विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०८
← अध्यायः १०७ | विष्णुधर्मोत्तरपुराणम् अध्यायः १०८ वेदव्यासः |
अध्यायः १०९ → |
।। वज्र उवाच ।। ।।
दक्षस्य वंशं सकलं नक्षत्राणां च संभवम् ।।
त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ।। १ ।।
मार्कण्डेय उवाच ।।
औत्तानपादिर्धर्मात्मा ध्रुवः पूर्वं मयोदितः ।।
ध्रुवस्त्वजनयत्सृष्टिं महाबलपगक्रमाम् ।। २ ।।
तस्य प्राचीनगर्भस्तु पुत्रस्तस्याप्युदारधीः ।।
दिवंजयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ।। ३ ।।
रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः ।।
ऊरुस्तस्य सुतः श्रीमानङ्गस्तस्याप्यथात्मजः ।। ४ ।।
अत्रिर्जग्राह तं पुत्रं दत्तकं तु यशस्विने ।।
अङ्गस्य वेनः पुत्रस्तु नास्तिको धर्मवर्जितः ।। ५ ।।
असच्छास्त्ररतो नित्यं लोकायतिकसत्तमः ।।
चकार लोके मर्यादां धर्मबाह्यो नराधिपः ।। ६ ।।
न यष्टव्यं न होतव्यं न देयं धर्मकारणम् ।।
ऋषयस्तं समागम्य कदाचिद्वाक्यमब्रुवन् ।। ७ ।।
ऋषय ऊचुः ।।
पूर्वप्रवृत्तां मर्यादां पूर्वैः पूर्वतरैः कृताम् ।।
लोकायतिकवाक्येन न त्वं हन्तुमिहार्हसि ।। ८ ।।
कर्मणा सुकृतेनेह सुखं जन्तु समश्नुते ।।
दुःखं जन्तुश्च प्राप्नोति दुष्कृतेन च कर्मणा ।। ९ ।।
ये यजन्ते सदा देवान्गुरुशुश्रूषकाश्च ये ।।
विप्रपूजारता ये च तीर्थयात्रारताश्च ये । 1.108.१० ।।
तपस्विनः सत्यरता ये च दाने सदा रताः ।।
समश्नुवन्ति भूपाल परलोके सुखानि ते ।। ११ ।।
स त्वं सुखपरिभ्रष्टान्नृलोकान्गन्तुमर्हसि ।।
वेन उवाच ।।
भवतां किं प्रलापेन वृथैव द्विजपुङ्गवाः ।। १२ ।।
ये मृतास्ते मृताः सर्वे मृतानां सम्भवः कुतः ।।
प्राणस्य वायुभूतस्य निष्क्रान्तस्य शरीरतः ।। १३ ।।
भूयः शरीरग्रहणं युक्त्या नैवोपपद्यते ।।
तपांसि हायनाश्चित्राः संयमो भोगवञ्चना ।। १४ ।।
अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ।।
ग्राम्याणां मूढचित्तानां स्रग्विणां चैव योषिताम् ।। १५ ।।
अन्येषां चैव धनिनां धूर्तेरादि त्सुभिर्धनम् ।।
शास्त्राण्यनेकरूपाणि ग्रथितानि सहस्रशः ।। १६ ।।
देहि नित्यं यजस्वैवं देवास्तेऽनुग्रहीकृताः ।।
धनमाप्स्यसि शत्रूंश्च विजेष्यसि सुखं च ते ।। १७ ।।
मुग्धा एवं प्रतार्यन्ते धूर्तैर्धनजिहीर्षया ।।
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरम् ।। १८ ।।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ।।
नास्ति दत्तं हुतं चेष्टं न देवा ऋषयो न च ।। १९ ।।
मयाप्तं भुवि राज्यं च भोगाश्चान्ये पृथग्विधाः।।
कथं प्राप्तं हि त्यक्ष्यामि भवतां वचनेन वै ।। 1.108.२० ।।
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा वचस्तस्य वेनस्य नृपसत्तम ।।
