विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०६
← अध्यायः १०५ | विष्णुधर्मोत्तरपुराणम् अध्यायः १०६ वेदव्यासः |
अध्यायः १०७ → |
।। वज्र उवाच ।।
ध्रुवस्याहं द्विजश्रेष्ठ ब्राह्मणानां पृथक्पृथक् ।।
सम्भवं श्रोतुमिच्छामि नक्षत्राणां च मानद।। १ ।।
।। मार्कण्डेय उवाच ।।
ब्रह्मणा सृष्टिकामेन पूर्वमेव नराधिप ।।
आदित्यस्तमसां हन्ता तेजसां गोलकः कृतः ।।२।।
तमोमयो गोलकश्च राहुस्तेन तथा कृतः ।।
अम्मयानि तथान्यानि गोलकानि नराधिप।।।
कृतानि तेन धर्म्मज्ञ ग्रहर्क्षाणां पृथक्पृथक् ।।
ध्रुवस्थाननिविष्टाश्च तारकाश्च चतुर्दश ।। ४ ।।
तेषां नामविभागं मे गदतः शृणु पार्थिव ।।
उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः ।। ५ ।।
यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः ।।
हृदि नारायणः साध्यावश्विनौ पूर्वपादयोः ।। ६ ।।
वरुणश्चार्यमा तस्य पश्चिमे चैव सक्थिनी ।।
शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ।। ७ ।।
पुच्छेग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः ।।
धुवस्थास्नुर्ग्रहर्क्षाणाम्मेढीभूतः प्रकीर्तितः ।। ८ ।।
ध्रुवेण भ्राम्यते सर्वमायत्तं त्रिदिवे ध्रुवे ।।
ध्रुवो हि भगवान्विष्णुः कालो लोकप्रकालनः ।। ९ ।।
शिशुमारनिबद्धानां तारकाणां पृथक्पृथक् ।।
नामधेयानि विज्ञाय दृष्ट्वा च विमलेऽम्बरे ।। 1.106.१० ।।
आयुरभ्यधिकं जीवेद्वर्षाणि तु चतुर्दश ।।
अहोरात्रकृतात्पापात्तत्क्षणादेव मुच्यते ।। ११ ।।
आम्मयानां ग्रहर्क्षाणां मूर्च्छिताः सूर्यरश्मयः ।।
जनयन्ति प्रकाशत्वं नात्र कार्य्या विचारणा ।। १२ ।।
स्फाटिकानि विमानानि तथा सुकृतिनां नृप ।।
नाके तारकबद्धानि अम्मयानीव यादव ।। १३ ।।
ग्रहर्क्षाणि समस्तानि ध्रुवश्च भगवांस्तथा ।।
कल्पस्थायीनि राजेन्द्र नात्र कार्य्या विचारणा ।। ।। १४ ।।
तेषां तदभिमानिन्यो देवता यदुनन्दन ।।
मन्वन्तरादौ जायन्ते न भवन्ति पुनःपुनः ।। १५ ।।
औत्तानपादिर्धमात्मा ध्रुवस्तेष्वपि यादव ।।
स्वायम्भुवेन्तरे जातस्तिष्ठत्याभूतसंप्लवम् ।। १६ ।।
तस्य ते जन्म वक्ष्यामि सर्वकल्मषनाशनम् ।।
पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः ।। १७ ।।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।।
अर्धेन नारी तस्यासीद्विराजमसृजत्प्रभुः ।। १८ ।।
विराडसृजत्पुरुषं पुरुषो मनुरुच्यते ।।
यस्यैकसप्ततिगुणं मन्वन्तरमिहोच्यते ।। १९ ।।
प्रियव्रतोत्तानपादौ मनोः पुत्रावुभौ स्मृतौ ।।
