विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९२
वेदव्यासः
अध्यायः ०९३ →

।। वज्र उवाच ।। ।।
प्राक्तन्त्रोत्तरतन्त्रौ द्वौ सर्वेषामग्निकर्मणाम् ।।
त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ।। १ ।।
मार्कण्डेय उवाच ।।
उद्धृत्योर्वीमयीं शुद्धे देशे वेदिं च कारयेत् ।।
प्रागुदक्प्रवणां शुद्धामायामात्पदसप्तकम् ।। २ ।।
पूर्वभागे च विज्ञेया विस्तरात्पदपञ्चकम् ।।
पश्चिमे च तथा भागे विस्तरात्स्याच्चतुष्टयम् ।। ३ ।।
आगारदेशे च तथा विस्तृता सा पदत्रयम् ।।
पूर्वभागादतिक्रम्य पश्चात्पदचतुष्टयम् ।। ४ ।।
याम्येनोत्तरतश्चैव विज्ञेयं तु पदं पदम् ।।
आगारात्पश्चिमे भागे वेदी ज्ञेया पदद्वयम् ।। ५ ।।
वेदिमेवंविधां कृत्वा स्नात्वाचम्य प्रयत्नतः ।।
सौवर्णान्राजताँस्ताम्रानथवापि महीमयान् ।। ६ ।।
सूत्रार्घ्यमाल्यैर्गन्धैश्च सफलैः पल्लवैर्युतान् ।।
पूर्णोदकुम्भांश्चतुरो विदिक्षु सुदृढं न्यसेत् ।। ७ ।।
वेद्यामुल्लिखनं कार्यमैन्द्रीभिर्नृपसत्तम ।।
उदुम्बरस्य शाखाभिः प्रागग्राभिः समन्ततः ।। ८ ।।
शुष्केन्धनसमृद्धस्तु ततः कार्य्यो हुताशनः ।।
न धमेत्तालवृन्तेन न शूर्पेण न वाससा ।। ९ ।।
मुखेनोपधमेदग्निं मुखादग्निरजायत ।।
परिसमुह्य पर्युक्ष्य परिषिच्य परिस्तरेत् ।। 1.92.१० ।।
हुताशनं बोधयित्वा भूयश्चावाहयेद्बुधः ।।
वक्ष्यामि बोधने मन्त्रं तथा चावाहने नृप ।। ११ ।।
उद्बुद्ध्याग्ने बोधयन्ति देवतास्तास्सवासवाः ।।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ।। १२ ।।
वरुणो वायुराकाशं चन्द्रादित्यौ प्रभाकरौ ।।
ऋषयश्च महाभागास्त्रैलोक्यामलदर्शनाः ।। १३ ।।
वेदाश्च वेदमाता च सावित्री पापनाशिनी ।।
ओषध्योऽथ वषट्कारो मन्त्राश्च विविधास्तथा ।। १४ ।।
कालस्यावयवास्सर्वे दिशश्च विदिशस्तथा ।।
उदबुद्ध्य यजमानस्य सर्वान्कामान्प्रयच्छ वै ।। १५ ।।
(ओम्)आवाहयाम्यहं देवं देवदेवं हुताशनम् ।।
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ।। १६ ।।
वेदमूर्तिं तदाधारं सर्वदेवमुखं विभुम् ।।
पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम् ।। १७ ।।
शुकयानगमं देवं सर्वाभरणभूषितम् ।।
सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ।। १८ ।।
तेजोमूर्त्तिं दुराधर्षं सप्तजिह्वं महाबलम् ।।
सप्तार्चिषं सप्तर्षिकं च समित्सप्तकमच्युतम् ।। १९ ।।
विष्णोरंशमनिर्देश्यं भावनं जातवेदसम् ।।
पावनं पुष्टिदं सौम्यं भक्तानां भूतिवर्धनम् ।। 1.92.२० ।।
तद्दत्तमाहुतिगणं संप्रतीच्छ जगद्गुरो ।।
तेन भावय देवेश यथाहं देवतागणान् ।। २१ ।।
याजकं यजमानं च पुष्ट्या विभज सर्वशः ।।
इदमर्घ्यमिदं पाद्यं धूपं दीपं प्रगृह्यताम् ।। २२ ।।
एवमावाहनं कृत्वा पाद्यार्घ्यं विनिवेदयेत् ।।
वेद्यामेव न तौ देयौ वह्नौ यदुकुलोद्वह ।। २३ ।।
गन्धपुष्पादिकं देयं सकलञ्जातवेदसि ।।
धूपं दीपं सनैवैद्यं वेद्यामेव निवेदयेत् ।। २४ ।।
ततस्तु प्रस्तरेद्वेदिमक्षताग्रैः कुशैर्द्विज ।।
उपमूलादधोलूनैः प्रागग्रैः प्रयतः शुचिः ।। २५ ।।
पूर्वे च प्राग्दक्षिणतः पश्चाच्चैवापसव्यतः ।।
