विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११८

विकिस्रोतः तः
← अध्यायः ११७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११८
वेदव्यासः
अध्यायः ११९ →

।। मार्कण्डेय उवाच ।।
अतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान्द्विजान् ।।
आगस्त्येयः करम्भो यः कौसल्याकुलजास्तथा ।।१।।
स्वमेधसो मयोभुवस्तथा गान्धारकायनिः।।
पौलस्त्याः पुलहाश्चैव क्रतुवंशभवास्तथा।।२।।
वार्ष्णेयोऽपि मतश्चैषां सर्वेषां प्रवराः शुभाः ।।
अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ।। ३ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
पौर्णमासाः पारणाश्च त्र्यार्ष्णेयाः परिकीर्तिताः ।।४।।
अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ।।
परस्परमवैवाह्या पौर्णमासाश्च पारणम् ।। ५।।
एतदुक्तमृषीणां ते वंशमुक्तमपूरुषम् ।।
अतः परं प्रवक्ष्यामि किं तवानघ कथ्यताम् ।।६।।
वज्र उवाच ।।
पुलहस्य पुलस्त्यस्य क्रतोश्चैव महात्मनः ।।
अगस्त्यस्य तथा चैकं कथं वंशं तदुच्यते ।। ७ ।।
मार्कण्डेय उवाच ।।
क्रतुः खल्वनपत्योऽस्ति राजन्वैवस्वतेन्तरे ।।
इध्मवाहं स पुत्रत्वे जग्राह नृपसत्तम ।। ८ ।।
अगस्त्यपुत्रं धर्मज्ञ आगस्त्यात्क्रतवस्तथा ।।
पुलहस्य तथा पुत्रः तिरश्चः पृथिवीपते ।। ९ ।।
तेषां ते जन्म वक्ष्यामि उत्तरत्र यथा विधि ।।
पुलहस्त्वप्रजां दृष्ट्वा नातिप्रीतमना ह्यभूत् ।। 1.118.१० ।।
अगस्त्यजं दृढस्युं तं पुत्रत्वे कृतवांस्तदा ।।
पौलहाश्च तथा राजन्नागस्त्याः परिकीर्तिताः ।। ११ ।।
एते तवोक्ताः प्रवरा द्विजानां महानुभावा नृप गोत्रकाराः ।।
येषां च नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अगस्त्यवंशानुकीर्तनं नामाष्टादशाधिकशततमोऽध्यायः ।। ११८ ।।