क्षत्रप्रवर्त्तकौ तौ तु पूर्वे मन्वन्तरे स्मृतौ ।। 1.106.२० ।।
उत्तानपादपुत्रस्तु ध्रुवो विष्णुः प्रकीर्तितः ।।
निबद्धो भ्राम्यते यत्र मरुतां ज्योतिषां गणः ।। २१ ।।
सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।।
मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।
पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।।
वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।।
तस्याधस्ताद्भचक्रञ्च तस्याधस्ताच्छनैश्चरः ।।
तस्याधस्तात्तथा जीवस्तस्याधस्तात्कुजः स्मृतः ।। २४ ।।
तस्याधस्ताद्दिनेशश्च तस्याधस्ताच्च भार्गवः ।।
तस्याधस्ताद्बुधः प्रोक्तस्तस्याधस्ताच्च चन्द्रमाः ।। ।। २५ ।।
प्राग्दक्षिणगतिश्चैव ज्योतिषां चक्रमुच्यते ।।
सर्वे ग्रहाः प्राग्गतयस्तुल्यवेगाः प्रकीर्तिताः ।। २६ ।।
शीघ्रत्वेनोपचर्यन्ते यथा सन्नं महीपते ।।
यथा यथा विशिष्टाश्च तथा मन्दाः प्रकीर्त्तिताः ।। २७ ।।
तेषां ते सम्भवं वक्ष्ये प्राप्ते वैवस्वतेऽन्तरे ।।
तेषां जननसाहस्रैरतीतैः किं प्रयोजनम् ।। २८ ।।
अनादिनिधनः श्रीमान्विष्णुर्नारायणः प्रभुः ।।
स एव देवकार्यार्थं भूत्वा द्वादशधा पुरा ।। २९ ।।
अदितेर्जनयामास ह्यात्मानं कश्यपात्प्रभुः ।।
तेषां तु मध्यात्सविता आदित्यस्य च देवता ।। 1.106.३०।।
प्रोक्तं ते सवितुर्जन्म शृणु चन्द्रमसस्ततः ।।
दशभ्यश्च दिशाभ्यश्च तथात्रेः सुमहात्मनः ।। ३१ ।।
विष्णुरेवाभवद्राजन्पुत्र स मृगलाञ्छनः ।।
दाक्षायणी वसोर्नाम पत्नी धर्मस्य विश्रुता ।। ३२ ।।
जनयामास धर्मज्ञं वसुमध्ये निशाकरम् ।।
श्रीसहायस्तथा जातः सोमश्चामृतमन्थनात् ।। ३३ ।।
प्राकाम्येन शशाङ्कस्य जन्म तेऽभिहितं त्रिधा।।
अतः परं प्रवक्ष्यामि तव भौमस्य सम्भवम् ।। ३४ ।।
आसीद्दैत्यो हिरण्याक्षो महाबलपराक्रमः ।।
स वै कन्यामजनयद्विकेशी नाम नामतः ।। २५ ।।
सा लेभे तस्य केशाँस्तां वै स्थाणुरकामयत् ।।
तस्यां मैथुनसक्तस्य देवेशस्य पिनाकिनः ।। ३६।।
वह्निसम्म्भवभीतेन कृतो विघ्नो ह्यथाग्निना ।।
प्रविष्टं मैथुनागारं वह्निं दृष्टवतस्तदा ।। ३७ ।।
क्रोधायासोद्भवः स्वेदो हरस्य समपद्यत ।।
आननस्वेदजो बिन्दुर्देवस्यामित्रघातिनः ।। ३८ ।।
तस्याः पपात वदने सा पपौ तत्प्रयत्नतः ।।
अन्तर्वत्न्यथ तेनासीन्न शशाक च तेजसा।।३९।।
मोहिता तस्य बालस्य गर्भं धारयितुं तदा।।
उत्ससर्जाथ तं गर्भं दीप्तानलसम द्युतिम् ।। 1.106.४० ।।
तं दधार महीपाल धरा देवीस्वरूपिणी ।।
संस्कारमकरोच्चास्य स्वयमेव च कश्यपः ।। ४१ ।।
