विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९४
वेदव्यासः
अध्यायः ०९५ →

।। वज्र उवाच ।। ।।
एकैकस्येदमुक्तं ते विधानं द्विजपूजने ।।
सर्वग्रहाणां यजने विधानं मम कीर्तय ।। १ ।। - ।।
मार्कण्डेय उवाच ।।
एकैकस्येदमुक्तं ते विधानं राजसत्तम ।।
सर्वग्रहाणां यजने मण्डलस्य विधिं शृणु ।। २ ।।
आदावेव नरव्याघ्र यागं वक्ष्याम्यतः परम् ।।
प्रागायतं तु कर्तव्यमादौ लेखाद्वयं नृप ।। ३ ।।
तस्योपरि तथा कार्यमपरं तूत्तरायतम् ।।
एवं कृते यदुत्पन्नं मध्ये तु चतुरस्रकम् ।। ४ ।।
ततो ग्रहेभ्यः कर्तव्यं तथा लेखाचतुष्टयम् ।।
तच्छक्तिभ्यः प्रकर्तव्यं तथा रेख्या चतुष्टयम् ।।)
एवं कृते सम्भवति भगणं द्वादशक्षयम् ।।५।।
त्रयोदशं तथा तस्य ध्रुवस्थानं तु मध्यमम् ।। ६ ।।
प्राच्यां दिशि महीनाथ मेषं तु परिकल्पयेत् ।।
तदाद्या गणना कार्या परिशेषेषु राशिषु ।।७।।
रेखाविधानं द्विगुणं शोभार्थं परिकल्पयेत् ।।
राशिस्थानानि सर्वाणि राशिवर्णेन रञ्जयेत्।।८।।
राशि वर्णान्यथो वक्ष्ये यथावदनुपूर्वशः ।।
अरुणश्च सितश्चैव हरितः पाटलस्तथा ।।९।।
आपाण्डुश्च विचित्रश्च कृष्णश्च कपिलस्तथा ।।
पिंगलः कर्बुरो बभ्रुर्मलिनश्च यथाक्रमम् ।।1.94.१०।।
मेषादीनां विनिर्दिष्टा वर्णाः पार्थिवसत्तम।।
आकाशवर्णं कर्त्तव्यं ध्रुवस्थानं तथैव च ।।११।।
ध्रुवस्थाने महीनाथ देवतासप्तकं न्यसेत् ।।
मण्डलैश्शुक्लवर्णैस्तु दिग्विभागं निबोध मे।।१२।।
ध्रुवस्य मण्डलं मध्ये प्राग्भागे मण्डलत्रयम् ।।
मण्डलं गगनस्यात्र भागे प्रागुत्तरे भवेत् ।।१३।।
प्राग्भागे च तथा राजन्मण्डलं ब्रह्मणः स्मृतम् ।।
प्राग्दक्षिणे तथा भागे दिशं पूर्वां प्रकल्पयेत् ।।१४।।
भागे वै नेर्ऋते कार्यं भुवो भूपाल मण्डलम् ।।
शेषस्य च तथा कार्यं प्रतीच्यां दिशि मण्डलम् ।। १५ ।।
दिगधस्तात्तथा तस्य मण्डलं पश्चिमोत्तरे ।।
ग्रहश्चारवशाद्राजन्यस्मिन्राशौ व्यवस्थितः ।। १६ ।।
मण्डलं तस्य कर्तव्यं तस्मिन्नेव यथाविधि ।।
न्यासं कार्यं ग्रहेन्द्राणां देवताभिः सहानघ ।।१७ ।।
आदित्यात्सप्तमे राशौ केतोः कार्यं तु मण्डलम् ।।
राशौ सुवर्णे तद्वर्णं यस्य स्यान्मण्डलं नृप ।।१८।।
उत्पाद्यः परिधिस्तस्य रंगेनान्येन पार्थिव ।।
गन्धचूर्णयुता रङ्गाः कर्त्तव्या भूतिमिच्छता ।।१९।।
राशिचक्रं समग्रन्तु रेखया परिवारयेत् ।।
नक्षत्राणां ततः कार्यो न्यासः पार्थिवसत्तम।।1.94.२०।।
राशौ राशौ यथास्थानं रेखया परिवारितम् ।।
राशौ राशावतो वक्ष्ये नक्षत्राणां समाश्रयम् ।।२१।।
अश्विनी भरणी चैव कृत्तिकांशं चतुर्थकम् ।।
मेषराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ।। २२ ।।
पादत्रयं कृत्तिकानां रोहिणी सकला तथा ।।
इल्वलानां तथैवार्धं ज्ञेयं वृषसमाश्रयम् ।। २३ ।। इल्वला=मृगशिरा
इल्वलार्द्धं तथैवार्द्रा ह्यदित्याश्चरणत्रयम् ।।