उत्तरेण ततः कुर्यात्प्रस्तरस्य समापनम् ।। २६ ।।
मूलच्छिन्नन्तु दातव्यं प्रस्तरे भूभृतां वर ।।
ओषध्यः फलवन्त्यश्च पर्ववत्यस्तथैव च ।। २७ ।।
दर्भाभावे प्रशंसन्ति तिस्रस्तत्र च वर्जयेत् ।।
राजसीरवरूकं च परिबाधमथोत्कटम् ।। २८ ।।
विष्णुर्मनसा पूते स्तो मन्त्रेणानेन सुव्रत ।।
दार्भं पवित्रमुत्सज्य ताभ्यां च तदनन्तरम् ।। २९ ।।
देवोव इत्यथैतेन उत्पूयमुदकं शुचि ।।
स्रुक्स्रुवावथ पालाशौ शमीन्यग्रोधसंभवौ ।। 1.92.३० ।।
उदुम्बरमयौ ताम्रौ रूप्यरुक्ममयौ तथा ।।
आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा ।।३१ ।।
माहेयी वापि भूपाल नित्यसर्वाग्निकर्मसु ।।
हस्तमात्रः स्रुवः कार्यो स्रुव बाहुसमं तथा।।३२।।
अङ्गुष्ठमध्यप्रतिमं होमस्थानं स्रुवस्य तु।।
आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत्।।३३।।
ग्रामं पृश्चापयोसीति मन्त्रेणाज्यं नराधिप।।
आज्यस्थाल्याः पयोत्पूतं पञ्चानामिति पञ्चकम् ।। ३४ ।।
पठन्गृह्णीत राजेन्द्र अर्जेत्यग्नावधिश्रयेत् ।।
आज्यस्याथ पवित्रेण कार्य मुत्प्लवनं द्विज ।। ३५ ।।
अग्निर्जिह्वेति सततं हविरस्युत्पवनान्तरम् ।।
अक्षीणन्तु न कर्तव्यं सततं पार्थिवोत्तम ।। ३६ ।।
शुभाभ्यां स्रुक्स्रुवौ राजन्प्रत्युष्टमिति भावय ।।
पवित्रस्याग्रदर्भेण आयुरित्येव मानद ।। ३७ ।।
प्रतिमार्ष्टि भुवं पश्चाच्चक्षुरित्येव पार्थिव ।।
प्रतिमार्ष्टि स्रुवं ताँश्च दर्भान्वह्नावथोत्सृजेत् ।।३८।।
दर्भोत्सर्गे पठेन्मन्त्रमिमं पार्थिवसत्तम ।।
दिवि शिल्पमवततं पृथिव्याः कक्षिभिः श्रितम् ।। ३९।।
तेन सहस्रकाण्डेन द्विषन्तं तापयामसि ।।
द्विषन्तस्तप्यतां चोक्त्वा क्षिपेद्दर्भान्हुताशने ।।1.92.४०।।
इध्मद्वयं ततो देयं याज्ञियद्रुमसम्भवम् ।।
पलाशः खदिरो बिल्वः शम्यश्वत्थवटास्तथा ।।४१।।
उदुम्बरमपामार्गः फल्गुश्च क्रमुकस्तथा ।।
चन्दनं देवदारुश्च द्रुमा द्वादश याज्ञियाः ।।४२।।
चतुर्गृहीतं विन्यस्य स्रुचि पूर्वं विचक्षणः ।।
इध्मद्वये प्रज्वलिते सौम्यभागे नराधिप ।।४३।।
प्रजानाम्पतये त्वादावाहुतिं मनसा न्यसेत् ।।
चतुर्गृहीते मूर्द्धेति देया दक्षिणतो भवेत्।। ।।४४।।
युक्तः परस्तादित्यादि पञ्चकं जुहुयात्ततः ।।
सन्ततीश्च जयाद्यास्तास्तथा राष्ट्रभृतो नृप ।।४५।।
वार्त्रघ्नौ चाज्यभागौ च दातव्यौ पार्थिवोत्तम ।।
अथौदुम्बरपत्राणां वेदौ दक्षिणतो नृप ।। ४६ ।।
सञ्चये पद्मपत्राणामथवापि महीपते ।।
आवाहनं तु कर्तव्यं देवस्य परमेष्ठिनः ।। ४७ ।।
आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ।।
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ।।४८।।
चतुर्वेदं चतुर्वक्त्रं चातुर्वण्यप्रभुं प्रभुम् ।।
चतुराश्रमगोप्तारं वरदं भूतभावनम् ।। ४९
पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ।।
आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम् ।। 1.92.५० ।।
यज्ञेशं यज्ञमूर्तिं च त्रैलोक्यस्यैककारणम् ।।
सर्वगं वरदं सौम्यं परमं परमेश्वरम् ।। ५१ ।।
भूतभव्यभवं नाथं योगज्ञेयं सनातनम् ।।