अङ्गारनिकटस्थत्वान्नाम्ना चाङ्गारकः कृतः ।।
उक्तं ते जन्म भीमस्य बुधस्यातः परं शृणु ।।४२।।
कश्यपस्य धनुर्नाम पत्नी त्रैलोक्यविश्रुता ।।
जनयामास तनयं रजोनामेति विश्रुतम् ।। ४३ ।।
सोऽकामयत वै कन्यां वरुणस्य महात्मनः ।।
वारुणीमिति विख्यातां त्रैलोक्यस्यैकसुन्दरीम् ।। ४४ ।।
ततस्तपश्च तेजश्च बलं वीर्यं तथैव च ।।
शुल्कार्थं स ददौ तस्यै तानादाय वराङ्गना ।। ४५ ।।
अप्सु लीना तदा जाता पतसोग्रेण दानवः ।।
तामप्सु लीनां विज्ञाय प्रविवेशोदकं तदा ।। ४६ ।।
तस्याः स्पर्शोपलम्भेन द्रवीभूतः स दानवः ।।
द्रवतां समनुप्राप्तां तां विज्ञाय निशाकरः ।। ४७ ।।
ममन्थ सहसा तोयं पुत्रार्थी मनुजेश्वर ।।
मथ्यमाने जले तेन तदा सोमेन पार्थिव ।। ४८ ।।
विवेश तेजसि पयो विष्णुर्देवनमस्कृतः ।।
ततः कुमारस्सञ्जातो बुधस्तु ग्रहबोधनः ।।४९।।
तद्दधार तदा तारा गुरुपत्नी यशस्विनी।।
यदा धारयितुं शक्ता न बालं तेजसान्वितम्।।1.106.५०।।
दाक्षायणी चोत्ससर्ज चन्द्रपत्नी सुतं तदा ।।
एवं जन्म बुधस्योक्तं जीवस्यातः परं शृणु ।।५१।।
सुरूपा नाम दुहिता मारीचेस्तु प्रजापतेः ।।
दत्ता त्वङ्गिरसे सा तु रूपयौवनशालिनी।।५२।।
तस्यां स जनयामास देवाचार्यं बृहस्पतिम् ।।
बृहद्वाचं महाबुद्धिं वेदवेदाङ्गपारगम् ।। ९३ ।।
उक्तं ते जन्म जीवस्य शुक्रस्यातः परं शृणु ।
उषा नाम तथा कन्या हिरण्यकशिपोस्सुता ।। ५४ ।।
भृगुपत्नी विशालाक्षी सर्वलोकैकसुन्दरी ।।
जनयामास धर्मज्ञं ख्यातमौशनसं प्रभुम् ।। ५५ ।।
स जहाराथ योगात्मा धनं वैश्रवणस्य तु ।।
हृते वित्ते तु यक्षेशो जगाम शरणं हरम् ।। ५६ ।।
ततः क्रुद्धो महादेवो भार्गवं हन्तुमुद्यतः ।।
भार्गवोऽपि च योगेन प्रविवेश हरं तदा ।। ५७ ।।
हरोदरस्थस्तुष्टाव देवीं पर्वतनन्दिनीम् ।।
तयोक्तस्तं तु तत्याज तदा शिश्नेन शङ्करः ।। ५८ ।।
शुक्रस्तु नाम चैवास्य तदा चक्रे जगद्गुरुः ।।
धनेशत्वं ददौ चास्य धनेशेन सहानघ ।। ५९ ।।
मैत्र्यं चास्य धनेशेन तथा चक्रे त्रिलोचनः ।।
शनैश्चरस्य वक्ष्यामि जन्मातस्ते नरेश्वर ।। 1.106.६० ।।
ब्रह्मणो मानसः पुत्रस्त्वष्टा नाम प्रजापतिः ।।
संज्ञां तु जनयामास कन्यां त्रैलोक्यसुन्दरीम् ।। ६१ ।।
तां ददौ सवितुः पत्नीं तस्यां सूर्यो महातपाः ।।
जनयामास धर्मज्ञं मनुं वैवस्वतं प्रभुम ।। ६२।।
यमं च यमुनां चैव त्रैलोक्यस्यैकपालिनीम ।।
तेषु ज्ञातेषु पुत्रेषु संज्ञा सा चारुलोचना ।। ६३ ।।
भर्तुस्तेजोऽतिदुर्धर्षमसहन्ती वराङ्गना ।।
सा तु च्छायां समाहूय इदं वचनमब्रवीत् ।। ६४ ।।
