विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०७
वेदव्यासः
अध्यायः १०८ →

मार्कण्डेय उवाच ।।
पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः ।।
अभ्ययुङ्क्त तदात्मानं तस्य युक्तस्य पार्थिव ।। १ ।।
ततोऽस्य जघनात्पूर्वमसुराञ्जज्ञिरे सुतान् ।।
असुः प्राणः स्मृतो विप्रैस्तजन्मानस्ततोऽसुराः ।।२।।
यथा सृष्टाः सुरास्तन्वा तां तनुं सोव्यपोहत ।।
अव्यक्तं तत्त्वबहुलं ततस्तान्सोभ्ययुञ्जत ।।३।।
ततस्तान्युञ्जमानस्य प्रियमासीत्प्रभोः किल ।।
ततो मुखात्समुत्पन्ना दिव्यतस्तस्य देवताः ।। ४ ।।
उत्पन्ना दिव्यतस्तस्माद्देवास्तेन ततः स्मृताः ।।
धातुर्देवीति यत्प्रोक्तं क्रीडार्थं संविभाव्यते ।।५।।
तस्माद्देव्यान्तु तन्वायां जज्ञिरे तस्य देवताः ।।
देवान्दृष्ट्वा ततः सो वै तनुमन्यां प्रपद्यत ।।६ ।।
सत्त्वमात्रात्मिकामेव तनुं तां सोऽभ्ययुञ्जत ।।
पितेव मन्यमानस्तान्सुतान्प्रव्याध स प्रभुः ।। ७ ।।
पितरो ह्युपपक्षाभ्यां मध्ये रात्र्यह्नयोः पुरा ।।
तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम् ।। ८ ।।
यया सृष्टास्तु पितरस्तनुं तां स व्यपोहत ।।
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत।।।।
तस्मादहर्देवतानां रात्रिः स्यादासुरी मता ।।
तयोर्मध्ये तु पितरः सा तनुस्तु गरीयसी ।। 1.107.१० ।।
तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा ।।
युक्तास्ते तामुपासन्ते तथा विष्णोर्यदन्तरम् ।। ११ ।।
तस्माद्रात्र्यह्नयोः सन्धावुपासन्ते द्विजास्तु ताम् ।।
ततोऽन्यस्यां पुनर्ब्रह्मा स तन्वामुपपद्यत ।। १२ ।।
राजसत्त्वात्मिकायां तु मनसा सोऽसृजत्प्रभुः ।।
मनसा तु ततस्तस्य प्रजानाञ्जज्ञिरे प्रजाः ।। १३ ।।
मनसा च मनुष्यास्ते जननात्प्रथिताः प्रजाः ।।
सृष्ट्वा पुनः प्रजाः सौम्यस्यां तनुं सोऽव्यपोहत ।। १४ ।।
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यः प्रजायत ।।
तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः ।। १५ ।।
तामुत्सृज्य ततो ज्योत्स्नां ततोऽन्या प्राविशत्पुनः ।।
मूर्तिं रजस्तमासक्तां ततस्तां सोभ्ययुञ्जत ।। १६ ।।
ततोऽन्यास्सान्धकारे तु क्षुधाविष्टाः प्रजाः सृजन् ।।
ताः सृष्ट्वा तु क्षुधाविष्टा अंगुल्या दातुमुद्यताः ।। १७ ।।
अंभांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ।।
राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः ।। १८ ।।
ध्रुवं क्षणोमि येम्भांसि तेषु दृष्ट्वा परस्परम् ।।
तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ।। १९ ।।
रक्षणे पालने चापि धातुरेव विभाव्यते ।।
यक्ष इत्येष धातुर्वै क्षेपणे सन्निरुध्यते ।। 1.107.२० ।।
रक्षणाद्रक्ष इत्युक्ताः क्षपणाद्यक्ष उच्यते ।।
तान्दृष्ट्वा तत्क्षणेनास्य केशाः शीर्यन्त धीमतः ।। २१ ।।
ते शीर्णा व्युत्थिता ह्यूर्ध्वमारोहन्त ततः पुनः ।।
