विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०९

विकिस्रोतः तः
← अध्यायः १०८ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०९
वेदव्यासः
अध्यायः ११० →

मार्कण्डेय उवाच ।।
आद्यमाजगवं नाम धनुर्गृह्य महायशाः ।।
दृष्ट्वा जातं पृथुं देवाः सर्व एव सवासवाः ।। १ ।।
आजग्मुः पुष्करं तीर्थमभिषेक्तुं तदा पृथुम् ।।
तं चाभिसिषिचुर्देवा रत्नचित्रवरासने ।। २ ।।
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रादित्यौ प्रभाकरौ ।।
दिशश्च विदिशश्चैव लोकपालाः सवासवाः ।। ३ ।।
सर्वे देवगणाश्चैव ऋषयश्च तपोधनाः ।।
स्वं स्वं तोयमुपादाय समुद्राश्च नराधिप ।। ४ ।।
सरांसि सरितः शैलाः सर्वे तीर्थवरास्तथा ।।
सोऽभिषिक्तस्तदा श्रीमान्वेनपुत्रः परन्तप ।। ५ ।।
संवत्सरः कृतस्तस्य वृद्धगर्गो महायशाः ।।
स्थिता शिष्यवरा नित्यं तस्योत्पातनिरीक्षणे ।। ६ ।।
पुरोहितः कृतस्तस्य याज्ञवल्क्यो महायशाः ।।
आथर्वगेन यस्तस्य सर्वान्दोषान्व्यपोहत ।। ७ ।।
उशनाश्च तथा मन्त्री कृतस्तस्य महात्मनः ।।
षाड्गुण्ययोगाद्यस्तस्य सर्वान्दोषान्व्यपोहत ।। ८ ।।
कमलाभरणो नाम सुप्रतीकसुतस्तदा ।।
राजहस्ती कृतस्तस्य स्वयं गर्गेण धीमता ।। ९ ।।
श्रीसुतस्तुरगः श्रेष्ठः शशाङ्कसदृशच्छविः ।।
मङ्गलाश्वः कृतस्तस्य वृद्धगर्गेण पार्थिव ।। 1.109.१ ० ।।
स्वयं देववरैस्तस्य दत्तानि मनुजाधिप ।।
छत्रं सवालव्यजनं खड्गं च वसुधाधिप ।। ११ ।।
तस्य लक्षणसंयुक्तं ददुर्देवा नरेश्वर ।।
इत्येवं चाभिषिक्तस्तु पृथुर्वैन्यो महायशाः ।। १२ ।।
विधिना शास्त्रदृष्टेन ब्राह्मणैर्मन्त्रपारगैः ।।
तस्य पैतामहे यज्ञे हयमेधे पुरातने ।।१३।।
आप्तुर्यामस्य सुत्येऽह्नि सूतो जातः परन्तप ।।
सामगेष्वथ गायत्सु अध्वरे वैश्वदेविके ।। १४ ।।
मागधश्च समुत्पन्नस्तस्मिन्नेव महाक्रतौ ।।
पृथोस्तवार्थं तौ देवौ चोदितावृषिभिस्तथा ।। १५ ।।
ऊचतुस्तौ तदा देवानृषींश्च प्रणतौ स्थितौ ।।
कर्मभिस्तूयते सर्वः कर्म चास्य न विद्महे ।। १६ ।।
कर्मणश्चात्यविज्ञानात्स्तोष्यावस्तत्कथं पृथुम् ।।
ऋषय ऊचुः।।
अस्मत्प्रभावविज्ञातौ स्तुवतामविचारतः ।।१७।।
मार्कण्डेय उवाच।।
ऋषिभिस्तौ नियुक्तौ तु तुष्टुवाते स्वकर्मभिः।।
भविष्यत्पृथिवीपालं दिव्य ज्ञानौ परन्तप।।१८।।
तयोवैर्न्यस्तु सुप्रीतः पृथुः प्रादात्प्रजेश्वरः।।
अनूपदेशं सूताय मगधं मागधाय च।।१९।।
ततो वैन्यं महाभागं प्रजास्ताः संप्रदुद्रुवुः।।
त्वन्नो वृत्तं ददस्वेति महर्षिवचनात्तदा ।। 1.109.२० ।।
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।।
धनुरादाय बाणांश्च वसुधां मर्दयन्बली ।। २१ ।।
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।।
ब्रह्मलोकादिकाँल्लोकान्न च त्राणमविन्दत ।। २२ ।।
सर्वत्रैव पृथुं वैन्यमात्तकार्मुकमच्युतम् ।।
ददर्श सुमहाभागं तेजसा भास्करप्रभम् ।। २३ ।।
अलभन्ती तु सा त्राणं वेन्यमेवान्वपद्यत ।।
कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिस्तदा ।। २४ ।।
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि ।।
कथं धारयिता चासि मया हीनास्त्विमाः प्रजाः ।। २५ ।।
पृथुरुवाच ।।
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।।
एकं जीवं बहुत्वेऽपि कामं नैवास्ति पातकम् ।।२६ ।।
यस्मिंस्तु निहते भद्र एधन्ते बहवः सुखम् ।।
तस्मिन्हते नास्ति परं पातकं नोपपातकम् ।। २७ ।।
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धराम् ।।
आत्मानं प्रथयित्वा तु धारयिष्ये प्रजास्त्विमाः ।। २८ ।।
वृत्युपायं न चेदासां प्रजानां त्वं विधास्यसि ।।