आगच्छ भगवन्ब्रह्मन्यजमानस्य वृद्धये ।। ५२ ।।
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ।।
ब्रह्मलिङ्गांस्ततो मन्त्राञ्जपेद्भक्त्या समाहितः ।। ५३ ।।
आपोहिष्ठेति मन्त्रेण ब्रह्मणोऽर्घ्यं निवेदयेत् ।।
शन्नोदेवीति पाद्यं च प्रयतः सुसमाहितः ।। ५४ ।।
हिरण्यगर्भेति तथा दद्यादाचमनं बुधः ।।
ध्रुवा द्यौरिति मन्त्रेण ह्यासनं विनिवेदयेत् ।। ५५ ।।
गन्धं पुष्पमलङ्कारं वस्त्रं धूपं सदीपकम् ।।
नैवेद्यं च तथा देयं सावित्रेण नराधिप ।। ५६ ।।
प्राक्तन्त्रमेतदुक्तं ते मया सर्वाग्निकर्मसु ।।
प्राक्तन्त्रे तु कृते कार्यं होममन्त्रमयासकम् ।। ५७ ।।
एवं कार्यं महीनाथ सर्वेष्वेवाग्निकर्मसु ।। ५८ ।।
होमस्य विहितस्यान्ते तन्त्रं कार्यमथोत्तरम् ।।
महाकल्पस्य कल्पस्य तथा मन्वन्तरस्य च ।। ५९ ।।
युगस्याथ समायाश्चायनस्य हि तथैव च ।।
ऋतोर्मासस्य पक्षस्य ग्रहनक्षत्रयोस्तथा ।। 1.92.६० ।।
तिथेश्च करणस्याथ मुहूर्तस्य च पार्थिव ।।
वर्त्तमानस्य सर्वस्य देयस्याधिपतिर्भवेत् ।। ६१ ।।
इह गाव अयं यज्ञ आनः प्रजास्तथैव च ।।
धृतिं चैवोपधृतिं च इहाभागं तथैव च ।। ६२ ।।
देयं चतुर्गृहीतेन होमद्रव्येण पार्थिव ।।
त्वन्नो अग्ने वरुणस्य स त्वंनो अग्न एव च ।। ६३ ।।
अयाश्चाग्नेस्तथैवेति तथा व्याहृतयो नृप ।।
त्वन्नो अग्नेति च ततो होतव्यमृक्त्रयं पुनः ।। ६४ ।।
न्यूनं ततेति रिक्तेति न्यूने चैवातिरिक्तकम् ।।
समं समे तथा हुत्वा होतव्यमृक्त्रयं ततः ।। ६५ ।।
अनाज्ञातं यदाज्ञातं स्विष्टिश्चाप्यथ पार्थिव ।।
मनोर्ज्योतिस्तथैवात्र त्रयस्त्रिंशत्तथैव च ।। ६६ ।।
यन्मे च मनसा च्छिद्रं विश्वकर्मा तथैव च ।।
अयाश्चाग्नेस्तथा राजन्त्वन्नो अग्ने तथैव च ।।
सत्वन्नो अग्ने इत्येवं हुत्वा पार्थिवसत्तम ।। ६७ ।।
आश्रावितेति मन्त्रेण देया पूर्णाहुतिर्भवेत् ।। ६८ ।।
इष्टो हि यज्ञो भृगुभिर्मंत्रेणानेन पार्थिव ।।
आज्यस्थालीं स्रुक्स्रुवौ च दर्भैस्तु परिमार्जयेत् ।। ६९ ।।
ताँश्च दर्भान्क्षिपेद्वह्नौ प्रयतः सुसमाहितः ।।
पूर्णमित्येव च स्रुवा कार्यं संवीक्षणं ततः ।। 1.92.७०।।
यथादिशं महीपाल तथा कुर्याद्विमोचनम् ।।
ततो विसर्जनं कार्यं ब्रह्मणः परमेष्ठिनः ।। ७१ ।।
भगवन्देवदेवेश जगतामार्तिनाशन ।।
व्रजस्व पूजामादाय पुनरागमनाय च ।।७२।।
यजमानस्य शान्त्यर्थं सर्वस्य जगतस्तथा ।।
आरोग्यधनधान्येन यजमानं च वर्धय ।।७३।।
हुताशनस्य कर्त्तव्यं ततो राजन्विसर्जनम् ।।
द्रव्यभुक्त्वं वरेण्यस्त्वं प्रणतार्तिविनाशनः ।।७४ ।।
व्रजस्व पूजामादाय पुनरागमनाय च।।
शान्त्यर्थं यजमानस्य राष्ट्रस्य च विवृद्धये ।।७५।।।
गोब्राह्मणहितार्थाय जयाय च महीपतेः ।।
पूर्णपात्रमथादाय वाच्यं स्वस्त्ययनं ततः ।।७६।।
ततस्तु दक्षिणा देया यथा प्रोक्ता मया पुरा ।।
एतदुत्तरतन्त्रं तु प्रोक्तं सर्वाग्निकर्मणाम्।।७७।।
विधानमेतत्कथितं तवाद्य सर्वाग्निकर्मस्वनघोपयोगि।।
अतः परं किं कथयामि राजंस्तन्मे वदस्वायतलोहिताक्ष ।।७८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अग्निकार्ये प्राक्तन्त्रोत्तरतन्त्रविधिर्नाम द्विनवतितमोऽध्यायः।।९२।।