मद्रूपेण त्वया भद्रे वस्तव्यमविकारया ।।
पालनीयौ च मे पुत्रौ त्वयेमौ दुहिता च मे ।। ६५ ।।
एवमुक्ता ययौ देवी पितरं वरवर्णिनी ।।
पित्रा निरस्ता भर्तारं गच्छगच्छेति भाषिता ।। ६६ ।।
उत्तरांस्तु कुरून्गत्वा वडवारूपधारिणी ।।
चचार शाद्वलाञ्छुभ्रान्वनेषूपवनेषु च ।। ६७ ।।
छायायां च तथार्कोपि संज्ञेयमिति चिन्तयन् ।।
द्वौ पुत्रौ जनयामास सावर्णं तु शनैश्चरम् ।। ६८ ।।
वज्र उवाच ।।
कथं तामाप्तवान्संज्ञां भूय एव दिवाकरः ।।
एतन्मे संशयं ब्रूहि भृगुवंशविवर्धन ।। ६९ ।।
मार्कण्डेय उवाच ।।
पुत्रयोः सूतपुत्राँस्तु यथा छायानुवर्तते ।।
न तथा वर्तते देवी संज्ञासूतेषु भामिनी ।। 1.106.७० ।।
ततः कदाचित्तां क्रुद्धः संततर्ज तदा यमः ।।
तं शशाप तदा च्छाया पादस्ते पततामयम् ।। ७१ ।।
यमः शशंस तत्सर्वं पितुः परबलार्दनः ।।
श्रुत्वा यमस्य वचनं यमं प्रोवाच भास्करः ।। ७२ ।।
कृमयो मांसमादाय तथा यास्यन्ति भूतलम् ।।
एवं शाम्येच्च शापस्ते त्वं च त्रातो भविष्यसि ।। ७३ ।।।
एतच्छ्रुत्वा पितुर्वाक्यं चकार सुमहत्तपः ।।
आराधयामास तदा देवदेवं जनार्दनम् ।। ७४ ।।
तस्मात्स लेभे धर्मात्मा धर्मराजत्वमञ्जसा ।।
सूर्योऽप्यविन्दँस्तत्त्वेन पुत्रशापस्य कारणम् ।।७५।।
क्रोधाविष्टस्तदा छायां पप्रच्छामित्रघातनः।।
शशंस तस्य सा सर्वं यथावृत्तमनिन्दिता ।।७६।।
श्रुत्वा तु वचनं तस्यास्त्वष्टुर्वेश्मागमद्रविः ।।
न ददर्श च तत्रस्थां तां भार्यां शुभचारिणीम् ।। ७७ ।।
त्वष्ट्रा चाशंसितं तस्य वडवारूपधारिणी।।
असहन्ती तु तेजस्ते कुरूनावसते शुभा ।। ७८ ।।
भ्रमिमावेश्य देवेशं त्वष्टापि जगतां पतिम् ।।
तेजसः शातनं चक्रे देवस्य सवितुस्तदा।।७९ ।।
कीर्णे तेजसि तद्रूपं भृशं कान्ततरं स्थितम् ।।
शीर्णेन तेजसा चक्रं त्वष्टा चक्रे जगद्गुरोः ।। 1.106.८० ।।
सुदर्शनमिति ख्यातं देवस्य हरिमेधसः ।।
कान्तरूपस्तु सविता हयरूपधरस्तदा ।। ८१ ।।
उत्तरांस्तु कुरून्गत्वा वडवारूपधारिणीम् ।।
स्वां ददर्श तदा भार्यां शीतलद्रव्यसंयुताम् ।।८२ ।।
मैथुनार्थी तु तां देवो जगाम त्वरितस्तदा ।।
वेगवन्तं तु सम्प्राप्तं दृष्ट्वा तुरगमुत्तमम् ।। ८३ ।।
व्यचेष्टत च सा देवी परपुंसोपशङ्कया ।।
मुखे च भावयामास तां सूर्यो दीप्तदीधितिः ।। ८४ ।।
तस्या नासापुटौ पूर्णौ तदा शुक्रेण पार्थिव ।।
तथा तस्यास्तदा जातौ नासत्यावश्विनावुभौ ।। ८५ ।।
भूमौ च पतितं यच्च ताभ्यां शुक्रं विमर्दितम् ।।
तस्मात्सोश्वात्समुत्पन्नः कुमारः सूर्यसन्निभः ।। ८६ ।।
ततः स्वरूपमास्थाय देवदेवोऽपि भास्करः ।।