ऋषयस्तमथोचुस्ते राजानं दुष्टचेतसम् ।। २१।।
ऋषय ऊचुः ।।
नैतदौपयिकं वाक्यं ध्रुववंशोद्भवस्य ते ।।
प्रत्यक्षं कर्मणां लोके फलं पार्थिव दृश्यते ।। २२।।
काङ्क्ष्यमाणाञ्जनान्पश्य भोजनाच्छादनं परम् ।।
सहस्रंभरकानन्यान्पश्य भूपाल मानवान् ।।२३।।
शिबिकाभ्यस्तथैवान्यान्गच्छमानान्यथासुखम् ।।
क्षुधया च परीतांश्च शाकोच्छिष्टभुजस्तथा ।। २४ ।।
काष्ठभारसमाक्रान्तान्परिभूतान्परैस्तथा ।।
जुगुप्सिताँस्तथा दीनान्बहुशल्यान्नराँस्तथा ।। २८ ।।
पङ्गूनन्यान्कुब्जकांश्च कुष्ठज्वरविपीडितान् ।।
रौगैर्बहुभिराक्रान्तान्परिभूतान्परैस्तथा।।२६।।
तार्किकान्कृपणान्दीनान्व्याधिग्रस्तान्सुखच्युतान्।।
इष्टबन्धुवियोगार्तान्पश्य पापेन मानवान् ।।२७।।
आरोग्यरूपसत्त्वौजोधनधान्यसमन्वितान् ।।
धर्मेण च जनान्पश्य बन्धुभृत्यसमन्वितान्।।२८।।
राजमार्गमिमं लोकास्तव कर्मानुवर्तते ।।
मार्कण्डेय उवाच ।।
ततस्तेषां वचः श्रुत्वा ऋषीणामुग्रचेतसाम् ।। २९ ।।
हस्तेन हस्तं संघट्य प्रहसँस्तानुवाच ह ।।
वेन उवाच ।।
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।। 1.108.३० ।।
नाप्नुवन्ति जना विप्राः प्राप्नुवन्ति स्वभावतः ।।
स्वभावश्च विचित्रोऽयं संसारोद्वेजकः सदा ।। ३१ ।।
नात्र पूर्वकृतं कर्म धूर्तवादो यथा द्विजाः ।।
अश्मानः कर्मणा केन सूक्ष्माश्चान्ये महत्तराः ।। ३२ ।।
विन्यस्ताः कर्मणा केन सुरार्चापापभूमिषु ।।
पाषाणार्चादिदत्तेन कथं तुष्यन्ति देवताः ।। ३३ ।।
के देशा न मया दृष्टा नापि पूर्वं पितामहः ।।
नान्यैर्जन्यैस्तथा तांश्च धूर्तवाक्यात्प्रतीमहे ।। ३४ ।।
अन्यभुक्तेन चान्यस्य तृप्तिश्चैव कथं भवेत् ।।
अन्यभुक्तेन चान्यस्य यदि तृप्तिर्भवि ष्यति ।। ३५ ।।
दद्यात्प्रवसिते श्राद्धं न स पथ्यौदनं महत् ।।
मृतस्य पक्षे दग्धस्य भस्मीभूतस्य वा पुनः ।। ३६ ।।
सर्वभावविनष्टस्य किं नु श्राद्धैः प्रयोजनम् ।।
कृपणैर्यज देहीति धनलुब्धैः प्रकीर्तितम् ।। ३७ ।।
धनिनां धननाशाय सततं स्वार्थतत्परैः ।।
धर्मे निविष्टाः पुरुषा दृश्यन्ते दुःखजीविनः ।। ३८ ।।
सुखान्विता हि दृश्यन्ते पापकर्मरतास्तथा ।।
तस्माद्धर्मेण किं कार्यं सुखं जीवेत्तु पण्डितः ।।
पुरुषार्थः परः कामो धनेन च तदाप्यते ।।३९।।
ऋषय ऊचुः ।।
प्रत्यक्षमेव पश्यन्तः पूर्वजन्मनि मानवाः ।।1.108.४०।।
परलोकं न पश्यन्ति पश्य देवेन वञ्चिताः ।।
जातमात्रो यथा जन्तुस्तनं गृह्णाति पार्थिव ।। ४१ ।।
पूर्वजन्मान्तराभ्यासं विना तत्कस्य चेष्टितम् ।।
प्राणेन वायुभूतेन जन्मन्यस्मिन्यथा नरः ।। ४२ ।।
करोति देहग्रहणं जन्मान्तरगतस्तथा ।।
महीविकारमश्मानः कर्मजीवविवर्जितान् ।। ४३ ।।
सूक्ष्मत्वं च महत्त्वं च तेषामीश्वरकारितम् ।।
मन्त्रेण नीयते श्राद्धं परलोकगते जने ।। ४४ ।।
