्रविश्यैव तं गर्भं वज्रेण शतपर्वणा ।।
कृतवान्सप्तधा वज्री भागंभागं ततः पुनः ।। १३ ।।
एकैकं सप्तधा चक्रे गर्भोऽपि प्रारुदत्तदा ।।
मा रुदस्वेति तं वज्री प्राह कार्ये स्वके स्थितः ।। १४ ।।
एतस्मिन्नेव काले च दैत्येन्द्रजननी तदा ।।
विबुद्धा वारयामास शक्रं दशशतेक्षणम् ।। १५ ।।
वज्रगर्भाञ्जलिः शक्रो मातुर्वचनयन्त्रितः ।।
निश्चक्रामोदरात्तस्याः सह बालैर्महात्मभिः ।। १६ ।।
तं जगाद दितिः शक्रं प्राञ्जलिं पुरतः स्थितम् ।।
न ते शक्रापराधोऽस्ति मम गर्भनिकृन्तने ।। १७ ।।
सर्वोपायैर्नियन्तव्यः शत्रुर्नयविदा सदा ।।
ममापराधाद्गर्भोऽयं त्वयाद्य बहुधा कृतः ।। १८ ।।
भवन्तु मरुतो नाम सर्वे देवाः पृथक्पृथक्।।
मा रुदध्वमिति प्रोक्ता यतः शक्र त्वया सुताः ।।१९।।
ततश्च मरुतो नाम भविष्यन्ति जगत्त्रये ।।
त्वत्सहाया भविष्यन्ति त्वदाज्ञावशवर्तिनः ।। 1.127.२० ।।
न चैतेभ्यो भयं किञ्चित्कदाचित्ते भविष्यति ।।
एषां नामविभागाँस्तु स्थानानि च तथा कुरु ।। २१ ।।
एकज्योतिश्च द्विर्ज्योतिस्त्रिचतुर्ज्योतिरेव च ।।
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।। २२ ।।
प्रथमे पवन स्कन्धे गणोऽयं सुरथः स्मृतः ।।
इन्द्रश्च गव्यो दृश्यश्च इतः प्रतिशिरास्तथा ।। २३ ।।
मितश्च सम्मितश्चैव अमितश्च महाबलः ।।
द्वितीये पवन स्कन्धे गणो नाम प्रघोषणः ।।२४।।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।।
अतिमित्रो नामित्रश्च पृरुमित्रोऽपराजितः ।। २५ ।।
तृतीये पवनस्कन्धे गणः सन्तापनः स्मृतः ।।
ऋतेश्च ऋतवान्धाता विधाता धरणो ध्रुवः ।। २६ ।।
विधारणः चतुर्थस्तु गृहमेधो गणः स्मृतः ।।
इदृक्षश्च सदृक्षश्च एतादृगमृताशनः ।। २७ ।।
क्रीतनः प्रसदृक्षश्च सरभश्च महायशाः ।।
गृहे च रोषणा नाम वायुस्कन्धे च पञ्चमे ।। २८ ।।
धर्ता दुर्गध्व निर्भीमो ह्यभियुक्तिः कृपा सहः ।।
षष्ठे तु पवनस्कन्धे सास्वी नाम गणः स्मृतः ।।२९ ।।
द्युतिर्वपुरनादृश्यो कामो जयो विराट् ।।
प्रेजेषणो गणो नाम वायुस्कन्धे च सप्तमे ।। 1.127.३० ।।
एषां नामविभागन्तु दत्त्वा स्थानानि चाच्युतः ।।
जगाम स्वगृहं प्रीत्या दितिश्च स्वगृहं ययौ ।। ३१ ।।
एतत्तवोक्तं मरुतां नृवीर जन्मोत्तमं पापभयापहारि ।।
यस्मिञ्श्रुतेनैव जनस्य लोके भवन्तु वृत्त्या न भविष्यतीह ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मरुदुत्पत्तिर्नाम सप्तविंशत्यधिकशततमोऽध्यायः ।। १२७ ।।