विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११७
वेदव्यासः
अध्यायः ११८ →

।। मार्कण्डेय उवाच ।। ।।
वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः ।। १ ।।
बभूव पार्थिवश्रेष्ठ यज्ञैस्तस्य समन्ततः ।।
शान्तात्मा पार्थिवश्रेष्ठ विशश्राम तदा पुरा ।। २ ।।
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ।।
भगवन्यष्टुमिच्छामि तन्मा याजय मा चिरम् ।। ३ ।।
तमुवाच महातेजा वशिष्ठः पार्थिवोत्तमम् ।।
कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः समन्ततैः ।। ४ ।।
भृशं श्रान्तोऽस्मि विश्रम्य याजयिष्यामि ते नृप ।।
एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तमः ।।५।।
पारलौकिककार्येषु कः प्रतीक्षितुमुत्सहे ।।
न यस्य सौहृदं ब्रह्मन्कृतान्तेन बलीयसा ।। ६ ।।
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम ।।
धर्ममार्गरतो जन्तुर्मृतोऽपि सुखमश्नुते ।। ७ ।।
श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्णिकम् ।।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ।। ८ ।।
क्षेत्रापत्यगृहासक्तमन्यत्र गतमानसम् ।।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ।। ९ ।।
न कालस्य प्रियः कश्चिद्द्वेष्यो वास्य न विद्यते ।।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ।। 1.117.१० ।।
प्राणो वायुश्चलत्वञ्च वायोर्विदितमेव च ।।
यत्र यज्जीव्यते ब्रह्मन्क्षणमात्रं तदद्भुतम् ।। ११ ।।
सोऽहं सम्भृतसंभागे भवन्मूलमुपागतः ।।
न चेद्याजयसे मह्यं यास्याम्यन्यं तु याजकम् ।। १२ ।।
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ।।
शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि ।।१३।।
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ।।
धर्मज्ञः सन्नरेन्द्राद्य याजकं कर्तुमर्हसि ।।१४।।
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ।।
विघ्नं करोषि नान्येन याजनं च तथेच्छसि ।। १५ ।।
शापं ददामि तस्मात्त्वं विदेहोऽद्य भविष्यसि ।।
एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ ।। १६ ।।
देहहीनौ तयोर्जीवौ ब्रह्माणमुपजग्मतुः ।।
आगतौ तौ समीपेऽथ ब्रह्मा वचनमब्रवीत् ।।१७।।
अद्यप्रभृति ते स्थानं निमे जीवं ददाम्यहम् ।।
नेत्रपक्ष्मसु सर्वेषां मनुष्याणां भविष्यसि ।। १८ ।।
त्वत्सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ।।
चालयिष्यन्ति तु यदा नेत्रपक्ष्माणि मानवाः ।। १९ ।।
एवमुक्ते मनुष्याणां नेत्रपक्ष्मसु सर्वशः ।।
जगाम निमिजीवं तु वरदानात्स्वयम्भुवः ।। 1.117.२० ।।
वशिष्ठजीवं भगवान्ब्रह्मा वचनमब्रवीत् ।।
मित्रावरुणयोः पुत्रो वशिष्ठ त्वं भविष्यसि ।। २१ ।।
वशिष्ठ इति ते नाम तत्रापि च भविष्यति ।।
जन्मद्वयमतीतं च तत्रापि त्वं स्मरिष्यसि ।। २२ ।।
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ।।
बदर्याश्रममासाद्य तपस्तेपतुरव्ययम् ।। २३ ।।
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ।।
पुष्पितद्रुमसंछिन्ने शुभे दक्षिणमारुते ।। २४ ।।
उर्वश्यथ वरारोहा कुर्वती कुसुमोच्चयम् ।।
ससूक्ष्मरक्तवसना तयोर्दृष्टिपथं गता ।। २५ ।।
तां दृष्ट्वा सुमुखीं सुभ्रूं नीलनीरजलोचनाम् ।।
उभौ चुक्षुभतुर्वीर्यात्तद्रूपपरिमोहितौ ।। २५ ।।
स्कन्नं रेतस्तयोर्दृष्ट्वा शापभीता वराप्सराः ।।
चकार कलशे सुभ्रूस्तोयपूर्णे मनोरमे ।। २७ ।।
तस्मादृषिवरौ जातौ तेजसाप्रतिमो भुवि ।।
वशिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोः सुतौ ।। २८ ।।
 वशिष्ठस्तूपयेमेथ भगिनीं नारदस्य तु ।।
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत् ।। २९ ।।
शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे ।।
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत ।। 1.117.३० ।।
प्रकाशो जनितो येन लोके भारतचन्द्रमाः ।।
पराशरस्य तस्य त्वं शृणु वंशमनुत्तमम् ।। ३१ ।।
कार्द्रमयो वाहयानो जैमयो मैमतायनः ।।
गोपालिः पञ्चमश्चैषां ज्ञेया कृष्णपराशराः ।। ३२ ।।
प्रारोहयो बाह्यतपाः पार्षयः कौतुजातयः ।।
हार्यश्विः पञ्चमश्चैषां ज्ञेया नीलपराशराः ।। ३३ ।।
कार्ष्णायणाः कापिसौधाः कोकेयस्या तयास्तपाः ।।
पुष्करः पञ्चमश्चैषां ज्ञेया रक्तपराशराः ।। ३४ ।।
श्रविष्ठायना वार्ष्णेया दासेयाः श्लोकजाश्च ये ।।
इषीकहस्तः पञ्चमश्च एते श्वेता पराशराः ।। ३५।।
वटिका बादराश्चैव स्कम्भन्याः क्रोशकातयः ।।
क्षामिरेषां पञ्चमश्च एते गौरपराशराः ।।३५ ।।
खल्वायणी वार्ष्पयणी तिल्वणो बैल्वयूथपः ।।
तामिरेषां पञ्चमश्च एते धूम्रपराशराः ।। ३७ ।।
पराशराणां सर्वेषां त्र्यार्षेयः प्रवरो मतः ।।
पराशरश्च शक्तिश्च वशिष्ठश्च महातपाः ।। ३८ ।।
परस्परमवैवाह्याः सर्व एव पराशराः ।। ३९ ।।
उक्तास्तथैते नृप वंशमुख्याः पाराशराः सूर्य समप्रभावाः ।।
येषां तु नाम्ना परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।। 1.117.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पराशरवंशानुकीर्तनं नाम सप्तदशाधिकशततमोऽध्यायः ।। ११७ ।।