विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९३
वेदव्यासः
अध्यायः ०९४ →

वज्र उवाच ।।
विस्तराच्छ्रोतुमिच्छामि ग्रहनक्षत्रपूजनम् ।।
त्वत्तोऽहं भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।।
कल्पिते मण्डले स्नातः प्राक्तन्त्रे च तथा कृते ।।
मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत् ।। २ ।।
पयः काञ्चनवर्णाया नीलायाश्च तथा घृतम् ।।
दधि वै कृष्णवर्णायाः श्वेतायाश्चैव गोमयम् ।।३।।
गोमूत्रं ताम्रवर्णायाः पञ्चगव्यं प्रकल्पयेत् ।।
अथैतानि समस्तानि कपिलायास्समाहरेत् ।। ४ ।।
गायत्र्या गृह्य गोमूत्रं रथे अक्षेति गोमयम् ।।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।। ५ ।।
तेजोसि शुक्रमित्याज्यं सावित्रेण कुशोदकम् ।।
अघमर्षणमन्त्रेण संयोज्य प्रणवेन तु ।। ६ ।।
मण्डलाभ्युक्षणं कार्यं सावित्र्या तदनन्तरम् ।।
पूर्णं क्षीराक्षतोपेतं सर्षपातण्डुलैर्युतम् ।। ७ ।।
शङ्खे रजते ताम्रे वा कुर्यादर्घ्यं विचक्षणः ।।
रथे अक्षेति मन्त्रेण द्रविणेन तथैव च ।। ८ ।।
पाद्यस्य कल्पना कार्या द्रुपदायास्तथैव च ।।
हिरण्यवर्णेत्यारभ्य ऋक्त्रयेण तथैव च ।। ९ ।।
आपो हिष्ठेति तिसृभिः शन्नोदेवीति पार्थिव ।।
जीवदानं ततो देयं मण्डले नृपपुङ्गव ।। 1.93.१० ।।
अर्घ्योदकं पवित्रेण तत्र मन्त्रः प्रकीर्तितः ।।
अग्नेरायुरसीत्येवमनुवाकं नराधिप ।। ११ ।।
जीवस्यावाहनं कार्यं तं च वक्ष्याम्यतः परम् ।।
ओम्-आवाहयाम्यहं देवं जीवं सर्वगतं विभुम् ।। १२ ।।
पञ्चधावस्थितं देहं पञ्चधावस्थितं पुनः ।।
पञ्चाधावस्थितं भूयः पञ्चधावस्थितं ततः ।। १३ ।।
वायव्येन तु भावेन पञ्चधावस्थितस्सदा ।।
आग्नेयेन तु भावेन पञ्चधावस्थितस्तथा ।। १४ ।।
भूतात्मकेन तु तथा पञ्चधावस्थितं प्रभुम् ।।
वारुणेन च भावेन पञ्चधावस्थितं सदा ।। ।। १५ ।।
मण्डलेऽस्मिन्नदृश्यस्त्वं प्रविशाद्य नमोस्तु ते ।।
जीवस्यावाहनं कृत्वा यथावत्पार्थिवोत्तम ।। १६ ।।
वक्ष्याम्यावाहनाध्यायान्पूज्यस्यावाहनं भवेत् ।।
तद्विष्णोः परमित्येवमर्घ्यं देयं नराधिप ।। १७ ।।
धुवा द्यौरिति मन्त्रेण ह्यासनं विनिवेदयेत् ।।
आपोहिष्ठेति तिसृभिः पाद्यं च विनिवेदयेत् ।। १८ ।।
अर्घ्योदकादाचमनं गायत्र्या विनिवेदयेत् ।।
दधि क्षौद्रं घृतं चैव मधुपर्कं निवेदयेत् ।। १९ ।।
तत्र मंत्रत्रयं ज्ञेयं दधि क्राव्णेति पार्थिव ।।
तेजोसि शुक्रमित्येव मधुवाता ऋतायते ।। 1.93.२० ।।
मधुपर्किकमश्वत्थं ततो मात्रां निवेदयेत् ।।
सहिरण्यं बीजपात्रं द्रविणेन सदैव तु ।। २१ ।।
पशुः कलौ न कर्तव्य इत्याह भगवान्भृगुः ।।
रथे अक्षेति मन्त्रेण दातव्यमनुलेपनम् ।। २२ ।।
विभूषणं च तेनैव ततः परतरं नृप ।।
यज्ञोपवीतं तु नवं तथा प्रतिसरं शुभम् ।। २३ ।।
वस्त्रं पताकां च तथा सावित्रेण निवेदयेत् ।।
पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ ।। २४ ।।
धूपमन्त्रमिदं चान्यं निबोध गदतो मम ।।
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः ।। २५ ।।
आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।
तेजोसि शुक्रमित्येव दीपं दद्यान्महीपते ।। २६ ।।
हिरण्यगर्भेत्यष्टर्चं देयं सर्वं निवेदयेत् ।।
निबोध गदतो मन्त्रमन्नपाननिवेदने ।। २७ ।।
तुष्टिपुष्टिकरं हृद्यमाहारं सर्वदेहिनाम् ।।
गृहाण वरदाचिन्त्य पानं भक्त्या मयोदितम् ।। २८ ।।
पानेनानेन परमा तृप्तिरस्तु तवानघ ।।
तृप्तस्तर्पय कामैस्तु यजमानं नमोऽस्तु ते ।। २९ ।।
अनुक्तमंत्रं श्रुत्वाऽथ ग्रहेभ्यो यः प्रयच्छति ।।
सावित्रं तस्य निर्दिष्टं मन्त्रं पार्थिवसत्तम ।। 1.93.३० ।।
ततोऽग्निहवनं कृत्वा दत्त्वा राजेन्द्र दक्षिणाम् ।।
सावित्रेण तु मन्त्रेण ततः कार्यं विसर्जनम् ।। ३१ ।।
इमां पूजां समादाय मया भक्त्या निवेदिताम् ।।
पुनरागमनायेह व्रजध्वं नाकमुत्तमम् ।। ३५ ।।
आधयो व्याधयश्चैव प्रशमं यान्तु सर्वशः ।।
रक्षा चाऽस्तु शिवं चास्तु यजमानस्य सर्वतः ।। ३३ ।।
गवां शिवं चास्तु तथा द्विजानां राज्ञां शिवं चास्तु तथा प्रजानाम् ।।
आतङ्कहीनं जगदस्तु सर्वं दोषाः प्रणाशं सकलाः प्रयान्तु ।। ३४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहपूजाविधानं नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।