सर्पणात्तु स्मृताः सर्पाः पन्नत्वात्पन्नगाः स्मृताः ।। २२ ।।
बालात्मानः स्मृता व्याला हीनत्वाच्चाहयः स्मृताः ।।
पन्नत्वात्पन्नगाश्चापि सर्पास्तेऽपायसर्पणात् ।। २३ ।।
तेषां लयाः पृथिव्यापः सूर्याचन्द्रमसौ घनाः ।।
तस्य क्रोधोऽभवद्धूममग्निगर्भः सुदारुणः ।। २४ ।।
स तान्सर्पान्समुत्पन्नानाविवेश विषात्मकान् ।।
सर्पान्दृष्ट्वा ततः क्रोधत्क्रोधात्मानो विनिर्ममे ।। २५ ।।
गां धयन्तस्ततो दृष्ट्वा गन्धर्वा अग्निरेतसः ।।
धय इत्येष धातुर्वै पाने ह्येष निरुध्यते ।। २६ ।।
पिबन्तो जज्ञिरे वाचा गन्धर्वास्तेन ते स्मृताः ।।
कर्णेन कपिला भूत्वा पिशाचाः कपिशा ह्यलम् ।। २७ ।।
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशिनः ।।
अष्टासु तासु सृष्टासु देवयोनिषु स प्रभुः ।। २८ ।।
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसा सृजन् ।।
पक्षिणः स तु दृष्ट्वा वै ततः पशुगणान्सृजन् ।। २९ ।।
मुखतोऽजाः सृजन्सो वै वक्षसश्चा वयोऽसृजत् ।।
गावश्चैवोदराद्ब्रह्मा पुनरन्याँश्च निर्ममे ।। 1.107.३० ।।
पादतोऽश्वांस्तुरङ्गांश्च रासभान्गवयान्मृगान् ।।
उष्ट्रांश्चैव वराहांश्च श्वानानन्यांश्च जातयः ।। ३१ ।।
ओषध्यः फलमूलिन्यो रोमभिस्तस्य जज्ञिरे ।।
एवंविधौषधीः सृष्ट्वा न्ययुजत्सोऽध्वरेषु ताः ।। ३२ ।।
अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखे पुरा ।।
गौरजः पुरुषोथाविरथाश्वतरगर्दभाः ।। ३३ ।।
एते ग्राम्याः स्मृताः सप्त आरण्याः सप्त चापरे ।।
महिषो गवयोष्ट्रास्तु द्विखुरः शरभो द्विपः ।। ३४ ।।
मर्कटः सप्तमस्तेषामारण्याः पशवस्तु ते ।।
गायत्रीं च ऋचं चैव त्रिवृत्स्तोमं रथन्तरम् ।। ३५ ।।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।।
यज्ञोऽपि त्रैष्टुभं छन्दः स्तोमं पञ्चदशस्तथा ।। ३६ ।।
बृहत्साम तथोक्तं च दक्षिणात्सोऽसृजन्मुखात् ।।
सामानि जगती चैव स्तोमं सप्तदशं तथा ।। ३७ ।।
वैरूप्यमतिरात्रं च पश्चिमात्सोऽसृजन्मुखात् ।।
अथर्वमेकविंशं च त्रिष्टुब्वैराजमेव च ।।
अप्तुर्यामं च यज्ञानां चोत्तरात्सोऽसृजन्मुखात् ।। ३८ ।।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।। ३९ ।।
सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान् ।।
ततोऽसृजत्स भूतानि स्थावराणि चराणि च ।। 1.107.४० ।।
सृष्ट्वा यक्षपिशाचांश्च गन्धर्वाप्सरसस्तथा ।।
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।। ४१ ।।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ।।
जरायुजं चाण्डजं च सस्वेदजमथोद्भिजम् ।। ४२ ।।
भूतग्रामं संकृतवान्देवदेवश्चतुर्विधम् ।।
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।। ४३ ।।
रक्षांसि च पिशाचांश्च मनुष्यांश्च जरायुजाः ।।
अण्डजाः पक्षिणः सर्पानक्रान्मत्स्यांश्च कच्छपान् ।। ४२ ।।
यानि चैवं प्रकाराणि स्थावराणि चराणि च ।।