स्वरूपिणीमथादाय संज्ञां तां स्वगृहं ययौ ।। ८७ ।।
नासत्यौ देवभिषजौ कृतवानश्विनावुभौ ।।
ततो विमर्दनाज्जातं पुत्रं दृष्ट्वा दिवाकरः ।।८८।।
रेवन्तेति तदा तस्य नाम चक्रे जगद्गुरुः ।।
तं च पुत्रमुवाचात्थ सूर्यो ग्रहगणेश्वरः ।।८९।।
यस्मात्सोऽश्वात्समुत्पन्नो मत्तस्त्व द्दीप्तदीधितिः ।।
पूजामाप्स्यसि सोऽश्वेभ्यस्तस्मान्नित्यं जगत्प्रियः ।। 1.106.९० ।।
ये च त्वां पूजयिष्यन्ति तेषां वृद्धिर्भविष्यति ।।
शनैश्चरस्य ते जन्म मयोक्तं नृपसत्तम ।। ९१ ।।
अतः परं प्रवक्ष्यामि राहोर्जन्म तथानघ ।।
दाक्षायणी सिंहिकाख्या भार्या वै कश्यपस्य तु ।।९२।।
अकाले वरयामास भर्तारं तपसान्वितम् ।।
भगवन्पुत्रकामाहं तं प्रयच्छ ममानघ।।९३।।
अकालयञ्चासंक्रुद्धस्तां जगाद स कश्यपः ।।
दैत्यदानवसंकाशं पुत्र त्वं जनयिष्यसि।।९४।।
राहुं सा जनयामास वरदानान्महात्मनः।।
अतः परं प्रवक्ष्यामि केतोस्ते जन्म पार्थिव।।९५।।
प्रजानां महतीं वृद्धिं दृष्ट्वा देवः पितामहः ।।
क्षये तासां तदा चक्रे बुद्धिं बुद्धिमतां वरः ।। ९६ ।।
क्षयं चिन्तयतस्तस्य प्रजानां मनुजेश्वर ।।
प्रादुर्भूता ततः कन्या मृत्युर्नामेति विश्रुता ।। ९७ ।।
तां जगाद तदा ब्रह्मा प्रजाः संहर शोभने ।।
सा तथोक्ता तदा तेन रुरोद वरवर्णिनी ।। ९८ ।।
तदाश्रुबिन्दुभिर्जाता व्याधयोऽथ सहस्रशः ।।
दृष्ट्वा व्याधीन्समुत्पन्नान्संहृत्याश्रूणि भामिनी ।। ९९ ।।
सुदुश्चरं तपस्तेपे पुष्करारण्यमाश्रिता ।।
स्थानेषु च तथान्येषु बहून्वर्षगणाञ्छुभा ।। 1.106.१०० ।।
भूयो जगाद तां ब्रह्मा प्रजाः संहर शोभने ।।
मयोक्तं यत्पुरा भद्रे तत्तथा न तदन्यथा ।। १०१ ।।
तपसा ते वरं ग्राह्यं तदाचक्ष्व सुशोभने ।।
नृणां निमित्तं मरणे लोके यास्यति दोषतः ।। १०२ ।।
न कश्चिद्दोषतो मन्ता त्वां कदाचिदपि ध्रुवे ।।
एवमुक्ता तदा तेन ब्रह्मणा सा शुभानना ।१०३।।
दीर्घमुष्णं च निःश्वासं मुमोच वरवर्णिनी।।
कृष्णसर्पसमाकारस्तस्मात्केतुरजायत।१०४।।
शिखिदीप्तशिखो राजन्कालानलसमप्रभः ।।
धूमप्रभस्य तस्याथ केतुरूपस्य पार्थिव ।। १०५ ।।
संज्ञां चकार सर्वात्मा देवदेवः पितामहः ।।
धूमकेतुरयं नाम्ना भविष्यति जगत्त्रये ।। १०६ ।।
दर्शयिष्यति लोकानां तथैव च शुभाशुभम् ।।
दिव्यन्तरिक्षे भुवि चैक एषः सन्दृश्यते धूमकेतुर्महात्मा ।।
संस्थानरूपैस्तु बहुप्रकारैः शुभाशुभं दर्शयन्मानुषाणाम् ।। १०७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहसम्भवोनाम षडुत्तरशततमोऽध्यायः ।। १०६ ।।