नित्यमेव समुद्दिष्टं मिथुनस्य समाश्रयम् ।। २४ ।।
पादं पुनर्वसोः पुष्यं सार्पं कर्कटकाश्रयम् ।।
पित्र्यं भाग्यं तथार्यम्णं प्रथमं चरणं तथा ।। २५ ।।
सिंहराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ।।
पादत्रयमथार्यम्णं हस्तश्चित्रार्धमेव च ।। २६ ।।
कन्याराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ।।
चित्रार्धमथ वायव्यं विशाखाचरणत्रयम् ।। २७ ।।
तुलाराशौ विनिर्दिष्टं मुनिभिस्तत्त्वदर्शिभिः ।।
विशाखाचरणं मैत्रं शाक्रं वृश्चिकभे स्मृतम् ।। २८ ।।
मूलमाप्यं तथा पादं वैश्वदेवस्य धन्विनि ।।
पादत्रयं वैश्वदेवाद्राजन्वैष्णवमेव च ।। २९ ।।
धनिष्ठार्धं च मकरे नित्यमेव प्रकीर्तितम् ।।
धनिष्ठार्धं शतभिषगजपाच्चरणत्रयम् ।। 1.94.३० ।।
कुम्भराशौ विनिर्दिष्टं सततं पार्थिवोत्तम ।।
पादमाजस्य सकलं चाहिर्बुध्न्यं नराधिप ।। ३१ ।।
पौष्णन्तु कथितं मीने मुनिभिस्तत्त्वदर्शिभिः ।।
भचक्रपूजने राजन्नक्षत्रस्य पृथक्पृथक् ।। ३२ ।।
राशिचक्रस्य बाह्ये तु ह्येकैकतारकं न्यसेत् ।।
प्रागुक्तवर्णैर्भूपाल न्यासः कार्यो यथाविधि ।। ३३ ।।
ताराचक्रस्य विन्यासं रेखया परिवार्य तम् ।।
नक्षत्रदैवतन्यासं बहिः कार्यं समन्ततः ।। ३४ ।।
यथा नक्षत्रस्वामी स्यादृक्षवर्णैः पृथक्पृथक् ।।
तस्यापि रेखा कर्त्तव्या वृत्ता चाप्यनु मण्डलम् ।। ३५ ।।
रेखाबाह्येन विन्यासं दिगीशानां तु कारयेत् ।।
दिशश्च पार्थिवश्रेष्ठ यथावदनुपूर्वशः ।। ३६ ।।
स्वाश्रयर्क्षसमं वर्णं दिगीशानां तु कारयेत् ।।
उत्तरायां च कर्त्तव्यं धनदस्य च मण्डलम् ।।३७।।
रुक्मवर्णं प्रयत्नेन दिशो वर्णमतः शुणु ।।
उत्तरा तु भवेच्छुक्ला रक्ता प्राची प्रकीर्तिता ।। ३८ ।।
दक्षिणा पीतवर्णा स्यात्कृष्णा ज्ञेया च पश्चिमा ।।
पद्मवर्णा तथा ज्ञेया ताम्रा स्यात्पूर्वदक्षिणा ।। ३९ ।।
पालाशा च विनिर्दिष्टा तथा दक्षिणपश्चिमा ।।
नीलोत्पलसवर्णा तु वायव्या परिकीर्तिता।।1.94.४०।।
शुक्लवर्णा तथा ज्ञेया चैशानीतत्त्वदर्शिभिः।।
दिङ्मण्डलं तु तद्विद्वाँल्लेखया परिवारयेत् ।। ४१ ।।
वृत्तया वेष्टयेद्वृत्तां लेखया चतुरस्रया ।।
तन्मध्ये शङ्खपद्माद्यैर्मङ्गलैरुपशोभयेत् ।। ४२ ।।
लेखाविधानं द्विगुणं सर्वत्रैव प्रकल्पयेत् ।।
मण्डलस्य तु कोणेषु ह्युदक्कुम्भान्नवान्दृढान् ।। ४३ ।।
फलपल्लवसंछन्नान्गन्धपुष्पादिसंयुतान् ।।
चतुरो विन्यसेद्विद्वान्नित्यमेव विचक्षणः ।। ४४ ।।
लेखासु विन्यसेद्राजन्पताकाश्च ध्वजाँस्तथा ।।
छत्राणि च सवर्णानि ग्रहेन्द्राणां पृथक्पृथक् ।। ४५ ।।
स्थानन्तु विज्ञाय यथावदत्र कार्यं यथा मण्डलकप्रमाणम् ।।
यथा महत्ता नृप मण्डलस्य तथातथा वृद्धिमुपैति कर्ता ।। ४६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मण्डलकल्पनानाम चतुर्नवतितमोऽध्यायः ।।९४।।