स्वेदजं दंशमशकयूकामक्षिकमत्कुणम्।। ४५ ।।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ।।
उद्भिजास्तरवः सर्वे बीजकाण्डप्ररोहिणः ।। ४६ ।।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ।।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृता ।।४७।।
पुष्पिणः फलिनश्चैव वृक्षाश्चोभयतः शुभाः ।।
प्रतानाश्चैव वल्ल्यश्च वीरुधः परिकीर्तिताः।।४८।।
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ।। ४९ ।।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।।
अनुसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।। 1.107.५० ।।
एकदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।।
घोरेऽस्मिन्भूतसंसारे नित्ये सततयायिनि ।। ५१ ।।
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः ।।
तत्तदेव स्वयं तेजो युज्यमानः पुनःपुनः ।। ५२ ।।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते ।।
तद्भाविता प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।। ५३ ।।
यद्यस्य सोददात्सर्गे स तत्तत्स्वयमाविशत् ।।
यथर्तुलिङ्गान्यृतवः स्वयमेव तु पर्यये ।। ५४ ।।
स्वानिस्वान्यभिपद्यन्ते तथा कर्माणि देहिनाम् ।।
लोकानां तु विशुद्ध्यर्थं मुखबाहूरुपादतः ।। ५५।।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्।।
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्रियाः शुभाः ।। ५६ ।।
ऊरुभ्यां च विशः सृष्टाः शूद्रः पद्भ्यामजायत ।।
वर्णानामाश्रमाणां च धर्मं चक्रे पृथक्पृथक्।।५७।।
स्वधर्मे च निविष्टानां स्थानानि व्यदधात्प्रभुः ।।
ब्रह्मलोकं ब्राह्मणानां शाक्रं क्षत्त्रियजन्मनाम् ।।५८।।
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ।।
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकं प्रजापतिः ।। ५९।।
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ।।
स्थानं सप्त ऋषीणां च तथैव वनवासिनाम् ।। 1.107.६० ।।
यतीनामकृतं स्थानं यत्रेच्छागामिनां सदा ।।
कृत्वा स सूत्रसंस्थानं प्रजागर्भं तु मानसम् ।। ६१ ।।
अथासृजत्प्रजाकर्तॄन्मानसाँस्तनयान्प्रभुः ।।
धर्मं रुद्रं मनुं चैव सनकं च सनन्दनम् ।। ६२ ।।
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ।।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।। ६३ ।।
वसिष्ठं च महाभागं नारदं च महामुनिम् ।।
स्वभास्करान्बर्हिषदः अग्निष्वात्तांस्तथैव च ।। ६४ ।।
 क्रव्यादांश्चोपहूतांश्च आज्यपांश्च सुकालिनः ।।
आद्या मूर्तिविहीनाश्च त्रयस्तेषां गणाः स्मृताः ।। ६५ ।।
चरमास्ते गणास्तेषां कथितास्तु समूर्तयः ।।
महाभूतशरीराणि सृष्टवान्स तथैव च ।। ६६ ।।
एवं कृत्वा प्रजासर्गं चांगुष्ठाद्दक्षिणात्ततः ।।
ससर्ज दक्षं भगवान्वामांगुष्ठात्तथैव च ।। ६७ ।।
ससर्ज भार्यां तस्यैव देवदेवः पितामहः ।।