विधास्यसि यदा भद्रे तदा त्वं सुखमाप्स्यसि ।। २९ ।।
पृथिव्युवाच ।।
प्रजानां जीवनोपायं विधास्यामि नरेश्वर ।।
विधत्स्व वत्सं धर्मज्ञ क्षरेयं येन वत्सला ।। 1.109.३० ।।
समां च कुरु सर्वत्र मम धर्मभृतां वर ।।
यथा निष्यन्दमानं वै क्षीरं सर्वत्र भावयेत् ।। ३१ ।।
मार्कण्डेय उवाच ।।
तत उत्सारयामास शिलाजालानि सर्वतः ।।
पुथुर्वैन्यो महातेजास्तेन शैला विवर्द्धिताः ।। ३२ ।।
ततः प्रभृति राजेन्द्र ग्रामाश्च नगराणि च ।।
कृष्यादिकं च सकलं भुवि कर्म प्रवर्तितम् ।। ३३ ।।
तस्याः सस्यानि सा दुग्धा पृथुना पृथिवी क्षिता ।।
वत्सं स्वायंभुवं कृत्वा मनुं वै दक्षिणे करे ।। ३४ ।।
ततस्तु ऋषिभिर्दुग्धा च्छन्दःपात्रे वसुन्धरा ।।
वत्सः सोमोभवत्तेषां दोग्धा चैव बृहस्पतिः ।। ३५ ।।
ऊर्जं देवगणैर्दुग्धा रुक्मपात्रे वसुन्धरा ।।
वत्सस्तु मघवानासीद्दोग्धा च सविता तथा ।। ३६ ।।
सुधां च पितृभिर्दुग्धा रौप्यपात्रे वसुन्धरा।।
अन्तकश्चाभवद्दोग्धा वत्सो वैवस्वतो यमः ।।३७।।
पयश्चैवायसे पात्रे दुग्धा दैत्यैर्वसुन्धरा ।।
दोग्धा गगनमूर्धा सा वत्सं कृत्वा विरोचनम् ।।३८।।
अलाबुपात्रे सर्पैश्च विषं दुग्धा धरा तथा ।।
तेषां च वासुकिर्दोग्धा वत्सश्चासीच्च तक्षकः ।। ३९ ।।
अन्तर्धानं यदा यक्षे रामपात्रे वसुन्धरा ।।
दुग्धा रजतनाभेन वत्सं कृत्वा धनेश्वरम्।।1.109.४०।।
कपाले रुधिरं दुग्धा राक्षसैर्भीमविक्रमैः ।।
हेतिः प्रहेतिश्च तथा दोग्धा वत्सस्तथाऽभवत्।। ।।४१।।
दुग्धा गन्धान्पद्मपात्रे गन्धर्वाप्सरसां गणैः ।।
वत्सश्चित्ररथस्तेषां दोग्धा वसुरुचिस्तथा।।४२।।
ओषध्यश्च तथा शैलैर्दुग्धा पात्रे शिलामये।।
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ।। ४३ ।।
पलाशपात्रे वृक्षैस्तु दुग्धा पुष्पफलं शुभम् ।।
कामधुक्च ततः सालं प्लक्षो वत्सस्तु वै स्मृतः ।। ।।४४।।
सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ।।
सैषा धात्री विधात्री च जननी भावनी तथा ।।४५।।
चराचरस्य लोकस्य प्रतिष्ठोत्पत्तिरेव च ।।
सर्वभूतहिरण्या च सर्वभूतहितैषिणी ।। ४६ ।।
वर्गदा मेदिनी भूमिः क्षमा क्षोणी वसुन्धरा ।।
सर्वभूतशरीरस्था सर्वानुग्रहकारिणी ।। ४७ ।।
मन्वन्तरेऽस्मिन्संप्राप्ते वैन्येन पृथिवीक्षिता ।।
प्रथमं वसुधा दुग्धा ततो दुग्धा यथोदितैः ।। ४८ ।।
दुहितृत्वं गता तस्य पृथिवी तेन चोच्यते ।।
एवंप्रभावः स पुरा पृथुरासीन्महीपतिः ।। ४९ ।।
पित्राऽपरञ्जितास्तस्य प्रजास्सेनानुराञ्जनाः ।।
प्रजानां रञ्जनात्तस्य नाम राजेति कीर्तितम् ।। 1.109.५० ।।
राजा भोजो विराट् सम्राट् गोपतिः पार्थिवस्तथा ।।
स एवोक्तो महीनाथ शब्दैः पर्यायवाचकैः ।। ५१ ।।
नमस्कारस्तु कर्तव्यस्तस्य नित्यं द्विजोत्तमैः ।।
वेदकामैर्वेदविद्भिः प्रार्थयद्भिर्महद्यशः ।। ५२ ।।
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ।।
वृत्तिदाता तथा वैश्यैर्नमस्कार्यस्तथा पृथुः ।। ५३ ।।
शूद्रैरपि नमस्कार्यो धर्मकामैर्महीपतिः ।।
क्षेमेप्सुभिस्तथा ध्याने नमस्कार्यः पृथुर्नृपः ।। ५४ ।।
यो हि योधो रणे याति कीर्तयित्वा पृथुं नृपम् ।।
स घोररूपात्संग्रामात्क्षेमी भवति पार्थिव ।। ५५ ।।
पृथोः कृत्वा नमस्कारं सर्वत्र विजयी भवेत् ।।
तस्मात्तस्य नमस्कारः सदा कार्यो जयेप्सुना ।। ५६ ।।
वैन्यस्य भूपालवरस्य राजञ्छ्रुत्वाभिषेकं प्रयतो मनुष्यः ।।
पापं समग्रं विजहाति शीघ्रं जयं तथाप्नोति यशश्च लोके ।। ५७।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वभिषेकादिवर्णनं नाम नवोत्तरशततमोऽध्यायः ।। १०९ ।।