दृष्टः प्रवासिनो नैव तथा मन्त्रस्य पार्थिव ।।
प्राकाम्ययुक्ता देवाश्च युक्ता लघिमना तथा ।। ४५ ।।
ज्ञानयुक्ताश्च गृह्णन्ति सर्वत्र विनिवेदितम् ।।
धर्ममासेवतां नृणां विपत्तिर्या नराधिप ।। ४६ ।।
पूर्वजन्मकृतेनेह सुकृतेन च कर्मणा ।।
सुतप्तेनेह तपसा ब्राह्मणैर्वसुधाधिप ।। ४७ ।।
शापानि दीयमानानि प्रत्यक्षं किन्न पश्यसि ।।
अमोघाशास्तथा विप्राः सुतप्ततपसो नृप ।। ४८ ।।
किन्न पश्यसि लोकेऽस्मिन्प्रत्यक्षं धर्मदर्शनम् ।।
बीजानि बीजकालेषु यैरेवाप्तानि पार्थिव ।। ४९ ।।
त एव लोके दृश्यन्ते प्रत्यक्षफलभागिनः ।।
दृष्ट्वा मन्त्रप्रभावेण विप्रकर्षणतत्परान् ।। 1.108.५०
विषापहारं कुर्वाणान्धर्मोऽप्यस्तीति चिन्तय ।।
येषामपि वचः क्षुद्रं परलोकं न विद्यते ।। ५१ ।।
तेऽप्युद्विजन्ते पापानां तस्मात्पापं विवर्जय ।।
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा तु वचनमृषीणां भावितात्मनाम् ।। ५२ ।।
हृतोत्तरस्तदा दीनो नोत्तरं प्रत्यभाषत ।।
चिन्तयामास मनसा ब्राह्मणैर्धर्मतत्परैः ।। ५३ ।।
यदेतदुक्तं वचनं मिथ्यैतन्नात्र संशयः ।।
अभिप्रायं नरेन्द्रस्य ज्ञात्वा ब्राह्मणपुङ्गवाः ।। ।।५४।।
विनष्टं मेनिरे सर्वं त्रैलोक्यं सचराचरम् ।।
एतस्मिन्नन्तरे देवैर्ब्राह्मणानां महात्मनाम् ।। ५५ ।।
बुद्धिर्निवेशिता तस्य विनाशाय दुरात्मनः ।।
सर्वेश्वरः सर्वशक्तिः सर्वदृक्सर्वसाधनः ।। ५६ ।।
प्रार्थितश्च तदा विष्णुः पृथिवीराज्यकारणात् ।।
देवा ऊचुः ।।
ध्रुववंशोद्भवं देव वेनं भूपालकिल्बिषम् ।। ५७ ।।
ब्राह्मणा घातयिष्यन्ति मन्त्रपूतैः कुशोदकैः ।।
ऊरू चास्य ततः क्षिप्रं मथिष्यन्ति समाहिताः ।। ५८ ।।
कुरुष्व संभवं तत्र लोकानां हितकाम्यया ।।
कृत्वा तु संभवं तत्र पालयस्व जगत्त्रयम् ।। ५९ ।।
आस्थाय मानुषं रूपं त्वं हि पालय तापतः ।।
एवं करिष्य इत्युक्तं देवदेवेन दक्षिण! ।। 1.108.६० ।।
देवक्रोधेन संकुद्धा निजघ्नुर्ब्राह्मणा नृपम् ।।
मन्त्रपूतैः कुशैः सर्वैस्ततस्तस्य दुरात्मनः ।। ६१ ।।
ऊरू ममन्थुः सहसा ततोऽस्य तनयोऽभवत् ।।
ह्रस्वोऽतिमात्रं कृष्णांगो दारुणो दारुणाकृतिः ।। ६२ ।।
निषीदेति तमूचुस्ते ब्राह्मणा वेदपारगाः ।।
सर्वभूतनिषादानामृषिवाक्येन पार्थिव ।। ६३ ।।
निषादवंशकर्तारं वेनकल्मषसम्भवम् ।।
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ।।६४ ।।
तस्मादस्य सुतो जातो विष्णुर्मानुषरूपधृक् ।।
पृथुरित्येव नामान्य चक्रुस्ते द्विजपुङ्गवाः ।।
तेन जातेन पुत्रेण वेनः पापादमुच्यत ।।।६५ ।।
सत्पुत्रलाभात्त्रिदिवं जगाम वेनो दुरात्मा कृतसर्वपापः ।।
दृष्ट्वापि जातमृषयः कुमारं संमेनिरे लोकमिदं कृतार्थम् ।। ६६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथूद्भवो नामाष्टोत्तरशततमोध्यायः ।। १०८ ।।