तस्यां तु जनयामास दक्षो दुहितरः शुभाः ।।६८।।
ददौ ताश्च स धर्मात्मा ब्रह्मपुत्रेभ्य एव च ।।
सतीं ददौ स रुद्राय रुद्रा यस्याः सुताः स्मृताः ।। ६९ ।।
असंख्येया महावीर्या हरतुल्यपराक्रमाः ।।
यैर्व्याप्तं भुवनं सर्वं सूर्यस्येव गभस्तिभिः ।।1.107.७०।।
भृगवे च ददौ ख्यातिं रूपे णाप्रतिमां शुभाम् ।।
भृगुर्धाताविधातारौ जनयामास सायुधौ ।। ७१ ।।
श्रियं च जनयामास खचराँश्च तुरङ्गमान् ।।
भृगुः प्रादाच्छ्रियं देवीं राजन्नारायणस्य च।।७२।।
तस्यां संजनयामास बलोन्मादौ मदोत्कटौ ।।
मेरोः पर्वतराजस्य द्वे कन्ये भुवि विश्रुते।।७३।।
धातुर्विधातुस्ते दत्ते आयतिर्नियतिस्तथा।।
आयतिर्जनयामास प्राणं यदुकुलोद्वह।।७४।।
नियतिर्जनयामास मृकण्डुं तपसां निधिम्।।
व्यतीते सप्तमे कल्पे मृकण्डोः सुमहात्मनः।।। ।।७५।।
अहं पुत्रः समुत्पन्नो मनस्विन्यां नराधिप ।।
पत्नी मरीचेस्संभूतिर्दक्षस्य तनया शुभा ।।७६।।
प्रजापतिं पूर्णमासं जनयामास भामिनी ।।
पूर्णमासस्य विरजाः सुदामा तु तदात्मजः ।। ७७ ।।
लोकालोकनिविष्टस्तु लोकपालो मयेरितः ।।
पुत्रश्च पौर्णमासस्य सर्वेशो नाम चापरः ।। ७८ ।।
जनयामास पुत्रौ द्वौ स्तम्बः कश्यप एव च ।।
तयोर्गोत्रकरौ पुत्रौ ज्ञेयौ संन्यासनिश्चयौ ।। ७९ ।।
स्मृतिमङ्गिरसं प्रादाद्दक्षः पूर्वं प्रजापतिः ।।
सिनीवाली कुहू राका तथैवानुमतिः शुभा ।। 1.107.८० ।।
तस्यां संजनयामास अग्निं च भरतं तथा ।।
भरतस्य तथा पुत्रः पर्जन्य इति विश्रुतः ।। ८१ ।।
हिरण्यरोमा पर्जन्य उदीचीं दिशमाश्रितः ।।
लोकालोकेऽवतिष्ठँस्ते लोकपालो मयेरितः ।। ८२ ।।
अनुसूयां ददौ दक्षः तथात्रेः सुमहात्मनः ।।
तस्यां स जनयामास तपोराशिकरं परम् ।। ८३ ।।
प्रीतिं दक्षः पुलस्त्याय दत्तोर्णां जननीं ददौ ।।
पुलस्त्या क्षमांम् प्रादात्कर्दमस्य तु मातरम् ।। ८४ ।।
कार्दमिः शङ्खपादश्च दक्षिणामाश्रितो दिशम् ।।
लोकालोकनिविष्टस्ते लोकपालो मयेरितः ।। ८५ ।।
दक्षश्च सन्नतिं प्रादात्क्रतवे भूरितेजसे ।।
षष्टिः पुत्रसहस्राणि वालखिल्या इति स्मृताः ।। ८६ ।।
जनयामास धर्मज्ञान्सर्वां स्तानूर्ध्वरेतसः ।।
दक्षः प्रादादर्थेवोर्णां वसिष्ठाय महात्मने ।। ८७ ।।
तस्यामस्य सुता जाताः सप्त सप्ताश्ववर्चसः ।।
रजोबाहुरूर्ध्वबाहुः पवनश्चानघश्च यः ।। ८८ ।।
सुतपाः शक्तिरित्येते वासिष्ठाः सप्त कीर्तिताः ।।
केतुमान्सुमहातेजा राजसश्च तथा सुतः ।। ८९ ।।
लोकालोकनिवासी ते प्रतीच्यां स मयेरितः ।।
स्वाहां प्रादात्स दक्षोऽपि सशरीराय वह्नये ।। ९० ।।
दिव्यान्तरिक्षभौमानामग्नीनां जननीं प्रभुः ।।
स्वधां प्रादात्पितृभ्यस्तु मेनाया जननीं शुभाम् ।। ९१ ।।
हिमाचलाय मेनापि पितृभिः प्रतिपादिता ।।
चतुर्दशेमाः कन्याश्च दक्षो धर्माय वै ददौ ।। 1.107.९० ।।
कीतिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।।
