विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११०
वेदव्यासः
अध्यायः १११ →

मार्कण्डेय उवाच ।।
अन्तर्धानः पृथोः पुत्रो हविर्धानस्तदात्मजः ।।
प्राचीनबर्हिस्तत्पुत्रः पृथिव्यामेकराड् बभौ ।। १ ।।
उपयेमे समुद्रस्य लवणस्य स वै सुताम्।।
सुवर्णायां तु सामुद्र्यां दश प्राचीनबर्हिषः ।। २ ।।
सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ।।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।। ३ ।।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ।।
समुद्रगेषु दशसु तपस्यत्सु महीरुहाः ।। ४ ।।
अरक्षमाणां गां वव्रुर्बभूवेत्थं प्रजाक्षयः ।।
न शक्यो मारुतो वातुं वृत्तं खमभवद्द्रुमैः ।। ५ ।।
तदुपश्रुत्य राजानः सर्वे युक्ताः प्रचेतसः ।।
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ।। ६ ।।
निर्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् ।।७।।
तानग्निरदहत्क्रुद्ध एवमासीद्रुमक्षयः ।।
द्रुमक्षयमथो दृष्ट्वा किञ्चिद्दग्धेषु शाखिषु ।।
उपगम्याब्रवीदेतान्सोमो राजा प्रचेतसः ।। ८।।।
कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः ।।
कृता मही वृक्षशून्या शाम्येतामग्निमारुतौ ।। ९ ।।
रत्नभूता च कन्येयं वृक्षाणां वरवणिंनी ।।
भविष्यं जानता ह्येषा धृता गर्भेण वै मया ।। 1.110.१० ।।
मारिषा नाम भवतां पत्न्यर्थे प्रददाम्यहम् ।।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।। ११ ।।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम् ।।
मनसा च दधुस्तस्यां गर्भं सर्वे प्रचेतसः ।। १२ ।।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।।
भवशापेन संभूतो भूयो दक्षप्रजापतिः ।। १३ ।।
असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः ।।
नोत्पद्यन्ते च तास्तस्य अपध्याता हरेण तु।। १४ ।।
मैथुनेन ततः सृष्टिं कर्तुमिच्छन्प्रजापतिः ।।
असिक्नीमवहद्भार्यां वीरणस्य प्रजापते. ।। १५ ।।
सुतां सुमहतीं युक्तां तपसा लोकधारिणीम् ।।
तस्य पुत्रसहस्रं तु वीरिण्यां समपद्यत ।। १६ ।।
तांस्तु दृष्ट्वा महातेजा विवर्धयिषवः प्रजाः ।
तानुवाच महातेजा ब्रह्मपुत्रः स नारदः।।१७।।
किं प्रमाणं तु मेदिन्यां स्रष्टव्यस्य तथैव च।।
अज्ञानात्तु कथं सर्गं भवन्तः कर्तुमुद्यताः।।१८।।
महीमानमथान्वेष्टुं गता दक्षसुतास्ततः ।।
लोकालोकस्य परतो गर्भोदस्य तथोपरि ।।१९।।
वायुमण्डलमासाद्य भ्रमणान्नाशमागताः ।।
दक्षोऽपि तेषु नष्टेषु वीरिण्यामेव धर्मवित् ।। 1.110.२० ।।
सहस्रं जनयामास पुत्राणामपरं ततः ।।
विवर्धयिषवस्ते तु शबलाश्वाः पुनः प्रजाः ।। २१ ।।
पूर्वमुक्तं वचस्तद्वै श्रावता नारदेन तु ।।
अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ।।२२।।
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः।।
गतेऽपि हर्यश्वमार्गेण प्रयाताः पृथिवीमिमाम् ।। २३ ।।
तमेव वायुमासाद्य विनष्टाः शाश्वतीस्समाः ।।
तदाप्रभृति वै भ्रान्ता भ्रातुरन्वेषणे रताः ।। २४ ।।
प्रयातो नश्यति विभो तन्नः कार्यं विजानता ।।
अथ तेषु विनष्टेषु दक्षः कोपसमन्वितः ।।२५।।
शशाप नारदं क्रुद्धः तुल्यं जन्म न चाप्स्यसि ।।
देहं त्यक्त्वा सशापेन तेन दक्षस्य नारदः ।। २६ ।।
भूयो मुनिसुतो जातः कश्यपस्य महात्मनः ।।
अश्वमेधं च विततं दक्षस्याद्भुतकर्मणः ।। २७ ।।
विध्वंसयामास हरः पूर्ववैरेण भ्रावितः ।।
दक्षोऽपि शप्तवानुद्रं शप्तास्ते ब्राह्मणोत्तमाः ।।२८ ।।
अद्यप्रभृति यक्ष्यन्ति नत्वा सार्धं दिवौकसैः ।।
जन्मान्तरेऽपि वैराणि विनश्यन्ति न पार्थिव ।। २९ ।।
तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ।।
हर्यश्वेष्वपि नष्टेषु महात्मसु पुरा तदा ।। 1.110.३० ।।
असिक्न्यां जनयामास दक्षो दुहितरस्तदा ।।
षष्टिः कन्या रूपयुक्तास्तपसा महता युताः ।। ३१ ।।
द्वे ददौ बाहुपुत्राय चतस्रोऽरिष्टनेमिने ।।
द्वे प्रादात्स कृशाश्वाय दश धर्माय चाप्यथ ।। ३२ ।।
चतुर्दश कश्यपाय चाष्टाविंशतिमिन्दवे ।।
प्रददौ बाहुपुत्राय सुप्रभां भामिनीं तदा ।। ३३ ।।
मनोरमां भानुमतीं विशालां बाहुदामथ ।।
दक्षः प्रादान्महाभागश्चतस्रोऽरिष्टनेमिने।।३४।।
स कृशाश्वाय च प्रादात्सुप्रभां च तथा जयाम् ।।
अरुन्धतीं वसुं जामिं लम्बां भानुमिरावतीम् ।।३५।।
संकल्पां च मुहूर्तां च साध्यां विश्वां तथैव च ।।
ददौ स दश धर्माय महात्मा लोकविश्रुतः।।३६।।
अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ।।
कद्रूः क्रोधा इरा प्राधा विनता सुरभिः खगा ।। ३७ ।।
चतुर्द्दशैताः प्रददौ कश्यपाय प्रजापतिः ।।
नामभिः पूर्व विख्याताः कृत्तिकाद्यास्तथैव च ।। ३८ ।।
ददौ नक्षत्रयोगिन्य अष्टाविंशतिमिन्दवे ।।
देवतास्त्वभिमानिन्यो नक्षत्राणां महीपते ।। ३९ ।।
एतावदुक्तं तव दक्षवंशमृक्षोद्भवं चाप्यथ भूमिपाल ।।
अतः परं किं कथयामि तुभ्यं तन्मे वास्वायत लोहिताक्ष ।।1.110.४०।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० दक्षवंशवर्णनं नाम दशोत्तरशततमोऽध्यायः ।। ११० ।। ।।