बुद्धिर्लज्जा वपुः शान्तिः तुष्टिः सिद्धिश्चतुर्दश ।। ९३ ।।
कीर्तिपुत्रो यशोदेवो दर्पो लक्ष्मीसुतः स्मृतः ।।
निश्चयश्च धृतेः पुत्रो मेधापुत्रस्तथा श्रुतः ।। ९४ ।।
पुष्टिर्लाभः सुतश्चैव कामः श्रद्धासुतः स्मृतः ।।
क्रियायास्तनयो देवो मतिपुत्रस्तथा दमः ।। ९५ ।।
बुद्धेर्बोधः सुतः प्रोक्तो लज्जाया विनयः स्मृतः ।।
वपुषो व्यवसायस्तु क्षेमः शान्तिसुतस्तथा ।। ९५ ।।
तुष्टेः पुत्रस्तु सन्तोषः सुखः सिद्धेश्च भास्वरः ।।
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते ।। ९७ ।।
एवं प्रजाविवृद्ध्यर्थं दक्षो दत्त्वाऽथ कन्यकाः ।।
ईजे कदाचिद्यज्ञेन हयमेधेन पार्थिव ।। ९८ ।।
तस्य जामातरः सर्वे गता यज्ञनिमन्त्रिताः ।।
भार्याभिः सहिताः सर्वे रुद्रं देवं सतीं विना ।। ९९ ।।
रुद्रो नतिं न कुरुते भाव्यर्थविनिचोदितः ।।
कदाचिदपि दक्षश्च तेनासौ न निमन्त्रितः ।। 1.107.१०० ।।
अनाहूतापि च गता पश्चात्तत्र सती शुभा ।।
दक्षान्न लेभे पूजां सा ततः क्रुद्धा शुभानना ।। १०१ ।।
तत्याज दक्षसम्भूतां तां तनुं हिमकन्दरे ।।
विनष्टां तु सतीं श्रुत्वा देवदेवः पिनाकधृक् ।। १०२ ।।
शशाप दक्षं धर्मज्ञं मनुष्यस्त्वं भविष्यसि ।।
ध्रुवस्यान्वयसंभूतो राजा त्रैलोक्यविश्रुतः ।। १०३ ।।
तत्रापि विघ्नं कर्तास्मि यज्ञकर्मण्युपस्थिते ।।
भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।। १०४ ।।
शशाप चैवाङ्गिरसं वसिष्ठं च महामुनिम् ।।
सतीमनुप्रवृत्तस्य दक्षस्यास्य प्रजापतेः ।। १०५ ।।
अनुवृत्तिः कृता यस्माद्भवद्भिर्धर्मकोविदैः।।
तस्माद्वैवस्वते प्राप्ते शुभे मन्वन्तरे द्विजाः ।। १०६ ।।
ब्रह्मणो यजमानस्य जन्म क्रूरमवाप्स्यथ ।।
देहत्यागे कृते राजन्सती देवी महाबला ।। १०७ ।।
उमेति विश्रुता लोके मेनायाः समपद्यत ।।
हिमाचलोऽपि तां देवीं ददौ शर्वाय पार्थिव ।। ।। १०८ ।।
तया वियुज्यते नासौ कदाचिदपि विश्रुता ।।
तस्यां तु जनयामास देवदेवोऽपि शङ्करः ।। १०९ ।।
विनायकं कुमारं च भृङ्गेशं सुमहाबलम् ।।
विघ्नानां च गणानां च पुत्रं राज्येऽभ्यषेचयत् ।। 1.107.११० ।।
विनायकं महादेवो गजवक्त्रं मनस्विनम् ।।
देवसेनापतिं शक्रः कुमारं कृतवाँस्तदा ।। १११ ।।
न तत्याज समीपाच्च भृंगेशं शङ्करस्तदा ।।
वैवस्वतेन्तरे प्राप्ते राजा दक्षो व्यजायत ।। ११२ ।।
ध्रुवस्यान्वयसम्भूतो महाबलपराक्रमः ।।
तत्राश्वमेधे वितते अनाहूतेन शूलिना ।। ११३ ।।
यज्ञो विध्वंसितस्तस्य वीरभद्रेण पार्थिव ।।
स दक्षो जनयामास कन्याः पार्थिवसत्तम ।। ११४ ।।
तासां च मध्यात्प्रददावष्टाविंशतिमिन्दवे ।।
देवतास्त्वभिमानिन्यो नक्षत्राणां पृथक्पृथक् ।। ११५ ।।
उक्तं हि ते ऋक्ष गणस्य जन्म शुभावहं पापभयापहं च ।।
अतः परं किं कथयामि तुभ्यं तत्त्वं वदस्वायतलोहिताक्ष ।।११६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहर्क्षादिसंभवाध्यायो नाम सप्तोत्तरशततमोऽध्यायः ।।१०७ ।। ।।